कोऽहम् ? --२

१५) आत्मविचारस्य अभ्यास: कियत्कालं कर्तव्य:?

√ यावत् जगद्वस्तूनां संस्कारा: मनसि विद्यन्ते तावत् कोऽहम् इत्येवंरूपा आत्मविचारणा आवश्यकी । यथा यथा विचारा: उद्भवेयु: तथा तथा अनुक्षणमेव तेषामुद्गमस्थले तेषां हननं करणीयम्। यदि कश्चन एवं सातत्येन आत्मसाक्षात्कारं यावत् आत्मानुसन्धानं कुर्यात् तर्हि तदेव निश्चयेन कार्यसाधकं भवेत्। यावत् दुर्गे शत्रव: विद्यन्ते तावत् ते सन्ततम् अभिघाताय धाटीं विदध्यु:। यदा यदा ते बहिरागच्छन्ति तदा तदा यदि तान् मारयाम: तर्हि दुर्ग: अस्माकम् आधीन्ये भवेत्।  

१६) आत्मन: स्वरूपं किम्?

√ यथार्थतया यत् विद्यमानं तत् केवलं आत्मैव। जीवा:, जगत् , ईश्वर: चैते त्रय: तस्मिन्नात्मन्येव शुक्तौ रजतमिव भासमाना: भवन्ति। एते त्रय: एककालमेव भासन्ते एककालमेव लयं गच्छन्ति। आत्मा तदेव यत्र “अहम्” इति विचारस्य अवशेष: अपि न विद्यते। तदेव “मौनम्” इति कथ्यते। आत्मैव सर्वं जगत्।एष: “अहम्” अपि स: एव। स: एव ईश्वर:। सर्वमेव आत्मरूपं शिवरूपं वा।

१७) सर्वमपि ईश्वरस्य कर्म अस्ति ननु?

√ इच्छां विना सङ्कल्पं विना अथवा प्रयत्नं विना सूर्य: उदेति। तस्य केवलास्तित्त्वेनैव सूर्यकान्तमणि: अग्निं वमति, कमलं विकसति, जलं बाष्पीभवति, जना: स्वस्वकार्याणि कुर्वन्ति ततश्च विश्राम्यन्ति। यथा अयस्कान्तस्य केवलम् उपस्थित्या एव सूच्य: तं प्रति आकृष्टा: भवन्ति तथा केवलम् ईश्वरस्य अस्तित्वेनैव त्रिभिर्गुणै: सत्वरजस्तमोरूपै: अथवा पञ्चभि: दिव्यकार्यै: उत्पत्ति-स्थिति-विनाश-तिरोधान -अनुग्रहै: नियन्त्रिता: जीवा: स्वस्य प्रारब्धानुसारं स्वकर्माणि सम्पादयन्ति ततश्च विश्राम्यन्ति। ईश्वर: सङ्कल्परहित: अत: किमपि कर्म तस्मिन् न श्लिष्यते यथा जगत: कर्माणि सूर्ये परिणामं न जनयन्ति अथवा आकाश: यथा अन्येषां चतुर्णां महाभूतानां गुणै: दोषैर्वा लिप्तं न भवति।

१८) भक्तेषु क: सर्वोत्तम:?

√ य: आत्मरूपाय ईश्वराय सर्वस्वं समर्पयति स: ईश्वरस्य सर्वोत्तम: भक्त:। अत्र ईश्वराय समर्पणं नाम अन्यान् सर्वान् विचारान् अपास्य केवलम् आत्मविचारपरायण: भूत्वा स्थानम्।

ईश्वरे य: कश्चित् भार: समर्प्यते, तं भारम् ईश्वर: आनन्देन वहति। यत: ईश्वरस्य महाशक्ति: एव सर्वं जगत् चालयति, तां शरणम् अगत्वा ‘किं करणीयम्? किं न करणीयम्? कथं करणीयम्? कथं न करणीयम्?’ एतादृशै: विचारै: अस्माभि: किमर्थं सततं चिन्ताकुलै: भवितव्यम्?  

वयं तु जानीम: यत् रेलयानं सर्वमपि भारं वहत् अस्ति। तर्हि रेलयाने प्रवेशात् अनन्तरं किमर्थं वयं स्वीयं लघुभारं रेलयानभूमौ स्थापयित्वा सुखेन उपवेशनं विहाय, तत् भारं स्वस्य शिरसि एव वहन्त: कष्टम् अनुभवाम:?  

१९) वैराग्यं नाम किम्?

√ यथा यथा विचारा: उद्भवन्ति तथा तथा तेषाम् उद्गमस्थले एव सम्पूर्णतया हननं वैराग्यमिति उच्यते। यथा मौक्तिकान्वेषक: स्वस्य कटिभागे पाषाणखण्डं बद्ध्वा समुद्रतले निमज्जति तथा मौक्तिकानि गवेषयति, तथैव अस्मासु प्रत्येकं जन: वैराग्यान्वित: भूत्वा स्वस्मिन् निमज्जेत् आत्मरूपं मौक्तिकं चाधिगच्छेत्।

२०) गुरु: अथवा ईश्वर: एतयो: कृते जीवाय मुक्तिदानं न शक्यं वा?

√ ईश्वर: गुरुश्च मुक्ते: मार्गं दर्शयत:। तौ जीवं न साक्षात् स्वयमेव मुक्तिं प्रति नयत:। यथार्थदृशा पश्यामश्चेत् ईश्वर: गुरुश्चेति एतौ द्वौ न भिन्नौ। यथा व्याघ्रस्य वक्त्रे पतितं भक्ष्यं पलायनं कर्तुं न प्रभवति तथैव एकवारं गुरो: कृपादृष्टे: परिक्षेत्रे आगत: जीव: गुरुणा त्रायते एव, स कदापि विनाशं न गच्छति।

एवं सत्यपि जन: स्वस्य प्रयत्नेनैव ईश्वरेण अथवा गुरुणा उपदिष्टं मार्गम् अनुसृत्य मोक्षं विन्देत्। स्वम् अभिज्ञातुं स्वस्यैव ज्ञानचक्षु: आवश्यक:, किं तस्य अपरस्य ज्ञानानुभवेन? य: राम: अस्ति स: ‘अहं राम:’ अस्मीति अभिज्ञातुं दर्पणम् अपेक्षते वा?

२१) मुमुक्षो: कृते जगत्तत्त्वानां चिकित्सा आवश्यकी वा?

√ य: अवकरं त्यक्तुम् इच्छति तस्य कृते अवकरस्य विश्लेषणम् अनुपयुक्तम्। तथैव य: आत्मानं वेत्तुम् इच्छति तस्य कृते तत्त्वानां गणना अथवा तेषां स्वरूपस्य विचार: अनावश्यक:। तस्य कृते एतावदेव आवश्यकं यत् आत्मनम् आच्छाद्य तं गोपयन्ति सर्वाण्यपि तत्त्वानि निराकरणीयानि। सर्वं जगत् स्वप्न: एव इति विचारणीयम्।

२२) किं जाग्रदवस्था स्वप्न: च अनयो: मध्ये भेद: एव नास्ति?

√ जाग्रदवस्था दीर्घकालिका, स्वप्न: लघुकाल:, एनं विहाय द्वयो: मध्ये न कोऽपि अपर: भेद:। जाग्रदवस्थायां यथा जाग्रदनुभवा: सत्यत्वेन भासन्ते तथैव स्वप्ने स्वप्नानुभवा:। स्वप्नावस्थायां मन: स्वप्नानुभवार्थम् अन्यदेव एकं सूक्ष्मं शरीरं धारयति।जाग्रदवस्थायां स्वप्नावस्थायां वा विचारा:, नामानि, रूपाणि च एकसमयावच्छेदेनैव प्रादुर्भवन्ति।

२३) मुमुक्षूणां कृते ग्रन्थपठनेन कोऽपि लाभ: भवति वा?

√ सर्वाणि शास्त्राणि वदन्ति यत् मोक्षप्राप्तये मनस: शमनम् आवश्यकम्।तस्मात् तेषां निर्णायक: उपदेश: अस्ति यत् मनस: शान्ति: साधनीया इति। एकवारम् एतत् तत्त्वम् अवगतं चेत् सन्ततग्रन्थपठनम् अनावश्यकं भवति। मनस: शान्त्यर्थं जन: केवलम् स्वस्मिन् एव मन: निवेश्य आत्मानम् अन्वेषयेत्। एतदन्वेषणं ग्रन्थेषु कथं कर्तुं शक्येत? जन: स्वस्य ज्ञानचक्षुषैव आत्मानम् अवगच्छेत्। 

आत्मा पञ्चकोषाणाम् अन्तरे वर्तते ; ग्रन्थास्तु एतेभ्य: कोषेभ्य: बहि: वर्तन्ते। पञ्चकोषाणां त्यागमेव कृत्वा आत्मान्वेषणं करणीयं भवति इत्यत: ग्रन्थेषु आत्मान्वेषणं व्यर्थमेव। आत्मान्वेषणे एक: समय: आगच्छति यदा वयं यत्किमपि अधीतवन्त: तत् सर्वं ग्रान्थिकं ज्ञानं विस्मर्तव्यं भवति।

२४) क: नाम आनन्द:?

√ आनन्द: आत्मन: स्वरूपमेव। आत्मा तथा च आनन्द: उभौ अभिन्नौ एव। कस्मिन्नपि जगद्वस्तुनि आनन्द: न विद्यते। अज्ञानवशात् वयं चिन्तयाम: यत् वयं वस्तुभ्य: आनन्दं प्राप्नुम: इति। यदा मन: आत्मानं परित्यज्य बहि: गच्छति तदा तत् दु:खमनुभवति। सत्यत्वेन पश्याम: चेत् मनस: इच्छा: यदा पूर्णा: भवन्ति तदा तत् स्वस्य उद्गमस्थाने प्रतिनिवर्तते आनन्दं चानुभवति; य: आनन्द: आत्मन: स्वरूपमेव।

तथैव स्वप्नावस्थायां, समाधौ, मूर्छनायामपि अथवा यदा वाञ्छितं वस्तु अधिगम्यते अवाञ्छितं वा निरस्यते तदापि मन: अन्तर्मुखं भवति आत्मानन्दं चानुभवति। एवं मन: पर्यायक्रमेण आत्मन: बहिर्गत्वा आत्मानं प्रति निवर्तते पुन: पुन:। 

वृक्षस्य अध: घनच्छाया सुखकरी बहिस्तु प्रखर: विदाही आतप:। य: जन: सर्वदा आतपे भ्रमति स्म स: छायां प्राप्य सुखकारकं शैत्यम् अनुभवति। य: पुन: पुन: छायात: आतपं गत्वा पुन: छायां प्रति निवर्तते स: तु मूढ: एव। बुद्धिमान् मनुष्य: तु सर्वदा छायायामेव तिष्ठेत्। तथैव यन्मन: सत्यं जानाति तत् ब्रह्म विहाय कदापि न गच्छति। तद्विपर्ययेण अज्ञस्य मन: जगति एव परिभ्रमति दु:खमनुभूय च पुन: किञ्चित्कालं बह्म प्रति आनन्दानुभवार्थं निवर्तते। 

यथार्थं विचारयाम: तर्हि यत् जगदिति कथ्यते तत् केवलं विचारा: एव। यदा विचारा: न सन्ति तदा जगत् अदृश्यं भवति मनश्च आनन्दम् अनुभवति। यदा जगत् प्रतिनिवर्तते तदा मन: दु:खानुभवं प्राप्नोति। 

२५) ज्ञानदृष्टि: का?

√ मौनेन स्थानं ज्ञानदृष्टिरिति कथ्यते‌। मौनं नाम मनस: आत्मनि विलयनम्। दूरश्रवणं, दूरदर्शनं, त्रिकालज्ञानं इत्यादय: सिद्धय: ज्ञानदृष्टे: रूपाणि न सन्ति। 

२६) ज्ञानवैराग्ययो: क: सम्बन्ध:?

√ वैराग्यमेव ज्ञानम्। ते द्वे अभिन्ने एव। वैराग्यं नाम मनस: विषयवस्तुं प्रति गमनात् निवर्तनं ज्ञानं नाम विषयवस्तूनां पूर्णाभाव:। अपरशब्दै: कथ्यते चेत् आत्मानं विहाय अन्यत् किमपि न अन्वेषणीयं एतस्य नाम अनासक्ति: वैराग्यं वा; तथा आत्मानं विहाय मनस: बहिरगमनं नाम ज्ञानम्।

२७) आत्मविचारणा ध्यानं च अनयो: क: भेद:?

√ आत्मविचारणा नाम मनस: आत्मनि एव निरोध:।** आत्मा एव सच्चिब्रह्मस्वरूप: अस्तीति वैचारिकचिन्तनं ध्यानम्।

२८) मुक्ति: नाम का?

बन्धने स्थितस्य स्वस्य स्वरूपविषये विचारणा तथा च आत्मत्वेन स्वस्य यथार्थज्ञानं मुक्ति:।

—--------------------------------------------

**आत्मविचारणा नाम किमपि विशिष्टं विचारकरणं न अपितु कोऽहम् इति पृच्छया अन्यविचाराणां नाशं साधयित्वा विचारराहित्येन आत्मन्येव स्थानम्।


 





 


 



  


 



 

कोऽहम् ? --१

आमुखम्।

कोऽहम्? (Who am I?) इत्येष: आत्मविचारणा- सम्बद्ध: प्रश्नोत्तरसङ्ग्रह: अस्ति। ईसवीये १९०२ मध्ये  श्री.एम्.शिवप्रकाशम्-पिल्लैमहाभाग: एतान् प्रश्नान् भगवन्तं रमणमहर्षिणं पृष्टवान्।  पिल्लैमहोदय: तत्त्वज्ञानस्य पदवीधर: आसीत्। स: तदानीं अरकॉट्-जनपदस्य करसङ्कलनविभागे कार्यरत: आसीत्। कार्यवशात् एकदा १९०२ मध्ये स: तिरुवन्नमलैनगरं गत:। तत्र स: अरुणाचलपर्वते विरूपाक्षगुहायां भगवन्तं रमणमहर्षिं मिलितवान्। तदा  गुरो: आध्यात्मिकं मार्गदर्शनम् अपेक्षमाणेन तेन महर्षे: सकाशात् आत्मविचारणामार्गम् अधिकृत्य केषाञ्चन प्रश्नानाम् उत्तराणि प्राप्तानि। भगवान् तदा मौनेनैव तिष्ठति स्म। अत: स: प्रश्नानाम् उत्तराणि इङ्गितेनैव दर्शयित्वा अथवा तेषाम् अर्थावगमाभावे लिखित्वा ददाति स्म।  


मूलत: एते आहत्य चतुर्दश प्रश्ना: आसन्। तथापि अग्रिमसंस्करणेषु एषा सङ्ख्या अष्टाविंशतिपर्यन्तं वृद्धा। क्वचित् च प्रश्नान् अनिर्दिश्य निबन्धरूपेणापि तेषां लेखनप्रकाशने जाते स्त:।


कोऽहम्? (Who am I) तथा विचारसङ्ग्रह: (Self Enquiry) एतौ द्वौ एव साक्षात् भगवत: रमणमहर्षे: स्वीयशब्दै: निबद्धौ गद्यरूपौ उपदेशसङ्ग्रहौ स्त:। आत्मविचारणा इत्येव मुक्ते: साक्षात् (direct) मार्गोऽस्ति इति तयो: केन्द्रीभूत: उपदेश:। कोऽहम् इत्यस्मिन् ग्रन्थे सुगमतया एतस्य मार्गस्य विवेचनं कृतम् अस्ति। मन: विचाराणां समूहरूपम्। तेषु विचारेषु ‘अहम्’ इत्येष: प्रथम: विचार:। कोऽहम् इति विचारणा सातत्येन अनुष्ठिता चेत् विचारा: नाशं यान्ति । अन्ते ‘अहम्’ इति विचार: अपि नश्यति तथा च केवलम् आत्मन: अद्वैतबोध: अवशिष्यते।  एवं अनात्मवस्तुभि: मन:शरीरादिभि: सह आत्मन: तादात्म्यं नश्यति; आत्मनश्च अपरोक्षज्ञानं भवति। एषा एव स्थिति: मौनशब्देन निर्दिश्यते। 


कोऽहम्?


सर्वेऽपि प्राणिन: सर्वदा दु:खरहिता: आनन्दपूर्णाश्च भवितुम् इच्छन्ति। सर्वेषां आत्मनि नितरां प्रीतिश्च लक्ष्यते। तस्या: प्रीते: कारणम् आत्मन: आनन्दस्वरूपमेव। यश्च आनन्द: स्वस्य स्वरूपभूत: यश्च मनस: अनुपस्थितौ सुषुप्तावस्थायाम् अनुभूयते तस्य अवाप्तये स्वस्य आत्मा वेदितव्य:। तदर्थं ज्ञानमार्ग: कोऽहम् इति विचारणारूप: प्रधानं साधनम्।


१) कोऽहम् ?


√ अहं सप्तधातुभि: निर्मितम् इदं स्थूलं शरीरं न अस्मि। अहं श्रोत्र-त्वक्-चक्षु-रसन-घ्राणरूपाणि शब्द-स्पर्श-रूप-रस-गन्धविषयाणि ज्ञानेन्द्रियाणि न अस्मि। अहं वाक्-पाणि-पाद-उपस्थ-पायुरूपाणि भाषण-ग्रहण-गमन-मैथुन-उत्सर्जनक्रियाणि कर्मेन्द्रियाणि न अस्मि। अहं प्राणादय: पञ्चप्राणा: तेषां श्वसनादिक्रिया: च न अस्मि। अहं विचारक्रियं मन: अपि न अस्मि। यत् जगद्वस्तूनां केवलं सुप्तसंस्कारान् दधाति तथा च  यस्मिन् स्थूलजगद्वस्तूनां क्रियाणां च पूर्णाभावो विद्यते तदज्ञानमपि अहं नास्मि।


२) यदि अहं एतानि सर्वाणि नास्मि तर्हि कोऽहम् ?


√ उपर्युक्तानां सर्वेषां ‘न इदम्’ ‘न इदम्’ एवं निषेधे कृते य: केवलबोध: अवशिष्यते स: एव अहम् अस्मि।


३) तस्य बोधस्य किं स्वरूपम्?


√ स: बोध: सत्-चित्-आनन्दस्वरूप: अस्ति।


४) तस्य आनन्दस्वरूपस्य आत्मन: साक्षात्कार: कदा भवेत्?


√ दृश्यमानं जगत् यदा निरस्यते तदा द्रष्टु: आत्मन: साक्षात्कारो भवेत्।


५) सत्यरूपेण प्रतीयमाने जगति स्थितेऽपि द्रष्टु: आत्मन: साक्षात्कार: भवेत् किम्?


√ न भवेत्तथा।


६) केन कारणेन?


√ द्रष्टा तथा च दृश्यम् रज्जुसर्पवत् स्त:। यावत् भासमानं सर्पविषयकं मिथ्याज्ञानं न अपगच्छति तावत् तस्य मिथ्याज्ञानस्य आधारभूता या रज्जु: तस्या: ज्ञानं नैव भवति। तथैव यावत् जगत: सत्यत्वविषयिणी अस्माकं भ्रान्ति: न अपगच्छेत् तावत् जगज्ज्ञानस्य आधारभूत: य: आत्मा तस्य साक्षात्कार: न भवेत्।


७) दृश्यमानस्य जगत: निरास: कदा भवेत्?


√ यदा सर्वेषां बोधानां क्रियाणां च कारणीभूतं मन: शान्तं भवेत् तदा समस्तं जगत् निरस्तं भवेत्।


८) मनस: किं स्वरूपम्?


√ यत् मन: इत्यभिधीयते तत् आत्मनि विद्यमाना काचित् विस्मयकारिणी शक्ति:। सा सर्वेषां विचाराणां जनयित्री। विचारान् विहाय मनोनामकं पृथक् किञ्चिद्वस्तु न अस्ति। अत: विचारा: एव मनस: स्वरूपम्। विचारान् विहाय जगन्नामकं पृथक् वस्तु स्वातन्त्र्येण न विद्यते। सुषुप्तौ विचारा: न विद्यन्ते तेन तत्र जगत: अपि अभाव: अस्ति। जाग्रत्स्वप्नयो: विचारा: उद्भवन्ति तदा एव जगत: अपि उद्भव: भवति।  यथा ऊर्णनाभि: स्वस्य शरीरात् सूत्रं सृजति पुनश्च स्वशरीरे उपसंहरते तथैव मन: स्वस्मात् जगत् सृष्ट्वा पुन: स्वस्मिन्नेव उपसंहरते। 


यदा मन: आत्मन: बहिरायाति तदा जगत् प्रत्यक्षीभवति अत: यदा जगत् सत्यत्वेन भासते तदा आत्मा प्रत्यक्ष: न भवति। तद्विपर्ययेण च यदा आत्मा साक्षाद्भवति तदा जगत: प्रतीति: न भवति।

 

यदि मनुष्य: नैरन्तर्येण मनस: स्वरूपं विचारयति तर्हि तन्मन: नाशं याति केवलम् आत्मा च अवशिष्यते। मनस: अवस्थिति: सर्वदा कस्यचित् स्थूलवस्तुन: आलम्बनम् अपेक्षते यत: मन: कैवल्येन स्वातन्त्र्येण वा स्थातुं न शक्नोति। एतत् मन: एव लिङ्गदेह: अथवा जीव: इति कथ्यते। 


९) क: एष: विचारमार्ग: मनस: स्वरूपस्य अवगमनार्थम्?


√ शरीरे यत् “अहम्” इति भानम् उदेति तदेव मन:। यदि विचारयाम: अस्मिन् शरीरे कुत्र वा एष: “अहम्” प्रथमम् आविर्भवति, तर्हि “हृदये” इति उत्तरं लभ्यते। अत: हृदयम् मनस: उद्गमस्थानम्। यदि मनुष्य सातत्येन “अहम्, अहम्” इति चिन्तयेत् तर्हि स: तम् उद्गमस्थलं प्रति नीतो भवति। 


मनसि उत्पद्यमानेषु सर्वेषु विचारेषु “अहम्” इति प्रथमो विचार:। तस्य उदयात् अनन्तरमेव इतरे विचारा: उद्भवन्ति। उत्तमपुरुषवाचकस्य सर्वनाम्न: पश्चादेव मध्यमप्रथमपुरुषवाचके सर्वनाम्नी प्रादुर्भवत:। 


१०) तन्मन: कथं शान्तं भवेत्?


√ कोऽहम् इति विचारणया। एष: कोऽहम् इति विचार: अन्यान् सर्वान् विचारान् नाशयेत्। पुनश्च यथा ज्वलदङ्गाराणाम् उन्मथनाय उपयोजितं काष्ठम् अन्ते स्वयमेव अग्नौ भस्मसात् भवति तथा अन्ते एष: कोऽहम् इति विचार: अपि स्वयमेव नाशं याति। तदा आत्मबोधस्य उदय: भवति।


११) क: मार्ग: कोऽहम् इत्यस्य विचारणाया: नैरन्तर्येण अवलम्बनाय ?


√ यदा यदा विचारा: मनसि उद्भवन्ति तदा तदा मनुष्य: तेषाम् अनुगमनम् अकृत्वा पृच्छेत् “एते कस्य विचारा:?” इति। कियन्त: विचारा: मनसि उद्भवन्ति तन्न विचार्यम्। यदा यदा कश्चन विचार: उद्भवेत् तदा तदा यदि “कस्य एष: विचार:?” इति पृच्छा भवेत् तर्हि “मम” इति उत्तरम् उदीयात्। 


पुनश्च मनुष्य: “कोऽहम्?” इति पृच्छेत् तर्हि मन: तस्य उद्गमस्थानं प्राप्नोति; स: उद्भूत: विचारश्चापि शान्त: भवति। एतस्य पौन:पुन्येन अभ्यासात् मन: स्वस्य उद्गमस्थाने एव स्थातुम् कौशलं प्राप्नुयात्। 


यदा एतत् सूक्ष्मं मन: मस्तिष्कमार्गेण ज्ञानेन्द्रियाणां द्वारेण वा बहि: गच्छति, तदैव स्थूलनामरूपाणि दृग्गोचराणि भवन्ति। यदा तत्  हृदयस्थाने एव तिष्ठति तदा नामरूपाणि विलीयन्ते। मनस: बहिर्गमनस्य निषेध: तथा च तस्य हृदये निरोध: एव अन्तर्मुखता। तस्मै बहिर्गमनाय अनुमतिदानमेव बहिर्मुखता। 


एवं यदा मन: हृदये एव तिष्ठति तदा एष: सर्वविचाराणाम् स्रोतोरूप: “अहम्” इति विचार: अपि नश्यति , शाश्वत: आत्मा च प्रकाशितो भवति। 


मनुष्य: यत्किमपि कुर्यात् नाम स: तत् एनम् अहंभावं त्यक्त्वैव कुर्यात्। यदि एतेन प्रकारेण मनुष्य: वर्तते तर्हि सर्वमेव शिवस्वरूपम् इति प्रतीति: भवति।


१२) मनस: शमनाय अन्ये केचन मार्गा: न सन्ति किम्?


√ कोऽहम् इति पृच्छाकरणं विहाय न कोऽपि अन्य: पर्याप्तमार्ग:। अन्यै: साधनै: यदि मनस: निरोधं कर्तुं प्रयत्येत तर्हि किञ्चित्कालं मन: निरुद्धम् इति भासेत तथापि तत् पुन: बहि: यायात् एव। 


श्वासप्रश्वासनिरोधात् अपि मनस: शमनं भवति तथापि यावत् श्वासनिरोध: तावत्कालमेव मनस: निरोध: भवति। श्वासस्य पुनश्चलनेन मन: अपि चलनम् आरभते पूर्वसंस्कारै: प्रेरितं च सर्वत्र भ्रमणं करोति यत: मनस: श्वासस्य च एकमेव उद्गमस्थानम्। 


विचार: यथार्थतया मनस: स्वरूपमेव। “अहम्” इति मनस: प्रथम: विचार:। स एव अहङ्कार: इति कथित:। अहंविचारस्य उद्भव: यस्मात् भवति तत: एव श्वास: उद्भवति। अत: यदा मन: शान्तं भवति तदा श्वासस्य अपि निरोध: भवति तद्विपर्ययेण च यदा श्वास: निरुध्यते तदा मन: अपि शान्तं भवति।  


तथापि सुषुप्तावस्थायां यद्यपि मन: शमनं याति तथापि श्वास: स्थगित: न भवति। एतत् शक्यं भवति “एतत् शरीरं सुरक्षितं तिष्ठतु अन्ये च एतत् मृतम् इति मा चिन्तयेयु:” इति ईश्वरेच्छया। तथापि जाग्रदवस्थायां समाधौ च मनसि शान्ते श्वास: निरुद्ध: भवति यत: श्वास: मनस: स्थूलं रूपमेव।


आ मरणात् मन: शरीरे श्वासप्रश्वासगतिं रक्षति। यदा शरीरं मृतं भवति तदा मन: तेन सह श्वासं गृहीत्वा प्रयाति। तस्मात् श्वासस्य निरोधाय क्रियमाण: प्रयास: (प्राणायाम:) मनस: शमनस्य (मनोनिग्रहस्य) साधनम्। तथापि तेन मन: नष्टं न भवति।


प्राणायामस्य अभ्यास:, ईश्वरस्य रूपाणां ध्यानं, मन्त्रजप: आहारनियमनं एते केवलं मनस: शमनार्थं सहायका: भवन्ति।


ईश्वस्य रूपाणां ध्यानेन, मन्त्रजपेन, मन: एकाग्रं भवति। भ्रमणं मनस: प्रवृत्तिरेव। यथा गजस्य शुण्डायां काचित् भारवती लोहशृङ्खला स्थापिता चेत् स: गज: अन्यत्सर्वं परित्यज्य शुण्डया तामेव शृङ्खलां परिष्वज्य गमनं कुर्यात्  तथैव मन: यदा एकेनैव नाम्ना रूपेण वा व्यापृतं भवति तदा तत्केवलं तमेव नाम वा रूपं वा गृहीत्वा तिष्ठति। 


यदा मन: अगणितविचाररूपेण विस्तारं याति तदा प्रत्येकं विचार: दुर्बलायते। तथापि यदा यदा विचारा: अपगच्छन्ति तदा तदा मनस: ऐकाग्र्यं सामर्थ्यं च वृद्धिं याति। एतादृशस्य मनस: कृते आत्मविचार: सुकर: भवति। 


सर्वेषु नियमेषु मितप्रमाणेन सात्विकान्नभक्षणस्य नियम: श्रेष्ठतम:। एतस्य नियमस्य अनुपालनेन मनस: सत्त्वगुण: वृद्धिं याति, येन आत्मविचार: सुकर: भवति।


१३) जगद्वस्तूनां संस्कारा: तज्जन्यविचाराश्च सामुद्रवीचिवत् सातत्येन उद्भवन्ति। तेषां नाश: कदा सम्भवेत्?


√ यदा यदा आत्मविचारणा प्रवर्धेत तदा तदा विचाराणां नाश: भवेत्।


१४) जगद्वस्तूनां संस्कारा: अनादिकालात् प्रवृत्ता:। तेषां नाश: तथा च स्वस्य केवलं आत्मत्वेन स्थानं किं यथार्थतया शक्यम्?


√ “एतत् शक्यं भवेत् किम् ?” एतादृशान् सर्वान् संशयान् परित्यज्य जन: आत्मन: विषये सातत्येन विचारणां कुर्यात्। यद्यपि कश्चन पापिभ्य: अपि पापियान् स्यात् नाम तथापि स: “ अहं तु पापिष्ठ: अस्मि।” एतादृशं विचार्य चिन्ताकुल: मा भवेत् ; प्रत्युत स: यदि आत्मविचारणां तीव्रतया करोति चेत् स: सफल: भवेत् एव।  


एकस्यैव जनस्य मन: एकं सुष्टम् अपरं दुष्टं च इति द्विविधं न भवति। तत्तु एकमेव। तस्मिन् ये संस्कारा: ते पवित्रा: अपवित्रा: वा।  यदा सत्संस्कारा: प्रबला: तदा तत् सुष्टम् इति कथ्यते यदा च कुसंस्काराणां प्राबल्यं तदा तदेव दुष्टम् इति।


मनसे जगद्वस्तूनि प्रति गमनार्थं अन्यजनसम्बद्धेषु विषयेषु विचरणार्थं वा न अनुमति: न दातव्या। 


अन्ये जना: कियत् अपि दुष्टा: स्यु: नाम जन: तान् प्रति द्वेषं न पालयेत्। रागद्वेषौ उभावपि परिहर्तव्यौ। 


यत् अन्येभ्य: दीयते तत् सर्वं स्वस्मै एव कृतं दानम्। यदि एतत्सत्यम् अवगम्येत तर्हि क: अन्यस्मै न दद्यात्? 


यदा स्वस्य मनस: उदय: भवति तदा सर्वमपि उदयं याति। यदा स्वस्य मनस: शमनं भवति तदा सर्वमपि शान्तिं गच्छति।


यावत्प्रमाणेन वयं विनयेन वर्तामहे तावत्प्रमाणेन तस्य शुभपरिणाम: भवेत्। 


यदि मन: शमनं यायात् तर्हि मनुष्य: कस्मिन्नपि स्थले वासं कर्तुं प्रभवेत्।

अरुणाचलमाहात्म्यम् (उत्तरार्ध:)--११



वज्राङ्गदवृत्तान्त:।

मार्कण्डेय: उवाच–हे शिवानन्द नन्दिकेश्वर, भवत: मुखात् शोणेशस्य माहात्म्यं श्रुत्वा अहम् अत्यन्तम् आह्लादित: अस्मि। इतोपि पाण्ड्यराज: वज्राङ्गद: शोणाचलेश्वरस्य व्यतिक्रमं कृत्वा पुन: तस्य भक्त्या सम्पदं कथं प्राप्तवान् तन्मां श्रावयतु। अपरं च कान्तिशालि: कलाधर: चेत्येतौ द्वौ विद्याधरौ दुर्वासस: शापात् शोणेशेन कथं मोचितौ?

नन्दिकेश्वर: उक्तवान् – हे मृकण्डुपुत्र, भवत: शिवे नित्यस्थायिनी भक्ति: वर्तते अत: भवता दीर्घायुष्यं प्राप्तमस्ति। 

पुरा पाण्ड्यदेशे वज्राङ्गद: नाम पार्थिव: आसीत्। स: धार्मिक: न्यायवेत्ता, दानशूर: गाम्भीर्ययुक्त:, शान्त: विनयशील: एकदारनिरत: शिवपूजनतत्परश्च आसीत्। स: शत्रुञ्जय: आसेतुहिमालयं पृथ्वीं शशास। 

कदाचित् मृगयाव्याजेन स: अरुणाचलस्य गहनारण्यं प्रविष्ट:। तत्र तेन कश्चित् कस्तूरीमृग: दृष्ट:। तस्य च पश्चात् स: कुतूहलेन अश्वारूढश्चलित:। तेन स: धावन् मृग: अरुणाद्रिम् अभित: अत्यन्तं वेगेन अनुगत:। ततश्च स: अत्यन्तं श्रान्त: भूत्वा अश्वात् भूमौ पपात। स्वस्य सामर्थ्यं केन अज्ञातकारणेन अपगतं तथा च मातङ्गेन पीडित: इव कथं स: आत्मग्लानिना अभिभूत: इति स: नैव अजानात्। मम अश्वोपि मां त्यक्त्वा कुत्र पलायित: इति स: अचिन्तयत्। एतावता तेन सहसा एकं तडिज्जालवत् तेज: अदृश्यत। यदा स: तत् निरीक्षमाण: आसीत् तावता स्वस्य पशुकलेवरं विहाय मृगाश्वौ उभावपि किरीटिनौ कुण्डलिनौ हारकेयूरधारिणौ क्षौमवस्त्रधारिणौ भूत्वा तस्य पुरतौ उपातिष्ठताम्। तौ राजनम् ऊचतु:--राजन् अलं विषादेन। अरुणाद्रीशप्रभावत: आवाम् एतं नवं रूपं प्राप्तवन्तौ। राजा विनयान्वित: कृताञ्जलि: च अभाषत–कौ भवन्तौ याभ्यां मम ईदृश: अभिषङ्ग: (शोक:) निर्मित:? 

तदा कलाधर: उवाच–आवां पुरा परस्परम् अतिसौहार्दौ विद्याधरौ आस्ताम्। एकदा आवां शोणाद्रे: समीपं दुर्वासस: मुने: तपोवनम् अगच्छाव। तत्र तेन तपोबलेन शिवाराधनार्थं निर्मिता क्रोशं यावत् दीप्तिमती पुष्पवाटिका आवाभ्यां दृष्टा। पुष्पावचयोत्सुकौ भूत्वाआवां तां वाटिकां प्रविष्टवन्तौ। तस्य स्थलस्य आसक्त्या अतिगर्वित: कान्तिशालि: पादाभ्यां आरामभूमिं यदृच्छया घट्टयन् सचारं कृतवान्। पुष्पाणां गन्धातिशयेन मोहित: सन् अहं पुष्पावचयार्थं हस्तं पुष्पेषु न्यस्तवान्। 

तदा तपसां राशि: , ज्वलन् हुताशन: इव  वक्रभ्रुकुटि: दुर्वासा: रोषदृशा आवां ज्वालयन्निव अभर्त्सयत–आचारहीनौ भवन्तौ कौ मम कोपवह्निं प्रवेष्टुकामौ शलभौ ? शिवसपर्यार्थं निर्मितमिदं मम पावनं तपोवनं सूर्यचन्द्रमसावपि पादै: न स्पृशत:। ममानुज्ञां विना षट्पदा अपि अत्र न भ्रमन्ति वायुरपि न वाति। तदिदं वनं पादसञ्चारै: दूषयन्नेष: पातकी परवाह्यत्वपीडित: अश्व: भवतु। अयमपर: अपि पुष्पगन्धलोभी गन्धसारङ्ग: भूत्वा अचलकन्दरे पततु। 

तस्य शापवज्रस्य प्रहारात् विगतगर्वौ भूत्वा आवां तत्क्षणमेव तं मुनिं शरणं गतौ। तस्य चरणोपसङ्ग्रहणं कृत्वा ‘भवत: अमोघशापस्य अन्त: कथं भवेत् तत्कथ्यताम्’ इति तं मुनिम् अभ्यर्थितवन्तौ। आवयो: अतिदीनताम् अवलोक्य स: मुनि: करुणार्द्र: अतिशीतल: अभवत्। स: उक्तवान्– दुर्धियो: भवतो: शापात् मुक्ति: अरुणाद्रे: प्रदक्षिणं विना न शक्या। पुरा कदाचित् अरुणेश: यदा इन्द्रविष्ण्वादिभि: देवै: परिचर्यमाण: सभायाम् उपविष्ट: आसीत् तदा नन्दनवनस्य देवतया पाटलवर्णं फलमेकं अरुणेशाय उपायनीकृतम्। बाल्यात् कुतूहलाक्रान्तौ गणेशषडाननौ तं लोभनीयफलं पितरम् अयाचेताम्। 

तदा हस्तसम्पुटेन तत्फलं गोपयन् शिव: फलतृषितौ तौ कुमारौ प्राह–भवतो: मध्ये य: कोपि इमां समस्तां पृथिवीं प्रदक्षिणीकर्तुं समर्थ: स्यात् तस्मै अहं एनं फलं दास्यामि। तदा षण्मुख: सत्यमेव मेदिनीं परिक्रमितुं गत:। हेरम्बस्तु केवलं पितृभूतस्य शोणशैलस्य प्रदक्षिणां कृत्वा सत्वरं प्रतिनिवृत्त:। तस्य चातुर्यं दृष्ट्वा प्रीतेन शिवेन तस्य मस्तकं प्रेम्णा आघ्राय तस्मै तत्फलं दत्तम्। भवान् अद्यप्रभृति सर्वेषां फलानाम् अधिनायक: भवतु इति गणेशाय वरोपि दत्त:। सर्वान् सुरासुरान् सभाजनान् स: अवदत्–एष: शोणाद्रि: मम एव स्थावराकार: अस्ति। य: तस्य प्रदक्षिणां कुर्यात् स: मम सारूप्यं प्राप्नुयात्। यस्य पादे प्रदक्षिणजनिता पीडा उद्भवेत् स: उत्कृष्टं शाश्वतं पदं प्राप्नुयात्। 

एतस्मात् शम्भो: शासनात् सर्वे देवा: शोणशैलप्रदक्षिणं विधाय स्वस्वेप्सितं प्राप्तवन्त:। शोणाचलस्य प्रदक्षिणेन भवतो: अपि शापस्य अन्त: भविष्यति। पशुयोनिं प्राप्तवतो: अपि भवतो: शोणाचलप्रदक्षिणा पाण्ड्यनृपते: दोषेण सेत्स्यति। एवं दुर्वासस: शापस्य प्रभावात् आवां तिर्यग्योनिं प्राप्तौ।

कलाधरकान्तिशालिवृत्तान्त:।

कलाधर: उवाच–एवं कान्तिशालि: कम्बोजेषु अश्व: भूत्वा भवत: वाहनम् अभवत्। अहं च गन्धमृग: भूत्वा स्वाङ्गात् प्रसूतस्य गन्धस्य अनुसारेण अस्मिगिरौ सञ्चारं कृतवान्। हे धर्मात्मन् मृगव्याजेन अत्र आगतेन भवता आवाभ्यां अरुणेशस्य प्रदक्षिणा कारिता। भवान् अश्वारूढ: आसीत् अत: भवत: इयं दशा जाता। आवां तु पदप्रचारात् प्राप्तेन पुण्येन पूर्वतनीं दशां प्राप्तवन्तौ। तव सम्बन्धात् आवां तिर्यक्त्वबन्धनात् मोचितौ। स्वस्ति भवते। 

एवमुक्त्वा स्वधाम गन्तुमुद्युक्तौ तौ राजा कृताञ्जलि: अभाषत–भवन्तौ शोणाद्रे: प्रभावात् शापमुक्तौ अभवताम्। तथापि मम उच्छ्रय: कथं सम्भवेत् तद्विषये बोध्यताम्।

तदा उभौ कान्तिशालिकलाधरौ ऊचतु:--भवत: निस्तारोपायं प्रब्रूव:, सावधानं श्रूयताम्। सर्गस्थितिलयतिरोधानानुग्रहक्षमे करुणानिधौ अरुणेश्वरे मन: निदधातु। अरुणेश्वरस्य सामर्थ्यं तिर्यग्योनित: आवयो: रूपान्तरणेन भवता प्रत्यक्षीकृतम्। भवान् पद्भ्यामेव अरुणेश्वरस्य प्रदक्षिणं कृत्वा कल्हारै: तं पूजयतु। यावती सम्पत्ति: भवत: समीपे अस्ति तावती अरुणाचलमन्दिरस्य प्राकारगोपुरागाराणां नवीकरणाय व्ययीकरोतु। एतेन मनु: मान्धाता, नाभाग:, भगीरथ: इव भवानपि महतीं सिद्धिं निश्चयेन प्राप्स्यति।

विद्याधरयो: एतत्कथनं श्रुत्वा पाण्ड्यनरेशे अरुणाद्रिनाथस्य विषये महती भक्ति: समुत्पन्ना। 


वज्राङ्गदसद्गतिवर्णनम्।

मार्कण्डेय: उवाच–हे नन्दीश, शिवमाहात्म्यसमुद्रात् समुत्थितां सुधाम् इव विद्याधरयो: विचित्रं चरित्रं मया श्रुतम्। इदानीं वज्राङ्गद: विनयोपेत: सन् कथं अरुणेश्वरं अपूजयत् कथं च तेन अरुणेशस्य अनुग्रह: प्राप्त: एतद्विषये श्रोतुमिच्छामि।

नन्दिकेश्वर: उक्तवान्–निजपुरं प्रति निवर्तनस्य इच्छा राज्ञ: चित्तात् अपगता। स: अरुणेशस्य उपत्यकायामेव वासं कर्तुम् आरेभे। तस्य अनुगामिनी रथगजतुरगादियुता सेनापि तत्र आगता आसीत्। पुरोहितमन्त्रिसामन्तसेनापतिसुहृद्भि: राज्ञ: दर्शनं कृतम्। तथापि राजा तान् सर्वान् अरुणाद्रे: सीमाया: बहि: एव न्यवेशयत्। 

तदनन्तरं राजा स्वस्य सम्पूर्णं कोशं अरुणेश्वरस्य पूजायै समर्पितवान्। गौतमाश्रमस्य पार्श्वे एव तेन स्वस्य तपोवनं निर्मितम्। अनन्तरं स: पुरोहितेन उक्तेन मार्गेण ससचिवं अरुणाद्रे: आराधनायां रत: अभवत्। तेन रत्नाङ्गदनामक: स्वपुत्र: स्वस्य पदे स्थापित:। तेन प्रेषिताभि: सामग्रीभि: स: शोणशैलम् समर्चयत्। शोणशैलं परित: तेन ब्राह्मणेभ्य: परिपूर्णजलाशया: बहुफला: अग्रहारा: निर्मिता:। अल्पोदके मरुदेशेपि तेन बह्व्य: वाप्य: निर्मिता:। निजपरिवारस्य सौन्दर्यशालिन्य: स्रिय: तेन अरुणेशस्य परिचर्यार्थं निरयोजिता:। लोपामुद्रया सह आगतेन अगस्त्येन सह स: आनन्दित: सन् अरुणेशं पूजितवान्। प्रत्यहं स: नवतीर्थाख्ये जलाशये स्नानं कृत्वा अरुणेशं पूजयति स्म। महिषासुरसंहारकारिणीम् आर्तिनाशिनीं दुर्गामपि स: नित्यम् आराधयामास। ब्रह्मविष्णुपूज्यस्य लिङृगरूपस्य आदिदेवस्य प्रतिक्षणं स: विविधा: सपर्या: कल्पयति स्म। प्रत्युषसि उत्थाय निवृत्तस्नान: स: पञ्चाक्षरमन्त्रं जपन् त्रिवारं अरुणेशस्य प्रदक्षिणां व्यदधात्। कार्तिकपूर्णिमायां स: शिवप्रियं महादीपोत्सवम् आचरति स्म। सुगन्धिकमलकर्पूरजलपूरितै: सहस्रस्वर्णकुम्भै: च स: त्र्यम्बकम् अभ्यषिञ्चत्। प्रतिमासं स: त्रैलोक्यपूज्यं रथारोहोत्सवं आचरति स्म। योजनत्रितयविस्तृतस्य अरुणाद्रे: अङ्गप्रदक्षिणां स: नित्यमेव चकार। 

एवं त्रीणि वर्षाणि तेन अरुणेशस्य अखण्डाराधनं वरिवस्या च विहिता। तदा वृषारूढ: देवीसहित: कुम्भनिकुम्भादिभि: गणै: वसिष्ठादिभि: ब्रह्मर्षिभि: नारदादिदेवर्षिभिश्च  जयस्तुति: क्रियमाण: शोणेश्वर: सन्तुष्ट: भूत्वा तस्य प्रत्यक्षीभूत:। तं देवदेवेशं दृष्ट्वा वज्राङ्गदेन साष्टाङ्गप्रणिपात: विहित: स्वस्य अपराधार्थं च क्षमायाचना कृता। 

तदा तम् अत्यन्तदीनं राजानं शोणाचलेश्वर: एवमुवाच– हे वत्स भवत: कल्याणं भवतु। भयं मास्तु। पुरा भवान् इन्द्र: आसीत्। कैलासशिखरे भवान् मम अवमाननं कृतवान् इत्यर्थं मया भवत: स्तम्भनं कृतम्। तदा गलितगर्व: भवान् मां सकलैश्वर्यसाधकं शिवज्ञानम् अयाचत। वज्राङ्गदरूपेण भवान् अवन्यां जन्म लब्ध्वा मत्कृपां लप्स्यते इति मया आदिष्टम्। 

भवता अहर्निशं या मम सपर्या विहिता तया अहम् अत्यन्तं सन्तुष्ट: अस्मि अत: अहं भवन्तं बोधयामि, शृणोतु भवान्।  आकाश:, वायु:, अग्नि: ,जलम्, मूमि: ,सूर्य:, चन्द्र: पुमान् च एताभि: मम अष्टाभि: मूर्तिभि: सकलं चराचरं भासते। अहं काल: भूत्वा सर्वान् प्राणिन: स्वकर्मानुसारं जन्ममृत्युचक्रे भ्रामयामि। अहं तत्त्वतीत: शिव: अस्मि। मत्त: परतरं न किञ्चित् विद्यते। 


अमर्यादचिदानन्दसमुद्रस्य मम काश्चन ऊर्मय: ब्रह्मा, विष्णु:, रुद्र:, इन्द्र: इत्यादिभि: नामभि: ज्ञायन्ते। असङ्ख्येयमहाशक्तेर्मम काश्चन सर्जनशक्तय: सरस्वती, लक्ष्मी:, क्षमा, श्रद्धा, स्वाहा स्वधा इत्यादिनामभि: प्रसिद्धा:। इयं मम गौरी नाम्नी जगत: प्रसवित्री मायाशक्ति:  विश्वम् संहरते विस्तारयति च।  शक्तया अनया अन्वित: सन् अहं निजेच्छया जगत: सर्गस्थितिलयान् करोमि।  भवान् एतं मम महिमानं विचारयतु। समुद्रस्य तरङ्गम् इव आत्मानं मत्त: अभिन्नमिति भावयतु। ततश्च मत्प्रसादेन क्षितौ यथासुखं भोगान् भुनक्तु। पुन: पुरन्दर: भूत्वा चिरं दिव्यसुखानि अनुभूय भवान् निश्चयेन मद्रूपतां यास्यति। एवमुक्त्वा शिव: तिरोहित: अभवत्।


ततश्च वज्राङ्गद: शोणेशं पूजयन् सर्वाणीप्सितानि प्राप्तवान्। शोणशैलस्य प्रदक्षिणस्य शाश्वतं फलं मयोक्तम्। एषा प्रदक्षिणा अश्वमेधानां शतात् अपि अतिशायिनी। किं बहुना उक्तेन? विषुवदिनम्, अयनदिनम्, सङ्क्रान्ति: व्यतीपात: एतेषु पर्वसु प्रदक्षिणेन मनुष्य: असङ्ख्येयं शूभफलं प्राप्नोति। अरुणाचलात् अधिकं क्षेत्रम्, अरुणेशात् महत्तर: देव:, प्रक्षिणात् परं तप: च न विद्यते। एवं नन्दिकेश्वरे कथयति पुलकितसर्वाङ्ग:  मार्कण्डेय: शिवानन्दसुधाब्धौ निमग्न: अभवत्।


इति स्कान्दे माहेश्वरखण्डे अरुणाचलमाहात्म्ये उत्तरार्ध:।


अरुणाचलमाहात्म्यम् (उत्तरार्ध:)--१०

 


दुर्गाकृतमहिषासुरवध:।

तावदेव महिषासुरनामा दैत्य: तस्या: विषये कथञ्चित् आकर्णयत्। महिषासुरेण सर्वे लोका: जिता: आसन् । तेन इन्द्रस्य अपि पराभव: कृत: आसीत्। सिद्धेषु विद्याधरेषु च स: भयम् उत्पादयति स्म। ब्रह्मण: प्राप्तेन वरेण स: अखिलै: अपि शस्त्रास्त्रै: दुर्निग्रह: शापानामपि अगोचर: च जात: आसीत्। दैत्या: नित्यं तस्य सेवां कुर्वन्ति स्म। स: मुनिपत्नीन् दूषयति स्म। धर्मघातक: स: बलेन पुलोमा, नमुचि: वृत्र: एतेभ्य: दैत्येभ्य: अपि अधिक: आसीत्। हिरण्याक्षेण समं स: बलवान् आसीत्। 

स: तपस्यन्तीं पार्वतीं विलोभयितुं कांचित् तापसवेषधारिणीं दूतीं प्रेषितवान्। सा दूती आगत्य गिरिजाया: सखीसमक्षं एवमनुचितं वक्तुम् आरेभे–’भवती किमर्थम् अस्मिन् भीषणे घोरे वने निवसति? भवत्यै तु राज्ञ: अन्त:पुरगृहे एव वास: युज्यते। केन कारणेन भवत्या: चित्तं भोगविषये नि:स्पृहं जातमस्ति येन भवती देवानामपि दुष्करं तप: आचरन्ती अस्ति? मृदुशय्यां विहाय भवती किमर्थं पाषाणप्रस्तरे शयनं करोति? तपोजड: शिव: भवत्या तु पूर्वमेव त्यक्त: अस्ति नु? देवेषु भवत्या अनुरूप: तु कोपि अन्य: न विद्यते। तथापि मम स्वामी महिष: दानवानाम् अधिपति: त्रैलोक्यनाथश्च अस्ति। यदि भवती तं द्रक्ष्यति तर्हि तत्क्षणमेव तप: त्यक्ष्यति। गुप्तरीत्या भवत्या: विषये सर्वं ज्ञात्वा मम स्वामी कामातुर: भूत्वा भवतीम् आनेतुं मां दूतिकां प्रेषितवान्।

तथापि तस्या: अत्यन्तं विपरीतम् असमञ्जसं वचनं श्रुत्वा देव्या: क्षुब्धां मन:स्थितिं विज्ञाय देवीसखी विजया तां दूतिकां निष्कासितवती। तदा दूत्या रोषेण सत्वरं गत्वा एष: उदन्त: महिषासुराय निवेदित:।

सोपि तत्सर्वमाकर्ण्य अत्यन्तं कोपेन देवीं मारयितुं कोटिदैत्यसैन्यं गृहीत्वा तत्र सम्प्राप्त:। तस्य रथै: गजै: अश्वै: पदातिभि: सर्वा: दिश: व्यापृता:। तेषां क्रीडाभि: वाद्यघोषैश्च नभ: स्फुटदिव अभवत् दैत्यानां पादाघातै: वसुन्धरा विदीर्णा इव अभवत्। बाष्कल: दुर्मुख: चण्ड: प्रचण्ड: ,चामरासुर:, महाहनु: महामौलि: उग्रास्य: विकटेक्षण: ज्वालास्य: दहन: एते तस्य सेनान्य: अपि तस्य सैन्येन सह आगतवन्त:। 

एतं नियमविघ्नकारिणं कोलाहलं श्रुत्वा देवी दुर्गां दैत्यसंहाराय आदिष्टवती। सापि अरुणगिरिनिवासिनं सिंहम् आरुह्य विविधै: दिव्यास्त्रै: सह कालिका इव महीं प्राप्ता। सा घोरं सिंहनादं कृतवती। रोषेण स्वाङ्गात् तया योगिनीनां चक्रं मातृका: अपि सृष्टा:। तासु काश्चन दण्डधारिण्य: हंसवाहना: काश्चन त्रिशूलधारिण्य: वृषवाहना:, काश्चन शिखिवाहना: दण्डशक्तिधरा:, काश्चन शङ्खचक्रधरा: गरुडवाहना:, काश्चन मुसलहलधारिण्य: व्याघ्रवाहना:, वज्रधरा: हस्तिवाहना: , खड्गखेटकधारिण्य: अश्वारूढा: आसन्। तासाम् असुरसैन्येन सह घोरं युद्धम् अभवत्। योगिनिभि: मुक्तै: बाणै: छिन्नानि असुरमस्तकानि भूमिम् आवृण्वन्। रणक्षेत्रे रक्तस्य सरित: अवहन्। बाणै:, दण्डै:, शूलै:,शक्तिभि: चक्रै: हलै: खड्गैश्च त: योगिन्य: असुरान् संहृतवत्य:। ब्राह्मी स्वयम् आगत्य विकरालेन दण्डेन करालनामकं महिषसेनापतिम् अमारयत्। माहेश्वरी त्रिशूलेन दुर्धरस्य मस्तकं कृन्तितवती। कौमारी शक्त्या चिक्षुरस्य मस्तकम् त्रोटितवती। वैष्णवी चक्रेण विकरालस्य, वाराही मुसलेन बाष्कलस्य,ऐन्द्री वज्रेण दुर्मुखस्य , चामुण्डा मण्डलाग्रेण चण्डमुण्डयो: मस्तकानि कर्तितवत्य:। एवमेव प्रचण्ड:, चामर:,महामौलि: महाहनु: उग्रास्य: विकटाक्ष: ज्वालास्य: दहन: एते सर्वेपि महिषसेनापतय: देव्या मारिता:। 

अनन्तरं स्वयं महिषासुर: कालनेमिप्रभृतिभि: दैत्यै: अनुगम्यमान: सङ्ग्रामस्थलं प्राप्त:। तदा रथिन: निषङ्गिण: धनुर्धरा: ससैन्यं तत्र प्राप्ता: घोरं सिंहनादं च अकुर्वन्।‌ बाणानां वृष्ट्या तै: सप्तमातृकानां गण: इतस्तत: द्रावित:। ता: सर्वा: दुर्गां शरणं गता:। तै: महिषस्य दुर्जयत्वं दुर्गायै निवेदितम्। अनन्तरं ता: स्तुत्या दुर्गां प्रसादितवत्य:। तै: उक्तम् ,” हे मात: भवती योगनिद्रारूपेण विष्णो: नयने प्रविश्य तं शाययति। मात: भवत्या: अनुज्ञयैव विष्णु: मधुकैटभदैत्यौ मारितवान्। भवत्या एव शुम्भनिशुम्भदैत्यौ हता:। ब्रह्मविष्णुरुद्राणांम् उत्पत्तिस्थितिलयशक्तय: भवती एव। भवत्या एव यशोदाया: तथा नन्दस्य अपत्यं भूत्वा भवती कंसाद्यसुराणां हननाय कृष्णस्य साह्यम् अवहत्। भवती एव विद्या, महामाया, सरस्वती, लक्ष्मी:, पार्वती इत्यादिभि: रूपै: राजते। 

एवं मातृकाभि: स्तुता दुर्गा सन्तुष्टा सति महिषासुरेण सह युद्धं कर्तुं ययौ।

मण्डलाग्रेण तया प्रचण्ड: मारित:। भिन्दिपालेन चामरं क्षुरिकया महामौलिं, कर्परेण महाहनुं, कुठारेण उग्रवक्त्रं, शक्त्या विकटचक्षुषं, मुद्गरेण ज्वालामुखं, मुसलेन दहनं सा हतवती। अनन्तरं सा महाघोरं सिंहनादं कुर्वती महिषासुराभिमुखं गतवती। तदा अत्यन्तं क्रुद्ध: महिष: तां बाणै: प्रहर्तुम् आरब्धवान्। दुर्गापि प्रज्वलद्भि: बाणै: तस्य बाह्वो: वक्षसि मुखे च प्रहारं विहितवती। तया तस्य धनु: ,सारथि:, रथाश्वा:, ध्वज: च शरै: निर्भिन्न:। तदा पदाति: भूत्वा महिषेण शतघ्नी नाम्नी कालदण्ड: इव भासमाना शक्ति: दुर्गामुद्दिश्य मोचिता। 

तेन देवेषु हाहा:कार: समुत्पन्न:। मातृदेवतानां मण्डलं पलायनम् आरब्धवत्। तथापि शतघ्न्या: प्रहारं देवी लीलया सोढवती। तदनन्तरं कृपाणं, पाश:,अङ्कुश:,भुशुण्डि:, खङ्गं,शङ्कु:,शक्ति:, गदा, तोमरं, फलकं, सृणि:, कुठार:,भिन्दिपाल:, पट्टिशं, लगुडं चेत्येतान् बहुविधास्त्रान् महिषां दुर्गां प्रति चिक्षेप। यथा हस्तिनी इक्षुकाण्डान् भिनत्ति तथा हस्तै: तान् सर्वानस्त्रानादाय देवी लीलया बभञ्ज। देव्या: वाहनं सिंह: अपि नखाग्रै: लाङ्गूलेन, दंष्ट्राभिश्च असुरान् विदारयामास। 

तदा महिषासुर: क्षणमेकं सिंहरूपं धृत्वा क्षणं पुन: वराहरूपं ततश्च व्याघ्ररूपं गजरूपं वा धृत्वा देवीं योधयामास। क्षणं स: गगनमध्यं प्राप्य, क्षणं महीतलं गत्वा, क्षणं दिक्षु भ्रमन् क्षणमदृश्यतां प्राप्य दुर्गां प्राहरत्। तथापि मातृकागणै: प्रार्थिता देवी सस्मितं त्रिशूलेन महिषासुरं विदारितवती। कण्ठेन घर्घरध्वनिं कुर्वन् स: असुर: भूमिम् अपतत्। तस्य स्कन्धे स्वस्य चरणं संस्थाप्य देवी तस्य मस्तकम् अच्छिनत्। छिन्नं तन्मस्तकं हस्तेन गृहीत्वा देवी नर्तनं कृतवती। असुरस्य हनने जाते देवा: महर्षय: चापि आनन्देन नर्तनं कृतवन्त:।

पार्वतीकृता अरुणाचलस्तुति:।

दुर्गया कृतस्य महिषवधस्य वर्णनं नन्दिकेश्वरात् श्रुत्वा मार्कण्डेय: आश्चर्यादरम् अनुभूतवान्। तेन उक्तम्– एवं भद्रकाल्या महिषस्य वधे कृते तपसि स्थितया पार्वत्या किं कृतम्?

नन्दिकेश्वर: अकथयत्– महिषवधानन्तरं एकेन हस्तेन महिषस्य मस्तकं धारयन्ती दुर्गा अन्येन खङ्गधारिणा पाणिना गौरीं ननाम। महिषवधान्तरं हर्षेण नृत्यन्तीं ताम् आलोक्य पार्वती ताम् उक्तवती– हे विन्ध्यवासिनि, भवत्या महिषवधस्य अत्यन्तं दुष्करं कर्म निर्व्यूढम्। तव प्रभावेन मम तप: इदानीं प्रत्यूहरहितम् जातम् अस्ति। इदानीम् एतत् महिषस्य मस्तकं भवती हस्तात् त्यक्तुम् अर्हति। 

एवं गौर्या उक्ते दुर्गा जुगुप्सया तन्मस्तकं हस्तात् त्यक्तुं हस्तं बहुधा व्यधुनोत्। तथापि तन्मस्तकं दुर्गाया: हस्ते दृढं लग्नम् एव अतिष्ठत्। तदा गौतम: उक्तवान् – हे देवि यद्यपि महिष: महाक्रूर: असुर: आसीत् तथापि स: महान् शिवभक्त: अपि। तस्य हननात् जातेन पातकेन तस्य मस्तकं भवत्या: हस्ते आश्लिष्टं तिष्ठति। अत: भवती यदि अत्र एकस्य पापनाशकस्य तीर्थस्य निर्माणं कुर्यात् तर्हि तस्य जले मज्जित्वा एतस्य पापस्य परिहारं भवती साधयितुं शक्नुयात्। 

गौतमस्य वचनानुसारं देवी स्वस्य खङ्गेन तस्मिन्स्थले तिष्ठन्तमेकं पाषाणम् आपातालं पाटितवती। तस्मात् पाषाणात् एक: निर्मलजल: निर्झर: प्रावहत्। यदा सा तस्य गभीरे जले निमज्ज्य ‘नम: शोणाद्रिनाथाय’ इत्येनं पापनाशकं मन्त्रम् उच्चारितवती तदा महिषस्य कण्ठे बद्धं शिवलिङ्गं गलित्वा तस्य निर्झरस्य तटे पापनाशनलिङ्गम् इति नाम्ना प्रतिष्ठितं जातम्। 

देवी यदा निर्झरजलात् उद्गता तदा महिषस्य मस्तकमपि तस्या: हस्तात् दूरीभूय भूमौ अपतत्। एतद्दृष्ट्वा सा पार्वत्या गौतमेन च अभिनन्दिता।

इदानीं गौरी गौतमं स्वस्य पापक्षालनार्थम् उपायं पृष्टवती। तदा गौतमेनोक्तम्–हे देवि भवती एव जगत: सर्गस्थित्यन्तानां विधात्री। भवत्या: एव स्मरणात् जगति जीवानां सर्वाणि पापानि नश्यन्ति। अत: भवत्या: कृते प्रायश्चित्तस्य का आवश्यकता? तथापि महद्भि: स्वकृता मर्यादा न उल्लङ्घ्यते अत: भवती पापक्षालनोपायं पृच्छन्ती अस्ति। 

अयम् अरुणाद्रि: साक्षात् तिरोहित: ज्ञानानलाद्रि: अस्ति। कार्तिकपूर्णिमायामेष: स्वस्य ज्योतिषा नितरां प्रज्ज्वलित: भवति। अत: तस्मिन्दिने भवती एतस्य पूजां विदधातु। तस्य ज्योते: दर्शनात् भवत्या: सर्वम् अभीष्टं सिध्येत्। 

तस्य कथनानुसारं पार्वती दारुणं पञ्चाग्नितप: आचरितुम् आरब्धवती। चतुर्णामग्निनां मध्ये स्थित्वा सा सूर्ये अचलदृष्टिं निवेश्य अतिष्ठत्। तस्या: दारुणेन तपसा आकृष्टा इव कार्तिकपौर्णमासी तिथि: सत्वरं सम्प्राप्ता। तस्मिन्दिने अरुणाद्रे: शिखरे देवी एकाम् अपूर्वां ज्योतिम् ददर्श। तस्या: दर्शनार्थं ब्रह्मविष्णुदेवेन्द्रप्रमुखा: देवा: अपि तत्र सम्प्राप्ता: आसन्। वर्तिरहितं इन्धनस्नेहरहितं तं महाप्रदीपं दृष्ट्वा पार्वती बहुधा विस्मयं प्राप। पदे पदे अरुणाद्रिं प्रणमन्ती सा प्रदक्षिणेन स्तुत्या च शैलेशं तुष्टाव। 

सा उक्तवती, “ हे कैलासाचलवासिने मेरुचापधृक् , हिमवत: जामात:, शोणाद्रिरूपधर,वरुणादिदेवार्चित, तरुणादित्यवत् तेजस्विन् , करुणामूर्ते अरुणनाथ, अहं भवन्तं वारं वारं नमामि। भवान् स्वस्य मस्तके जह्नुसुतां चन्द्रलेखां च। धारयति। भवता स्वस्य सौन्दर्येण एकदा मुनीनां पत्नीजनानां हृदयानि आकृष्टान्याआस्। सन्ध्यासमये भवान् आनन्दताण्डवं करोति। देवगन्धर्वसिद्धविद्याधरा: भवन्तं सततं पूजयन्ति। हे हेरम्बतात, षण्मुखवत्सल, हैमवती अहं भवन्तं प्रार्थये। 

एवं प्रार्थयन्तीं पार्वतीं दृष्ट्वा दयाघन: महेश्वर: स्वस्य ज्योति: संहृत्य स्वस्य उत्कटसुन्दरेण रूपेण तस्या: पुरत: प्रादुर्बभूव। मानातिरेकात् सर्वमैश्वरं विहाय तपसि प्रवृत्तां तां स: सान्त्वयामास। 

शिवकृता पार्वतीप्रशंसा।

तदा सरस्वत्या सह ब्रह्मा रमया सह विष्णु: शच्या सह देवेन्द्र: , सर्वे दिक्पालका:, गन्धर्वाणाम् अप्सरसां च सङ्घा:, त्रयस्त्रिंशत्कोटिसङ्ख्याका: देवा:, मुनिगणा:, अषृटवसव: , एकादशरुद्रा:, द्वादशादित्या: ,भैरवा:, पिशाचा:, प्रेता:, यक्षा:,राक्षसा:, नागा: अन्ये च सहस्रश: शिवकिङ्करा: महेश्वरं द्रष्टुं समागता:। योगिनिभि: दानवैश्च कल्पान्तभीषणं युद्धरणम् इव तत्र निर्मितम्। तद्दृष्ट्वा सर्वे भयाकुला: अभवन्। 

देवं सन्निधौ दष्ट्वा पार्वती आनन्दिता भूत्वा स्वस्य विरहव्यथां त्यक्तवती। वृषभादवतीर्य शिव: लज्जया वेपमानां स्वाङ्गुष्ठनिवेशितदृशां तां करेण धृत्वा प्रणयेनैवम् अब्रवीत्– हे देवि, सर्वै आराधनीया भवती किमर्थं मां व्याकुलीकरोति? अहमपि इदानीं भवत्पुरत: कृताञ्जलि: तिष्ठामि। हे देवि, ज्योत्स्नाचन्द्रमसोरिव आवयो: ऐक्यम् अनादिसिद्धमस्ति एतत् भवती न जानाति वा? तथापि भवत्या मौग्ध्यमिदम् आदृतम्। क्व भवत्या: शिरीषकुसुममिव कोमलशरीरं क्व च कर्कशजनोचितानि एतानि कठोरतपांसि? 

अहं नारायण: भवती लक्ष्मी, अहं ब्रह्मा भवती सरस्वती, अहं फणीन्द्र: भवती वारुणी, अहं शशी भवती रोहिणी, अहमग्नि: भवती स्वाहा, अहं सूर्य: भवती सुवर्चला, अहं समुद्र: भवती जाह्नवी,अहं मेरु: भवती उर्वरा, अहं इन्द्र: भवती शची, अहमनङ्ग: भवती रती,अहं कुबेर: भवती बुद्धि:, अहं वायु: भवती शमा, अहं समुद्र: भवती वीचि:, अहं पुरुष: भवती प्रकृति:, अहं वेद्य: भवती विद्या, अहमर्थ: भवती वाक् अहमीश्वर: भवती मम अंशा। भवत्या: आज्ञया एव उत्पत्तिस्थितिसंहारतिरोधानानुग्रहाणि कार्याणि कर्तुम् ईश्वर: प्रभवति। अत: भवत्या आवयो: चित्प्रकाशात्मनो: मध्ये पृथग्जनवत् भेद: न कार्य:।

एवमुक्त्वा तत: शिव: लज्जमानां गौरीं स्वाङ्के उपावेशयत्। तदा तयो: अङ्गद्वयं प्रेम्णा एकत्वं जगाम। तस्मिञ्छरीरे अर्धाङ्गं कर्पूरधवलं अर्धं च सिन्धूरपाटलम् आसीत्। एवम् अर्धाङ्गं देव्यै निवासार्थं दत्त्वा शिव: उवाच–इत:परं भवती रुष्टा कदापि मा भवतु। स्तन्यार्थिनं कार्तिकेयं विहाय भवती तपसे निर्गतवती अत: इत:परं भवती अपीतस्तनी नाम्ना ममान्तिकं निवासं करोतु। भवतीं तथा मां च शोणाद्रिम् उपास्य जना: भोगमोक्षान् च विन्देरन्।

भवत्या: अंशेनसमुत्पन्ना एषा महिषमर्दिनी देवी अपि अत्रैव उषित्वा जनानां मन्त्रसिद्धिदात्री भवतु। तया निर्मितम् एतत् खङ्गतीर्थं सकृदेव निमज्जनात् पुसां सर्वरोगहरं पापनाशकं च भवेत्। भवदनुग्रहभाजनम् एष: गौतम: तस्य तपोनुरूपं फलं प्राप्स्यति। सप्तमातर:, भैरवा:, बटुका:, क्षेत्रपालकाश्च अत्रैव निवसन्तु। अहं अरुणनाम्ना भवती च अरुणाभिधा अरूणक्षेत्रे निवसाव: तेन एतस्मिन्क्षेत्रे सर्वा: सिद्धय: सुलभा: भविष्यन्ति।

एवं पर्वतराजपुत्र्या कृतम् अरुणेश्वरस्य प्रसादनं य: भक्त्या शृणोति स: निष्पाप: भूत्वा सुलभतया स्वर्गापवर्गौ विन्दति।


अरुणाचलमाहात्म्यम् (उत्तरार्ध:)--९



पार्वत्या कृता अरुणाचलपरिचर्या।

नन्दिकेश्वर: उवाच , “ एवं एकाम्रतलवासिन: ईश्वरस्य गार्हस्थ्ये सहभागिनी देवी पक्वान्नै: विविधै: प्रजा: तर्पयामास। एकादा सा सन्ध्यासमये आम्रवृक्षस्य अध: आसीनं मुकुलीकृतलोचनं कृताञ्जलिं शिवं ददर्श। सा चिन्तितवती, “नूनं देव: अन्यां कामपि सौभाग्यशालिनीं स्त्रियं ध्यायन् स्यात्। देवेन ‘भवत्यां मम प्रेम अस्ति’ इति यत् महता वाण्या उच्यते तत् कदाचित् मिथ्यावचनमेव स्यात्। कथं पुरुषाणां मनस: कुटिला गति: ज्ञातुं शक्येत? ‘भवत्या तपोभि: क्रीत: दास: अस्मि’ इति उक्त्वा देव: मां वञ्चितवान् एव। एवं मादृशा: या: मूढा: नार्य: असमानानुरागेषु भर्तृषु यं सौभाग्यगर्वं वहन्ति स: लोकेषु परिहासायैव भवति।”


“एवं चिन्तयन्त्या: देव्या: मुखं प्रणयरोषेण अग्निना तप्तमिव अलक्ष्यत। तस्या: नेत्रयो: अश्रूणि आगतानि। सा चिन्तितवती, “ मम सौभाग्यहीनत्वादेव देव: अन्यां कमपि स्त्रियं ध्यायन् अस्ति। तस्य सौभाग्यस्य प्राप्तये मया अन्यत्र गत्वा तप: तप्तव्यम्। यावत् देवस्य अक्षिणी निमिलिते स्त: तावदहं निभृतं यास्यामि। अन्यथा मां गम्यमानां दृष्ट्वा देव: उपरितनभाषितै: मां गमनात् वारयितुं प्रयतेत। इयम् अतिस्नेहशीला गङ्गा मम पुत्रौ वर्धयेत्। देव: अन्यस्त्रीपरायण: अस्ति अत: तस्य मम स्मरणमपि न भवेत्।” 


“ एवं निश्चयं कृत्वा देवस्य पार्श्वात् यथाप्राप्तदिशं सा प्रतस्थे। जया, विजया, मालिनी, चलावती, माल्यवती एता: तस्या: सख्य: तया वारिता: अपि ताम् अनुसरन्त्य: गमनं कृतवत्य:। बहूनि तीर्थाणि, गिरीन्, वनानि, सरित:, सरांसि च अतिक्रम्य ता: द्रविडदेशे सह्यपर्वतस्य उपत्यकां प्राप्तवत्य:। तदा देवी विजयाम् अभाषत, “ एष: नातिदूरे अष्टाभि: शृङ्गै: विराजमान: अरुणागिरि: लक्ष्यते। तस्य उपत्यकायां मनोहरारण्यै: आवृता: शान्ता: अतीव पावना: तापसाश्रमा: दृश्यन्ते। तेषां दर्शनेन मम चित्तं नितरां प्रसीदति अत: वयं तान् आश्रमान् गच्छाम:।”


“ पर्वतस्य उपत्यकायां प्राप्तयां सा तत्र एकम् आश्रमं ददर्श। परस्परं वैरिण: काकोलूका: शुकश्येना:, मृगव्याघ्राश्च तत्र वैरं विस्मृत्य सौहार्देण वसन्ति स्म। तत्र उलूका: शतरुद्रियस्य वायस: स्तोत्राणां, सारिका: साममन्त्राणां पाठं कुर्वन्त: आसन्। तत्र व्याघ्रै: सह गाव: अपि क्षेत्रेषु निर्भयं सञ्चरन्त्य: आसन्। तस्मिन् शोभने देशे तपस्यन्तं कञ्चन ऋषिसत्तमं सा ददर्श। सप्तपर्णवृक्षस्य अध: व्याघ्रचर्मस्य उपरि दर्भासनं स्थापयित्वा स: ऋषि: वीरासने उपविष्ट: आसीत्। स: अरुणवर्णां जटां धारयति स्म। तस्य शरीरं भस्मचर्चितम् आसीत्। नासाग्रे दृष्टिं स्थापयित्वा हस्ते धृतां रुद्राक्षमालाम् अङ्गुलिभि: आवर्तयन् स: जपमग्न: आसीत्। तं मुनिवरं योग्यै: उपचारै: परिचर्य सा तम् अपृच्छत् , “ पुण्यक्षेत्रेषु उत्तम: कोयम् अरुणाख्य: गिरिवर:? क: भवान् यदत्र तप: कुर्वन् अस्ति? स: उक्तवान् , “ अहं गौतमाख्य: मुनि: अस्मि। मोक्षप्राप्तये अहमत्र शिवम् आराधये।” विजयामुखात् एषा साक्षात् उमा अस्ति इति ज्ञात्वा तां भूयोभूय: प्रणम्य स: मुनि: सप्रश्रयं तां स्वस्य उटजं नीत्वा फलमूलादिभि: सत्कृतवान् । जगत: मङ्गलाय तपसे उद्युक्तां तां स: शोणाद्रे: ज्योति:स्तम्भरूपेण आविर्भावं तस्य महिमानं च यथाक्रमेण अश्रावयत्। स: उक्तवान् ,  “ “शोणाचलस्य पूर्वदिशि स्थलीश्वनाम्ना यज्ज्योतिर्लिङ्गं विराजते तत्स्थानं ब्रह्मविष्ण्वादिदेवै: निबिडं वर्तते। तत्र विक्षेपरहितं तप: कर्तुं अशक्यम्। अत: प्रवालाचलनामकं गहनारण्यावृतं रहसि स्थितम् एतत् स्थानं मया तपसे चितम्। मम आश्रमस्य समीपे एव भवती स्वस्य आश्रमं निर्माय चिरं तप: करोतु।” 


पार्वती तस्य अनुज्ञानुसारं स्वाश्रमं विनिर्माय तप: कर्तुं प्रारेभे। स्वस्य आश्रमस्य रक्षायै सत्यवती, काननवासिनी, शुभगा,  धुन्धुमारी एतासां स्वशक्तीनां योजना तया चतसृषु दिक्षु कृता। पुनश्च सा तेजस्विनीं दुर्गां सर्वस्य वनस्य रक्षणाय आदिदेश। तदनन्तरं तपोचितं जटाभारं वल्कलं च धृत्वा सा तपश्चरणं  कृतवती। प्रात:काले सा पावन्यां कमलानद्यां मज्जनं कृत्वा रक्तकमलै: सूर्यम् अर्चयामास। अनन्तरं दर्भतिलाक्षतमिश्रेण नदिवारिणा सा देवर्षिपितृतर्पणं सम्पादयामास। वालुकामण्डलं कृत्वा तस्मिन् सूर्यमावाह्य तं कमलै: समभ्यर्च प्रदक्षिणं कत्वा गौरी तं सहस्रवारं प्रणनाम। अनन्तरं स्वयमेव एकं शिवलिङ्गं प्रतिष्ठाप्य आगमोक्तविधिना सा शिवम् आराधयामास।


सा कन्दमूलफलै: अतिथिपूजनम् अपि व्यदधात्। ग्रीष्मकाले पञ्चाग्निमध्ये अङ्गुष्ठाग्रेण सा अतिष्ठत्। पुनश्च शिशिरे हृद: शीतजले सा कण्ठं यावत् निमज्ज्य तिष्ठति स्म। आश्रममृगान् पादपानपि सा जलादिना पर्यतोषयत्। सखिभि: सह सा पञ्चाक्षरमन्त्रं जपन्ती अथवा स्तोत्राणि गायन्ती शिवं एकाग्रचित्तेन ध्यायन्ती सा शोणाचलस्य प्रदक्षिणां करोति स्म। 


अरुणाचलमाहात्म्यम् (उत्तरार्ध:)--८




ब्रह्मविष्ण्वो: अरुणाचलमन्दिरनिर्माणम्।

ब्रह्मा उवाच, “ हे देवदेव भवत: ऐश्वर्यं भाग्यवशात् प्राप्तेन भवदनुग्रहेण विना केन वेदितुं शक्येत? अकर्तृकानि वाक्यानि वेदरूपाणि तव एव अविनाशि ऐश्वर्यम् अस्ति।  भवत्पुरत: कोहं विष्णुर्वा एते इन्द्रादय: दिपाला: वा स्म:?  जगत: निर्माणरक्षणयो: भवानेव कर्तास्ति। हे पार्वतीनाथ वयं पशव: भवान् च पशुपति:। अत: पाशै: अस्मान् बन्धुं मोक्तुं वा भवदन्य: क: समर्थ: स्यात्?


षड्विंशतितत्त्वरूप: भवान् सर्वं व्याप्नोति। भवन्तं याथातथ्येन वर्णितुं क: ज्ञानी समर्थ: स्यात् ? भवान् षड्रिपून् संहर्तुं षड्विंशति-आगमरूपै: शुनकै: आखेटक्रीडां कुर्वन् किरात: असि। पूर्वं दक्षयज्ञे वीरभद्र: भवत: आज्ञया अस्मभ्यं प्रभूता: शिक्षा: दत्तवान्। भवता शूलेन जलन्धर: अन्तक: अन्धकश्चैते दैत्या: दीर्णा:। भवत: प्रतिवीर: क: अस्ति? यदि भवान् कण्ठे कालकूटं न अधारयिष्यत् तर्हि वयं कथं जीवधारणां कर्तुम् अशक्ष्याम? देवदारुवने पूर्वं कर्मठानां मुनीनां प्रक्षोभं जनयित्वा पुनश्च भवान् दयया तान् अनुगृहीतवान्। यदि भवान् स्वस्य चरणेन अपस्मारदैत्यं न आक्रान्तवान् स्यात् तर्हि इदं सर्वं विश्वम् तेन आक्रान्तम् अन्धकारमयं जातं स्यात्। भवता स्वस्य अर्धनारीश्वरूपं न प्रकटीकृतम् अभविष्यत् तर्हि कथमहं चराचरस्य जगत: सर्जनं कर्तुम् समर्थ: अभविष्यम्? भवता स्तम्भित: शम्बरदैत्यस्य हस्त: कियत्कालं भवत: जयस्तम्भ: इव स्थित: आसीत्!! मोहग्रस्त: हरि: भवत: शूलेन अङ्गुल्याम् आहत: सन् भवत: कपालं स्वस्य रुधिरेण अपूरयत्। भवता यदि परशुरामाय शस्त्रास्त्राणि न शिक्षितानि स्यु: तर्हि स: कथं क्षत्रियेभ्य: वैरस्य प्रतिनिर्यातनं कर्तुं प्राभविष्यत्? नृसिंहावतारे हरि: हिरण्यकशिपो: नाशानन्तरम् जगत: नाशाय प्रवृत्त: तदा शरभावतारं धृत्वा भवान् तं निगृहीतवान्। यदा विष्णु: भवन्तं सहस्रकमलै: पूजयितुम् ऐच्छत्। भवता तेषु एकं कमलं निगूहितम्। तदा विष्णुना स्वस्य नेत्रकमलमेव समर्प्य पूजा सम्पादिता। तस्य भक्त्या प्रसन्नेन भवता तस्मै सुदर्शनचक्रं दत्तम्।”


नन्दिकेश्वर: उवाच, “ एवं ब्रह्मणा कृतया स्तुत्या विष्णोश्च प्रार्थनया शिव: प्रससाद। ब्रह्मण: च सृष्टिकर्तृत्वं पुन: अनुमन्यत। चन्द्रशेखर: वात्सल्येन उभौ अब्रवीत् , “ मद्विषयकस्य ज्ञानस्य अभावात् भवन्तौ उद्धतौ जातौ।  मां गुरुं स्मृत्वा सृष्टिनिर्माणं तद्रक्षा च एतयो: कार्ययो: भवन्तौ प्रवर्तेताम्। अस्मिन्प्रदेशे मया भवतो: अनुग्रह: कृत: इत्यत: एतत् पुण्यक्षेत्रं पुंसां कृते मोक्षदायकं भवेत्। एतस्मिन् क्षेत्रस्य योजनत्रयपर्यन्तं निवसन्त: मानवा: दीक्षां विनापि मत्सायुज्यं प्राप्नुयु:। पशुपक्षिणां वृक्षादिस्थावराणामपि सहजतया एव मोक्षदायिनी बुद्धि: उत्पद्येत। वेदान्तस्य ज्ञानं यत् तद् अत्यन्तम् आयासजन्यम्। तथापि अस्मिन् क्षेत्रस्य दूरत: दर्शनात् अथवा केवलस्मरणेनापि विनायासं तद् नॄणां हस्तगतं भवेत्।


मम तेजोमयी स्थावरा मूर्ति: अरुणाचलनाम्ना अत्रैव निवसेत्। युगान्तेपि तां महासागरा: न मज्जयेयु: , मरुत: न चालयेयु: वह्निश्च न दहेत्। एतद् ज्योतिर्मयं लिङ्गम् अनुल्लङ्घ्य आकाशस्थजोतिंषी तारकाश्च समन्तात् एव मार्गक्रमणं कुर्यु:। येषु अहम् अनुग्रहं कर्तुम् इच्छामि ते जीवा: अत्र जन्म प्राप्नुयु:। तदनन्तरं च वेदान्तज्ञानं विनैव ते मोक्षम् अवाप्नुयु:।


एष: अरुणाचल: दूरात् प्रणामेन, समीपतश्च प्रदक्षिणात् पापिनामपि नि:श्रेयसप्रद: भविष्यति। महात्मनां वास: अत्र नित्यमेव स्यात्। एतं क्षेत्रं त्यक्त्वा तै: न कुत्रापि गन्तव्यम्। तस्मात् भवन्तौ नित्यमेव शोणाचले निवसताम्।


एवं शिवेन उक्ते तं कामारिं प्रणम्य विधिमाधवौ व्यज्ञापयताम् , “ जगदाधारतां गत: एष: अरुणागिरि: तिष्ठतु अत्र तथापि तस्य तेज: सुदु:सहम् अस्ति। अत: एष: अरुणागिरि: सामान्यशैलवत् भवतु। प्रतिवर्षं कार्तिके मासि कृत्तिकानक्षत्रे दिनात्यये एष: स्वज्योतिं विवृणुयात्। यद्यपि एष: अद्रि: नॄणां शर्मद: भवति तथापि एतस्य महदाकारात् भक्तानां कृते नैष: अर्चितुं शक्य:। अत: अस्मत्प्रार्थनया भवान् एतस्य अरुणाद्रे: उपत्यकायां पूर्वस्यां दिशि लिङ्गरूपेण तिष्ठतु। तं अरुणलिङ्गं अभिषेक-अनुलेपादिभि: विविधोपचारै: आवाम् अर्चाव: । तव पूजार्थम् अत्र केशरा: आम्रा:,पाटला:, नागकेसरा:, अरग्वधा: , कुरबका: इत्यादय: बहव: पुष्पिण: वृक्षा: सन्ति। हे भगवन् भवता अत्रैव स्थेयं येन भवत: अर्चनात् आवां भक्तिदार्ढ्यं प्राप्नुयाव तथा च चित्तशुद्धिं सम्प्राप्य आवयो: अनादि: अविद्या नाशं गच्छेत्।  हे भव, साङ्गवेदा:, धर्मशास्त्रं पुराणानि शैवागमा: च भवता एव कृत्वा आवाम् उपदिष्टा:। गुरुरूपिणा भवता भक्तानां नि:श्रेयसाय अष्टाविंशति: शैवागमा: अपि कथिता:। तेषु यथोक्तं तेन प्रकारेण भवत: पूजनोपासने कृत्वा आवाम् अज्ञानजनिताम् आर्तिं न प्राप्नवाव तद् हे शङ्कर वद।”


नन्दिकेश्वर: उवाच, “एवं विधिमाधवाभ्यां विज्ञप्ते सति महादेव: अभाषत, ‘ हे भद्रौ भवद्भ्यां यदुक्त तदेव मम मनीषितमपि। कामिकातन्त्रोक्तेन मार्गेण मम अर्चनं भवन्तौ कुरुथ: येन शैवागमज्ञानं भवतो: हृदि पुन: उद्भासेत।”


एवं विधातृगोविन्दौ उक्त्वा शङ्कर: अन्तर्धानं गत:। ततश्च तत्र एकस्य मङ्गलकरस्य लिङ्गस्य उद्भव: जात:। साश्चर्यं तच्चावलोक्य मुकुन्द: ब्रह्मा च तं लिङ्गं चिरम् अर्चयित्वा सन्तोषितवन्तौ। तौ शोणनाथस्य नानाशिल्पयुतं मन्दिरम् अपि विश्वकर्मणा कारिवन्तौ। देवस्य अभिषेकाय तौ नानातीर्थमयमेकं सर: खानितवन्तौ। तौ अरुणाख्यमेकं पुरमपि कल्पयामासतु: यं लब्ध्वा धूर्जटि: कैलासं गन्तुमपि नोत्कण्ठते। तस्यां पुर्यां ब्रह्मर्षय: देवा:, गन्धर्वा:,अप्सरस:, सिद्धा:, विद्याधरा:, यक्षाश्च पौरजना: अभवन्। सकलानि तीर्थानि गङ्गाद्या: सरितश्च कूपत्वं प्राप्ता: तत्र निवसन्ति। नन्दनादीनि वनानि गोगोष्ठरूपेण गोलोक:, नैगमा: (वेदा:) आगमरूपं धृत्वा पर्वता: गोपुराणि भूत्वा, विधिरूपेण स्मृतय: तत्र विद्यन्ते। भूता: प्रेता: पिशाचा:,वेताला:,कटपूतना: मानुषं देहं धृत्वा तत्र निवसन्ति। शिव: अपि केनापि अविज्ञात: कौपीनधारी सिद्ध: भूत्वा अरुणाख्ये पुरे वासं करोति।” 


“ब्रह्माविष्णू अपि तत्र भस्मलिप्तौ चिरं स्थित्वा अरुणेशं समर्चतु:। स्वयमाचार्यौ भूत्वा वर्णानुसारं भक्तेभ्य: दीक्षादानमपि कृतवन्तौ। प्रात: स्नात्वा तौ पुष्पपत्रादीनि समाहृत्य सर्वमन्त्रेषु श्रेष्ठम् अरुणनाथस्य मन्त्रं जपन्तौ धूपप्रदीपनैवेद्यादिभि: गीतवादित्रनर्तनै: प्रदक्षिणानमस्कारमुद्राबन्धादिभि: शिवम् अर्चयामासतु:। एवं षोडशवर्षसहस्राणि शङ्करं समभ्यर्च ब्रह्मविष्णू शिवज्ञानं प्राप्तवन्तौ।”


नन्दिकेश्वर: उवाच, “ पितु: शिलादस्य मुखात् यावदहं श्रुतवानासम् तावदिदं मया भवते श्रावितम्। इतोपि कियत् भवान् श्रोतुम् इच्छति?”


शिवपार्वतीविहारवर्णनम्।


मार्कण्डेय: उवाच , “भवत: मुखात् यत् श्रोतव्यमासीत् तत् अहं श्रुतवान्। तथापि महता कुतूहलेन आक्रान्त: अहं एते मुनयश्च महादेव्या गौर्या कथं तप: तप्तं तद्विषये श्रोतुम् इच्छाम:।”


नन्दिकेश्वर: अभाषत, “हे महामते मार्कण्डेय, या अहं अवगतवान् तथा एतत्सर्वं कथयामि। भवान् जानाति एव यत् पूर्वं दक्षपुत्त्रीं दाक्षायणीं सतीनाम् अधिदेवतां सतीं शिव: परिणीतवान्। सा भर्तु: अपमानात् पितरि दक्षप्रजापतौ क्रुद्धा सती प्राणान् कथं त्यक्तवती एतत् भवता श्रुतमेव। अनन्तरं हरस्याज्ञया वीरभद्रेण दक्षाध्वरस्य विध्वंसनं कृत्वा दक्षस्य मस्तकं छिन्नम्। ब्रह्माच्युतादय: देवाश्च शिक्षिता:।”


“सा देवी सती हिमवत: गृहे पुन: जन्म लब्धवती। तस्या: नाम उमा अथवा पार्वती इति। यदा देव: स्थाणुवने समाधिमग्न: आसीत् तदा पार्वती तस्य परिचर्यां करोति स्म। तदा देवै: प्रेषित: काम: शिवस्य मनसि कामेच्छां जनयितुं शिवस्योपरि स्वबाणान् चालितवान्। तदा भग्नसमाधिना शिवेन क्रोधात् तृतीयं नेत्रमुद्घाट्य कालाग्निना कामस्य दहनमेव कृतम्। ततश्च पार्वती स्वस्य तपस: आचरणेन शिवं प्रासादयत्। शिवेन तया सह विवाह: कृत:। पार्वत्या सह स: एकान्ते रममाण: अभवत्। वैधव्यात् खिन्ना कामपत्नी रती पार्वतीं प्रार्थितवती। तदा कामपीठे तप: तप्त्वा पार्वती कामं पुन: उज्जीवितवती। मात्रा मेनया पित्रा हिमवता च सा गृहम् आनीता। तत्र सा पुन: भर्त्रा सह रममाणा अभवत्।”


“तावता शुम्भ: निशुम्भश्च द्वौ दैत्यौ तपसा ब्रह्मण: वरं लब्धवन्तौ यत् देवदानमानवेषु कोपि आवां मारयितुं समर्थ: न स्यादिति। ताभ्यां त्रासिता: देवा: विष्णुप्रमुखा: महादेवं प्रति गत्वा रहसि तं दैत्यनाशाय प्रार्थितवन्त:।”


महादेव: तेभ्य: अभयदानं दत्त्वा उक्तवान् यत् कालेन एते दानवौ यथा निषूदितौ स्यातां तथा उपाय: विधीयते। एवमुक्त्वा महेश्वर: पुनश्च अन्त:पुरे देव्या सह रममाण: अभवत्।


महेश्वरेण प्रीत्या यदा मर्मलक्ष्येण काली इति देव्या: निन्दा कृता तदा देवं प्रीणयितुं काली स्वत्वचम् त्यक्तवती। स्वेच्छया यत्र तया चर्म त्यक्तं तत्क्षेत्रं महाकाशीनाम्ना प्रख्यातम् अभवत्। तस्या: त्वगेव त्वक्कौशिकी इति नामिकायां देव्यां परिणता अभवत्। सा विन्ध्यवासिनी देवी तत्र तप: कृत्वा अनन्तरं शुम्भनिशुम्भदत्यौ अहन्। देव्या: वर्ण: तपसा गौर: अभवत्। अत: सा गौरी इति प्रख्याता अभवत्।”


“ कालक्रमेण देव्या गणेशकार्तिकेयौ द्वौ पुत्रौ जनितौ। तौ पूर्वापराधक्षालनार्थं देवीगर्भसम्भूतौ नारायणचतुर्मुखौ स्त: इति आगमविद: मन्यन्ते। पित्रो: लालनरक्षणे तौ बाललीलामग्नौ अवर्धताम्।”

अरुणाचलमाहात्म्यम् (उत्तरार्ध:)--७


ब्रह्मणा केतकच्छदस्य साक्ष्यार्थं प्रार्थना।

तत: केतकपत्त्रमपि विहस्य तम् अब्रवीत् , “त्वं मूढ: असि। एतं तेज:स्तम्भं परित: कोटिश: ब्रह्माण्डानि लग्नानि सन्ति। तत्क: एतस्य प्रमाणं वेदितुं क्षम:? मम पतत: अयुतानि चतुर्युगानि यातानि तथापि अद्यापि अहं एतस्य मध्यभागे वर्तमानं भूतलं न प्राप्तवान्।”


तदा स्वस्य अहङ्कारं त्यक्त्वा ब्रह्मा कृताञ्जलि: तम् अभाषत, “ हे केतकच्छद, अहं सत्यमेव मूढ: अस्मि यन्मया विष्णुना सह स्पर्धा उत्पादिता। एतस्य जगत: सर्गरक्षामात्रं वहन्तौ आवां शिवस्य माहात्म्यं विस्मृतम्। अद्यापि अहं विष्णुना सह स्पर्धया बद्ध: अस्मि। ‘मित्रत्वं साप्तपदिकं’ इति कथ्यते। आवयो: चिरं सम्भाषणं जातम् अत: मम मित्रं भवान् मयि अनुग्रहं कर्तुम् अर्हसि। मोहान्धौ आवाम् एतस्य तेज:स्तम्भस्य मूलाग्रे शोधितुम् वराहहंसरूपे धृत्वा यातौ। स: वराहभूत: विष्णु: एतस्य मूलं प्राप्तवान् वा न इति न जाने। तथापि मम तु एतादृशी शोचनीया दशा जातास्ति। अग्रान्वेषिण: मम उड्डीयमानस्य सहस्राणि हायनानि गतानि। तेनाहं अत्यधिक: श्रान्त: अस्मि। मम असव: च वियुञ्जाना: इव लक्ष्यन्ते। दिष्ट्या भवान् मया मित्रं लब्ध:। मम एनां प्रार्थनां सफलीकरोतु। यदि विष्णुना एतस्य स्तम्भस्य मूलं दृष्टं स्यात् तर्हि तेन अहं जित: भवामि। यदि न तर्हि अपि तेन मम समता स्यात्। एतद्द्वयमपि मम कृते अतीव लज्जास्पदम्। अत: तव मित्रस्य मम कृते भवान् विष्णो: पुरत: एवम् असत्यं कथयतु यत् एष: हंसरूपधर: ब्रह्मा एतस्य तेज:स्तम्भस्य शीर्षं दृष्टवान् तत्र अहं साक्षी अस्मि। तेज:स्तम्भरूपेण शिवेनापि पित्रा इव एष: पितामह: सम्मानित:। अत: एष: ब्रह्मा एव भवत: अपेक्षया श्रेष्ठ: इति भवान् विष्णुं वदेत्।”


नन्दिकेश्वर: उवाच, “ एवं विधात्रा भूय: प्रार्थितेन केतकच्छदेन विष्णो: पुरत: यथाब्रह्मोक्तं निगदितम्।”


शङ्करप्रादुर्भाववर्णनम्।


नन्दिकेश्वर: उवाच,“तदा ब्रह्माणं वीक्ष्य द्विगुणं स्मितं कुर्वन्स: विवेकवान् विष्णुरपि एतेन स्तम्भाग्रं नैव दृष्टमिति निश्चयं प्राप्त:। स: चिन्तितवान् , ‘एतस्य विधे: मदं हन्तुं मां चानुग्रहीतुं स: एव देवदेवेश: भूतभर्ता शिव: एव समर्थ: अस्ति। तेज:स्तम्भस्य मूलस्य दर्शने अहमक्षम: अभवम् येन च मम मद: व्यपेत: मयि च शिवभक्ते: उदय: जात: अस्ति। यस्य वामदक्षिणाङ्गाभ्याम् आवां समुद्भूतौ स: महेश्वर: एव मया गर्वरहितेन स्तोतव्य:। तथापि अद्यापि अमुक्तमद: एष: ब्रह्मा कूटसाक्ष्येण माम् अतिसन्धातुम् इच्छति अत: सकलदु:खस्य अपनये क्षम: स: शिव: एव मम शरणम्। कृतापराधस्य कृतघ्नस्य गुरुद्रोहिण: मम तं ऋते न कोपि अन्य: रक्षिता अस्ति अत: तस्यैव स्तवनमहं विदधे। ’


विष्णु: उवाच , “ हे प्रभो, पृथ्वी आप: अग्नि: वायु: सूर्य: चन्द्रमा: होता एता: सर्वा: भवत: एव आकृतय: सन्ति। भवान् त्रिगुणातीत: कालरूप: अक्षयैश्वर्यवान् च अस्ति। हे करुणाकर, मम रक्षां करोतु। सर्वजगतां स्रष्टा, सर्वदेहिनां रक्षिता, सर्वभूतानां हर्ता च भवन्तं विना क: अपर: अस्ति? भवान् अणुभ्य: अपि अणीयान् महद्भ्य: अपि महीयान् अस्ति। अन्तर्बहि: भवानेव एतज्जगदाक्रम्य तिष्ठति।  वेदा: तव नि:श्वासा: विश्वं च शिल्पवैभवम्। देवदानवदैत्या: सिद्धविद्याधरमानवा: प्राणिन: पक्षिण: शैला: एतत्सर्वमपि भवानेव। स्वर्ग: अपवर्ग:, यज्ञ:, ओङ्कार:, योग: परा संवित् एतत्सर्वं भवानेव। किं तत् यत् भवान् न स्यात्? स्थावरजङ्गमानां भूतानामादि: मध्य: अन्त: च भवान् एव। कालरूपं प्राप्य भवानेव एतत्सर्वं जगत् कलयसि।”


पुनश्च स: अचिन्तयत् , “परेश: जगत: शास्ता धूर्जटी शिव: कथं मे साक्षात् भविष्यति यं दृष्ट्वा शरणं गत: नि:श्रेयसम् अवाप्नोति? तं जातमात्रस्य निवासं शिवं यथामति अहं स्तौमि। सर्वत: यस्य श्रवणानि वर्तन्ते मम प्रार्थनां श्रुत्वा स: मयि अवश्यं कृपां कुर्यात्।” 


अत: आदिमध्यान्तरहितं तेज:स्तम्भं जगदीश्वरं मत्वा तं प्रणम्य ब्रह्मदेवेन वार्यमाण: अपि स: विष्णु: सस्मितं पुन: स्तोतुम् आरेभे। 


विष्णु: उवाच, “ हे महादेव, वामदेव, वृषध्वज, कालान्तक, क्रतुध्वंसी, नीलकण्ठ, इन्दुशेखर भवत: जय: अस्तु। हे शम्भो, शिव, ईशान,शर्व, त्र्यम्बक, धूर्जटे, स्मरारे, पुराराते, स्थाणो, भव, महेश्वर, जयेश, खण्डपरशो, शूलिन्, पशुपते, हर भवत: जय: अस्तु। हे सर्वज्ञ, भर्ग, भूतेश,कपालिन्, नीललोहित,रुद्र, पिनाकिन् ,प्रमथाधिप, गङ्गाधर, व्योमकेश,गिरीश, परमेश्वर, भवत: जय: अस्तु। हे भीम, मृगव्याध, कृत्तिवास: , कृशानुरेत भवत: जय: अस्तु। भवान् नित्यं कैलासे वसति। भवत: आज्ञया वायु: वाति, शेष: भुव: भरं वहति, चन्द्रसूर्यौ दीप्यत: ब्रह्माण्डं क्षीराब्धौ च तरति। भवत: अनुशासनादेव ब्रह्मा जगत: सर्जने अहं च जगत: रक्षणे सामर्थ्यम् आवहत:। भवत: आज्ञया एव सकलजगत: पुष्ट्यर्थं पृथिवी सस्यानि प्रसूते समुद्रश्च तस्य मर्यादायां तिष्ठति। अणिमादय: महासिद्धय: भवत: कृते सामान्या: एव वर्तन्ते। सर्वै: देवै: भवान् अभिष्टुत: अस्ति। अहं भवन्तं कथम् उपेक्षितुं क्षम: भवामि? वयं वैभवे भवन्तं विस्मराम: सङ्कटे च स्मरणं कुर्म:। तथापि भक्तेषु भवत: प्रसाद: एव स्यात् रोष: कदापि मा भवेत्। यदा भवान् भक्तिं ददाति जीवेषु भवत: बोध: जायते यदा च तां निगृह्णाति तदा जीवानां मोह: उत्पद्यते। एते एव बन्धमोक्षयो: कारणे स्त:। 


एवं बद्धाञ्जलिना चक्रपाणिना स्तुते सति दयानिधि: शङ्कर: ब्रह्मविष्ण्वो: पुरत: प्रादुरभूत्।


विष्णो: शिवप्रार्थना ब्रह्मकृतशिवस्तुतिश्च।


नन्दिकेश्वर: उवाच, “ तदा यथा अभ्रपटलं भित्त्वा चन्द्र: प्रकटीभवति तथा तं तेज:स्तम्भं भित्त्वा कैलासकूटम् इव धवलं वृषभं आरूढ: पञ्चानन: शङ्कर: प्रकटीभूत:। तेन जटाजूटं तदुपरि च बालचन्द्र: धृत: आसीत्। तस्य पञ्च कन्धरा: विषेण कृष्णवर्णा: अदृश्यन्त। तस्य गलप्रदेशे कपालानाम् अरग्वधपुष्पाणां च माला:, नागानां कुण्डलानि च आसन्। तस्य भालप्रदेशे तृतीयनेत्र: राजते स्म। हस्तै: तेन शूलं, कपालं,डमरु:, परशु:, सारङ्ग:,खट्वाङ्गम्, निर्मलं खड्गं नाग: च धृत: आसीत्।गजचर्मण: उत्तरीयं व्याघ्रचर्मण: च अधोवस्त्रं तेन परिधृतम् आसीत्। सर्वदेवै: स्तुत:, सर्वालङ्कारयुक्त: स: यदा प्रादुरभूत् तदा हरि: तद्रूपं दृषृट्वा आनन्देन नर्तनम् आरब्धवान्। तथापि ब्रह्मा मोहग्रस्त: सन् अधिकमेव अज्ञानतां प्राप।


तदा महेश्वर: प्रसन्नया दृशा माधवं अभिनन्दितवान् ब्रह्माणं प्रति च हुङ्कारं कृत्वा रोषं प्रकटितवान्। पुनश्च तेन उक्तम् ,” भवन्तौ अधिकारजनितमदेन स्वस्य मर्यादाया: अतिक्रमणं कृतवन्तौ तथापि तत्र लज्जा मास्तु। मम वैभवं परीक्ष्य हरि: प्रबुद्ध: जात:। एतेन पुरा मम उपहास: कृत: आसीत् स्वपुत्रिकायां रतिश्चापि विहिता। तदर्थं एतस्य पञ्चमं वक्त्रं मया कर्तितम् आसीत्। तथापि इदानीमस्य एष: तृतीय: अपराध: अस्ति। अत: एतस्य ब्रह्मण: कदापि भूतले प्रतिष्ठा न भविष्यति। अपरं च एतेन केतकीच्छदेन कूटसाक्ष्यं दत्तम् इत्यत: मम पूजायामेष: मम मूर्ध्नि कदापि स्थापनं नार्हेत्।


एवम् उभौ शप्त्वा ईश्वर: प्रीत्या विष्णुम् अभाषत , “वत्स, भयं मास्तु यत: मयि भक्तिशालिनि भवति अहं नितरां प्रसन्न: अस्मि। भवान् मम अङ्गात् समुत्पन्न: विशेषत: सात्त्विक: जगति माहेश्वराणाम् अग्रगण्य: अस्ति। अत: परं भवत: मयि भक्ते: हानि: कदापि न भविष्यति प्रत्युत सा प्रतिक्षणं वर्धमाना भवते मुक्तये कल्पेत।”


एवं भक्तमति निरहङ्कारिणि हरौ यदा महेश्वरेण अनुग्रह: विहित: तदा भीतियुक्त: अवनत: ब्रह्मा ईश्वरं वन्दित्वा तं स्तोतुम् आरभत।