काम्यकर्मवर्णनम्।
अनन्तरं नन्दिकेश्वरः अरुणाचलस्य सकामपूजनस्य फलानि व्यवृणोत्।
नन्दिकेश्वर उवाच—रक्तवर्णैः कमलैः भानुवासरे यः अरुणेशं पूजयति सः सार्वभौमत्वं वैभवं च प्राप्नोति। सोमवासरे कस्तूरिकया तथा करवीरपुष्पैः च अरुणं पूजयित्वा मनुष्यः सत्यलोकं प्राप्नोति। गुरुवासरे श्वेतकमलैः यः अरुणाद्रिम् अर्चयति सः जनलोके सिद्धैः सह वासं करोति। चम्पकपुष्पैः मल्लिकाभिश्च शुक्रवासरे पूजितः अरुणेशः तपोलोकं ददाति। शनिवासरे जातिपुष्पैः यः अरुणाद्रिम् अर्चयति सः पापी मनुष्यः सन्नपि यमलोकान् न प्राप्नोति।
प्रथमायां तिथौ यः अरुणाद्रये पायसं तथा च उपहारान् दद्यात्स धनधान्यसमृद्धः भवेत्। द्वितीयायां भक्त्या दध्योदनं अरुणाय निवेदयन् भाग्यशाली भवति। तृतीयायाम् अपूपैः शोणेशम् अर्चयन् नीरोगतां प्राप्नोति। चतुर्थ्यां जलपूर्णकुम्भं धान्यराशिं च अरुणेशाय निवेद्य मनुष्यः पूर्णमनोरथः भविष्यति। पञ्चम्यां मुद्गौदनं निवेदयन् अक्षय्यं वैभवं प्राप्नोति। षष्ठ्यां गुडौदनं समर्पयतः वंशः कदापि खण्डितः न भवति। सप्तम्यां तिलौदनस्य समर्पणेन मनुष्यः अनृणी भवति। अष्टम्यां राजशाल्याः समर्पणात् मनुष्यः सेवाम् अकृत्वा अपि राज्ञः वशीकर्तुं समर्थः भवति। यः नवम्याम् अरुणेशाय गोधूमान् समर्पयति तस्य राजयक्ष्मादयः रोगाः कदापि नोद्भवन्ति। दशम्यां तिथौ शोणाद्रये करम्भं (शाकमिश्रितम् ओदनं) समर्पयिता सर्वजनप्रियः भवति। एकादश्यां पृथुकान् समर्पयन् भयरहितः भवति। द्वादश्यां सूपौदनसमर्पणेन मनुष्यः आप्तकामः भवति। त्रयोदश्यां सक्तुसमर्पणेन मनुष्यस्य व्याकुलचित्तत्वं श्रान्तिश्च नष्टा भवति। चतुर्दश्याम् अरुणाद्रये विविधफलानि समर्पयति सः मूढतां परित्यज्य सिद्धः सारस्वतः भवति। पूर्णिमादिने अरुणाय पनसफलम् अर्पयन् चक्षुरोगात् मुक्तः भवति। आमावस्यायां अरुणेशाय कन्दमूलानि यः समर्पयति तस्य पितरः सन्तुष्टाः भवन्ति।
आश्विननक्षत्रे वासांसि, भरण्याम् आभरणानि कृत्तिकायां प्रदीपाः, रोहिणीनक्षत्रे रौप्यं, मृगशिर्षे चन्दनं,आर्द्रायां हरिचन्दनं, पुनर्वसुनक्षत्रे कस्तूरिका,पुष्ये कर्पूरः,आश्लेषानक्षत्रे केसरं, मघानक्षत्रे हिमोदकं,पूर्वफाल्गुनीनक्षत्रे ताम्बूलं, उत्तरफाल्गुन्यां धूपः, हस्ते कालागुरुः, चित्रानक्षत्रे यक्षकर्दमः, स्वातीनक्षत्रे सेविकावृन्दं, विशाखायां चामरम्, अनुराधायां मुक्तानिर्मितं छत्रम्, ज्येष्ठानक्षत्रे धेनवः , मूलनक्षत्रे मुक्ताहाराः, पूर्वाषाढायां मुकुटम्, उत्तराषाढायां रत्नानि,श्रवणनक्षत्रे सिंहासनम्, धनिष्ठायां स्वर्णम्, शततारकानक्षत्रे वस्त्रम्, पूर्वाभाद्रपदे भोग्यवस्तूनि,उत्तराभाद्रपदे अश्वाः, रेवतीनक्षत्रे स्वर्णरथः इत्येतानि वस्तूनि शोणाचलाय महापूजां कृत्वा समर्पयेत्।
सूर्यस्य राशिसङ्क्रमणेषु अपि अरुणाचलः विशेषतया पूज्यः। प्रात: सायं ईश्वर: पञ्चामृतेन स्नापयितव्य:। मेषे निर्गुण्ड्या,वृषभराशौ कुरबकपुष्पैः, मिथुनराशौ अर्जुनपुष्पैः, कर्कराशौ पाटलपुष्पैः,सिंहराशौ कुङ्कुमपुष्पैः,कन्यायां कदम्बपुष्पैः, तुलायां जीवन्तीपुष्पैः, वृश्चिके मल्लिकापुष्पै: धनुराशौ सरोरुहै: मकरराशौ दमनकै: कुम्भे तगरपुष्पै: मीनराशौ च पुन: सरोरुहै: पञ्चाक्षरमन्त्रघोषसहितं देव: पूजनीय:। उत्तरायणारम्भे दक्षिणायनारम्भे च पञ्चगव्येन स्नाप्यमान: अरुणाचल: षडक्षरमन्त्रजपसहित: अर्च्य:। विषुवदिनयो: स: प्रणवसहितं दुग्धेन स्नापयितव्य:। अनन्तरं प्रात: रुद्रतुलसी, मध्याह्ने अरग्वध: अपराह्णे च मल्लिका एतै: पुष्पै: स: पूजनीय:।
अर्धेन्दो: उदयसमये सहस्रकलशमितेन जलेन शतरुद्रपाठसहितं स: स्नापयितव्य:। शिवरात्रौ विशेषत: त्रिशिखै: बिल्वपत्रै: कमलै: कर्णिकारपुष्पै: च नृत्यगीतवाद्यै: सह शोणाद्रि: पूजयितव्य:।
पौषमासे आग्नेयोत्सव: सम्मान्य:। नवान्नै: उपदंशैश्च भू: भुव: स्व: एतासां व्याहृतीनाम् उच्चारणसहितं शोणाद्रि: अर्चितव्य:। वैशाखमासे विशाखानक्षत्रे शिवतन्त्रानुसारं दमनकोत्सव: आचरणीय:। मार्गशीर्षे प्रात: सामवेदस्य गायनेन सह शोणाद्रे: महापूजा करणीया। शनिप्रदोषे, आर्द्रानक्षत्रे,व्यतीपातयोगे, पर्वदिने, सोमवासरे रविवासरे च आगमोक्तप्रकारेण पूजा विधेया। मन्त्रदीक्षा/यज्ञदीक्षा, उपनयनम्, विवाह:, पुत्रजन्म इत्यादिषु प्रसङ्गेषु भक्तिमान् मनुष्य: अरुणाचलं विशेषं पूजयेत्। स्वजन्मनक्षत्रे, सम्पत्सु, विपत्सु, भीतिषु, प्रवेशनिर्गमनयो: , व्रतेषु,भवनपादबन्धनेषु, नववैभवे आगते, शत्रुसंहाराय अभियानेषु मनुष्य: अरुणार्चनं कुर्यात्।
यदि कश्चन अरुणाचलात् दूरे वसति तर्हि स: सर्वदा अरुणाचलं स्मरेत्। यदि स: निकटे निवसति तर्हि स: अरुणाचलस्य दर्शनं कुर्यात्। यदि मन्दिरे एव वसति तर्हि त्रिकालं शिवं पूजयेत्।
वत्स! किं अन्यत् वक्तव्यम् ? अरुणाचलात् अन्यत् स्वर्गप्राप्ते: मोक्षप्राप्तेर्वा समर्थं साधनं नास्ति। एतत् शोणक्षेत्रं तस्य स्मरणेन मन: , तद्विषये श्रवणेन श्रोत्रं, तस्य दर्शनेन दृशं कीर्तनाच्च जिह्वां सद्य: एव पवित्रां करोति। अस्मिन् क्षेत्रे लब्धजन्मान: जीवा: सर्वान् भोगान् प्राप्नुवन्ति जीवनस्य अन्ते च मुक्तिमपि।
ये पापिन: अन्यत्र देहं त्यक्तवन्त: तेषां कृतेपि अत्र सम्पादितेन श्राद्धकर्मणा तेपि मोक्षं प्राप्नुवन्ति।
अयोध्यां मथुरां मायां काशीं काञ्चीम् अवन्तिकामपि एतत् अरुणक्षेत्रम् अतिशेते इत्यस्मिन् मनागपि संशय: नास्ति।
मृकण्डो: पुत्र: एतत्सर्वं निशम्य पुन: शिलादपुत्रं नन्दिकेश्वरं पुन: उवाच, “ इतोपि अग्रे मह्यम् अरुणाचलमाहात्म्यं कथय।” इति।
सृष्टिवर्णनम्।
नन्दिकेश्वर: उवाच–विस्तरेण अरुणाचलमाहात्म्यकथनार्थं पृष्ट्वा त्वया मयि महान् भार: न्यस्त: अस्ति। हे महामते एतद्विषये तव मनसि कुतूहलम् अस्ति तद् योग्यमेव यत: य: शोणाद्रीशस्य चरितं न जानाति स: नर: केवलं पशुरेव।
ये तज्जानन्ति तेपि जना: पूर्णरूपेण तत् कथयितुं न प्रभवन्ति। यत् शोणाचलस्य माहात्म्यं तत् शम्भो: प्रभाव: एव। श्रुतमपि आश्चर्ययुक्तै: भूतै: ज्ञानिभि: तत् बुद्धौ कथम् अवधार्येत ? कामदेवस्य वैरिण: शम्भो: एतत् आश्चर्यकारणं चरितं भवान् स्मरतु। तस्य स्मरणमात्रेण मया परमानन्दस्य अनुभूति: प्राप्तास्ति तथा च मे मन: आनन्देन नृत्यति। अद्भुतं शिवचरितं कार्त्स्न्येन वक्तुं मम बुद्धि: न समर्था तथापि अशांशेन अहं तत् प्रवदामि।
पुरा कल्पस्य प्रारम्भे आदिदेव: महेश्वर: सकलं विश्वं निर्मातुम् इच्छां कृतवान्। इच्छितं तद्विश्वं स्रष्टुं रक्षितुं च स: दक्षिणाङ्गात् ब्रह्मदेवं वामाङ्गात् च विष्णुं निर्मितवान्। ब्रह्मदेव: तेन रजोगुणयुक्त: विष्णुश्च सत्वगुणोपेत: कारित:। देवदेवेन महेश्वरेण नियुक्तौ तौ सृष्टे: सर्जनं रक्षणं च कुरुत:।
ब्रह्मदेव: स्वस्य मनस: मरीच्यादीन् दश ऋषीन् दक्षिणाङ्गुष्ठात् च दक्षप्रजापतिं सृष्ट्यर्थं निर्मितवान्। स: मुखात् ब्राह्मणान् बाहुभ्याम् क्षत्रियान् , उरुभ्यां वैश्यान् पादाभ्यां च शूद्रान् निर्मितवान्। मरीचे: पुत्र: कश्यप:। तस्मात् सुरासुरा: जन्म प्राप्तवन्त:। मरुद्गण:, सर्पा:, गन्धर्वा: अप्सरस: च कश्यपादेव जाता:।
मानवा: मनो: जाता:। अत्रिमहर्षे: ब्राह्मणानां क्षत्रियाणां च कुलानि समुदभवन्। यक्षा: राक्षसाश्च पुलस्त्य: तथा पुलह: एतयो: अपत्यानि। अङ्गिरस: मुने: उतथ्य: तथा बृहस्पति: एतौ जातौ। भृगो: अग्नि: तथा च च्यवनादय: महर्षय: प्रादुर्भूता:। वसिष्ठादिभ्य: ये पुत्रपौत्रादय: समुत्पन्ना: तै: एतज्जगत् आपूरितम्। एवं स्वीयै: आत्मजै: ब्रह्मा इदं जगत् आपूरितवान्। तथापि गच्छता कालेन वैभवेन च स: महेश्वरं विस्मृतवान्। विष्णुरपि भृगो: पुत्रीं लक्ष्मीम् उद्वाह्य मत्स्याद्यवतारान् अधारयत्। तथापि सोपि महेश्वरं न अस्मरत्। एवं ब्रह्मविष्णू जगत: उत्पत्तिस्थित्यो: स्वाधीनतां प्राप्य स्वस्य अधिकारेण मदग्रस्तौ अभवताम्।
