अहम्बोध:।

एष: सर्वेषामपि अनुभवविषय: यत् जाग्रत् ,स्वप्न: , सुषुप्ति: इत्येतासु तिसृष्वपि अवस्थासु ये अनुभवा: प्राप्यन्ते तेषु सर्वेषु अहम्बोध: समान:। 

जाग्रदवस्थायाम् 'अहं पश्यामि', 'अहं गच्छामि', 'अहं करोमि' एतादृशानुभव: भवति। स्वप्ने अपि तथैव। सुषुप्तौ स्वशरीरस्य, इन्द्रियाणां, बाह्यजगत: च भानं न भवति। तत्रत्य: अनुभव: "अहं किमपि न जानामि" एवम्प्रकारक: भवति। तथापि जाग्रदवस्थायां सुषुप्तिजातस्य संस्कारस्य स्मरणादेव "अहं एतावद्गाढं प्रसुप्त: आसं यत् अहं किमपि न जानामि स्म" एवं कथयितुं वयं पारयाम:। अत: सुषुप्तावपि अनुभविता "अहं" नैरन्तर्येण वसति इत्यत्र नास्ति संशीति:।

अहम्बोधेन विना न कोपि अनुभव: प्राप्तुं शक्य:। प्रथमं सर्वावस्थासु अहम्बोधोत्पत्ति: अनन्तरमेव अन्या अनुभवपरम्परा।  केचित् वदेयु: यत् यदा वयं कार्यव्यग्रा: विचारमग्ना: वा तदा एष: अहं न प्रतीतो भवति इति। एतत्सत्यं यत् एतासु अवस्थासु अहं प्रकर्षेण नानुभूयते तथापि अनुभवपरम्पराया: पृष्ठत: स: सूक्ष्मकर्तृज्ञातृरूपेण विद्यमान: अस्त्येव विना येन जगदनुभव: शक्य: एव न स्यात्। 

एष: पृष्ठभूमौ विद्यमान: अहम् मनसि उत्पन्ना प्रथमा वृत्ति:। अन्या: मनोवृत्तय: एतस्याम् अहंवृत्तौ एव आश्रिता: प्रथमजलतरङ्गे अग्रिमतरङ्गविस्तरो यथा । तथापि स्वयं प्रथमतरङ्गरूपा अहंवृत्तिस्तु न अन्याश्रिता अपि तु सा केवलं चिदात्मनि  एव आश्रिता वर्तते।  

अत: एवोच्यते यत् ईश्वरस्य सर्वश्रेष्ठं प्रथमं नाम "अहम्" इति। एतत् ओङ्कारादपि पूर्ववर्ति। यदि अहंवृत्ते: सततम् अनुसन्धानं कुर्म: तर्हि एषा अहंवृत्ति: मूलकारणे आत्मनि प्रलीयते। 

एष: एव सरल: प्रत्यक्षतम: मोक्षमार्ग:। 

रामकृष्णशिवादीनां नाम्नामपि अहंवृत्तिपर्यन्तं प्रापणायैव उपयोग:। कश्चन यदि सातत्येन शिव शिव इति उच्चारयति तर्हि तस्य अन्यासां मनोवृत्तीनां क्षय: भूत्वा केवलं शिवनामावलम्बिनी मनोवृत्तिरेव अवशिष्येत्। तदनन्तरं शिवोहम् इति तादात्म्यात् शिवनाम्न: अहंवृत्तौ लय: भवति। अन्ते च पुन: एष: अहम् आत्मनि विलीयते।

अत एव कश्चन ईश्वरस्य विषये, ब्रह्मविषये, ईश्वरस्य जगत्कर्तृत्वविषये वा  पृच्छति स्म तर्हि रमणमहर्षि: वदति स्म यत् वयं किमर्थं ब्रह्मेश्वरादीनाम् विषये वृथा मस्तिष्कं चालयाम:? एते सर्वे अज्ञातपदार्था:। अहम्बोध: तु सर्वदा सर्वेषाम् आत्मनि स्फुरत् अस्ति। तस्य प्रत्यक्षम् अनुभूयमानस्य ईश्वरस्य अनुसरणं विहाय अज्ञातानाम्  शिवरामकृष्णेश्वरब्रह्मादीनाम् बहिस्थपदार्थानाम् अन्वेषणेन किम्? 

"अहं ब्रह्मास्मि" इत्यस्य महावाक्यस्य अयमेवार्थ: यत् यदहम् अहम् इति सर्वदा आत्मनि भासते तदेव ब्रह्म ईश्वरो वा। तस्यान्वेषणं स्वरूपनिश्चितिर्वा पुन: बहिर्गत्वा करणीया नाम आकण्ठं जले निमज्जितस्य जलं कुत्रास्ति इति मिथ्याप्रच्छनम्। 

'आत्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य:' एतस्य उपनिषद्वाक्यस्यार्थ: अपि अहम्बोधानुसन्धानेन आत्मा अवगन्तव्य: इत्येव। एतत्सत्यं प्रतिपादयितुमेव सर्वे वेदान्ता: प्रवर्तन्ते। 

हृदयकुहरमध्ये केवलं ब्रह्ममात्रम्।
ह्यमहमिति साक्षादात्मरूपेण भाति॥
हृदि विश मनसा स्वं चिन्वता मज्जता वा।
पवनचलनरोधादात्मनिष्ठो भव त्वम्॥

----- रमणगीता।

हृदयगुहायां चिन्मात्रं ब्रह्म 'अहम्', 'अहम्' इति वदन् आत्मरूपेण साक्षात् प्रकाशते। अत: त्वं स्वयमेव मनसा कोहमिति अन्वेषयन् अथवा प्राणायामेन मन: निरुध्य हृदि प्रविश आत्मनिष्ठश्च भव। 

एष: एव सम्पूर्णाया: आत्मविद्याया: अज्ञातपूर्व: सार: भगवता रमणेन जगत्कल्याणाय प्रकाशित:। 

स भगवान्रमणो विजयतेतराम्।