पार्वत्या कृता अरुणाचलपरिचर्या।
नन्दिकेश्वर: उवाच , “ एवं एकाम्रतलवासिन: ईश्वरस्य गार्हस्थ्ये सहभागिनी देवी पक्वान्नै: विविधै: प्रजा: तर्पयामास। एकादा सा सन्ध्यासमये आम्रवृक्षस्य अध: आसीनं मुकुलीकृतलोचनं कृताञ्जलिं शिवं ददर्श। सा चिन्तितवती, “नूनं देव: अन्यां कामपि सौभाग्यशालिनीं स्त्रियं ध्यायन् स्यात्। देवेन ‘भवत्यां मम प्रेम अस्ति’ इति यत् महता वाण्या उच्यते तत् कदाचित् मिथ्यावचनमेव स्यात्। कथं पुरुषाणां मनस: कुटिला गति: ज्ञातुं शक्येत? ‘भवत्या तपोभि: क्रीत: दास: अस्मि’ इति उक्त्वा देव: मां वञ्चितवान् एव। एवं मादृशा: या: मूढा: नार्य: असमानानुरागेषु भर्तृषु यं सौभाग्यगर्वं वहन्ति स: लोकेषु परिहासायैव भवति।”
“एवं चिन्तयन्त्या: देव्या: मुखं प्रणयरोषेण अग्निना तप्तमिव अलक्ष्यत। तस्या: नेत्रयो: अश्रूणि आगतानि। सा चिन्तितवती, “ मम सौभाग्यहीनत्वादेव देव: अन्यां कमपि स्त्रियं ध्यायन् अस्ति। तस्य सौभाग्यस्य प्राप्तये मया अन्यत्र गत्वा तप: तप्तव्यम्। यावत् देवस्य अक्षिणी निमिलिते स्त: तावदहं निभृतं यास्यामि। अन्यथा मां गम्यमानां दृष्ट्वा देव: उपरितनभाषितै: मां गमनात् वारयितुं प्रयतेत। इयम् अतिस्नेहशीला गङ्गा मम पुत्रौ वर्धयेत्। देव: अन्यस्त्रीपरायण: अस्ति अत: तस्य मम स्मरणमपि न भवेत्।”
“ एवं निश्चयं कृत्वा देवस्य पार्श्वात् यथाप्राप्तदिशं सा प्रतस्थे। जया, विजया, मालिनी, चलावती, माल्यवती एता: तस्या: सख्य: तया वारिता: अपि ताम् अनुसरन्त्य: गमनं कृतवत्य:। बहूनि तीर्थाणि, गिरीन्, वनानि, सरित:, सरांसि च अतिक्रम्य ता: द्रविडदेशे सह्यपर्वतस्य उपत्यकां प्राप्तवत्य:। तदा देवी विजयाम् अभाषत, “ एष: नातिदूरे अष्टाभि: शृङ्गै: विराजमान: अरुणागिरि: लक्ष्यते। तस्य उपत्यकायां मनोहरारण्यै: आवृता: शान्ता: अतीव पावना: तापसाश्रमा: दृश्यन्ते। तेषां दर्शनेन मम चित्तं नितरां प्रसीदति अत: वयं तान् आश्रमान् गच्छाम:।”
“ पर्वतस्य उपत्यकायां प्राप्तयां सा तत्र एकम् आश्रमं ददर्श। परस्परं वैरिण: काकोलूका: शुकश्येना:, मृगव्याघ्राश्च तत्र वैरं विस्मृत्य सौहार्देण वसन्ति स्म। तत्र उलूका: शतरुद्रियस्य वायस: स्तोत्राणां, सारिका: साममन्त्राणां पाठं कुर्वन्त: आसन्। तत्र व्याघ्रै: सह गाव: अपि क्षेत्रेषु निर्भयं सञ्चरन्त्य: आसन्। तस्मिन् शोभने देशे तपस्यन्तं कञ्चन ऋषिसत्तमं सा ददर्श। सप्तपर्णवृक्षस्य अध: व्याघ्रचर्मस्य उपरि दर्भासनं स्थापयित्वा स: ऋषि: वीरासने उपविष्ट: आसीत्। स: अरुणवर्णां जटां धारयति स्म। तस्य शरीरं भस्मचर्चितम् आसीत्। नासाग्रे दृष्टिं स्थापयित्वा हस्ते धृतां रुद्राक्षमालाम् अङ्गुलिभि: आवर्तयन् स: जपमग्न: आसीत्। तं मुनिवरं योग्यै: उपचारै: परिचर्य सा तम् अपृच्छत् , “ पुण्यक्षेत्रेषु उत्तम: कोयम् अरुणाख्य: गिरिवर:? क: भवान् यदत्र तप: कुर्वन् अस्ति? स: उक्तवान् , “ अहं गौतमाख्य: मुनि: अस्मि। मोक्षप्राप्तये अहमत्र शिवम् आराधये।” विजयामुखात् एषा साक्षात् उमा अस्ति इति ज्ञात्वा तां भूयोभूय: प्रणम्य स: मुनि: सप्रश्रयं तां स्वस्य उटजं नीत्वा फलमूलादिभि: सत्कृतवान् । जगत: मङ्गलाय तपसे उद्युक्तां तां स: शोणाद्रे: ज्योति:स्तम्भरूपेण आविर्भावं तस्य महिमानं च यथाक्रमेण अश्रावयत्। स: उक्तवान् , “ “शोणाचलस्य पूर्वदिशि स्थलीश्वनाम्ना यज्ज्योतिर्लिङ्गं विराजते तत्स्थानं ब्रह्मविष्ण्वादिदेवै: निबिडं वर्तते। तत्र विक्षेपरहितं तप: कर्तुं अशक्यम्। अत: प्रवालाचलनामकं गहनारण्यावृतं रहसि स्थितम् एतत् स्थानं मया तपसे चितम्। मम आश्रमस्य समीपे एव भवती स्वस्य आश्रमं निर्माय चिरं तप: करोतु।”
पार्वती तस्य अनुज्ञानुसारं स्वाश्रमं विनिर्माय तप: कर्तुं प्रारेभे। स्वस्य आश्रमस्य रक्षायै सत्यवती, काननवासिनी, शुभगा, धुन्धुमारी एतासां स्वशक्तीनां योजना तया चतसृषु दिक्षु कृता। पुनश्च सा तेजस्विनीं दुर्गां सर्वस्य वनस्य रक्षणाय आदिदेश। तदनन्तरं तपोचितं जटाभारं वल्कलं च धृत्वा सा तपश्चरणं कृतवती। प्रात:काले सा पावन्यां कमलानद्यां मज्जनं कृत्वा रक्तकमलै: सूर्यम् अर्चयामास। अनन्तरं दर्भतिलाक्षतमिश्रेण नदिवारिणा सा देवर्षिपितृतर्पणं सम्पादयामास। वालुकामण्डलं कृत्वा तस्मिन् सूर्यमावाह्य तं कमलै: समभ्यर्च प्रदक्षिणं कत्वा गौरी तं सहस्रवारं प्रणनाम। अनन्तरं स्वयमेव एकं शिवलिङ्गं प्रतिष्ठाप्य आगमोक्तविधिना सा शिवम् आराधयामास।
सा कन्दमूलफलै: अतिथिपूजनम् अपि व्यदधात्। ग्रीष्मकाले पञ्चाग्निमध्ये अङ्गुष्ठाग्रेण सा अतिष्ठत्। पुनश्च शिशिरे हृद: शीतजले सा कण्ठं यावत् निमज्ज्य तिष्ठति स्म। आश्रममृगान् पादपानपि सा जलादिना पर्यतोषयत्। सखिभि: सह सा पञ्चाक्षरमन्त्रं जपन्ती अथवा स्तोत्राणि गायन्ती शिवं एकाग्रचित्तेन ध्यायन्ती सा शोणाचलस्य प्रदक्षिणां करोति स्म।
.jpeg)