अरुणाचलमाहात्म्यम् (पूर्वार्ध:)--१०

 


महिषासुरवधः।

सः महिषासुरः अत्यन्तं कुपितः भूत्वा  विविधायुधयुतां सिंहारूढां ज्वलन्तीं दुर्गां शैलानां वर्षेण आच्छादयत्। तथापि देवी दूरतः एव निशितैः शरैः तेषां शैलानां निवारणं कृत्वा तस्य असुरस्य शरीरं तीक्ष्णैः शस्त्रैः भिन्नवती। तीक्ष्णैः ऋष्टिभिः , असिभिः , खङ्गेन , शूलैः , चक्रैश्च भिद्यमानः सः असुरः अकस्मात् एव तिरोहितः अभवत्। क्षणाभ्यन्तरे तीक्ष्णनखदंष्ट्रायुक्तस्य भयङ्करस्य सिंहस्य रूपं धृत्वा प्रचण्डं गर्जनं कुर्वन् सः प्रत्यागतः। तथापि देव्याः सिंहः तस्मिन् अपतत्। देवीसिंहेन स्वस्य पाणिना दैत्यसिंहस्य शरीरे प्रचण्डप्रहारः विहितः तस्य वक्षः च विदारितम्। ततस्तेन असुरेण भीषणं व्याघ्ररूपं धृतम्। देवी स्वस्य भल्लेन तं व्याघ्रं व्यापादितवती। अनन्तरं गजेन्द्रस्य रूपं धृत्वा आयान्तं तं देवीसिंहः पुनः अमारयत्। तदा महिषेण खड्गयुतस्य मानववीरस्य रूपम् आसाद्य युद्धमारब्धम्। देव्या सः वीरः अपि मारितः। तदा पूर्ववत् महिषरूपं धृत्वा सः असुरः भयङ्करं युद्धम् आरब्धवान्। 


तदा दैवैः मुनिभिश्च प्रेरितः गौतमः देवीं प्रति गत्वा उवाच," हे भगवति, सर्वस्य जगतः प्राणशक्तिः ओजशक्तिः, ज्ञानशक्तिः , बलशक्तिश्च त्वयि वर्तते। भुवननानां रक्षणाय भवत्या एतस्य असुरस्य सत्वरं संहारः कर्तव्यः। भवत्या त्रिशूलेन एतस्य प्राणशक्तिम् आकृष्य एषः व्यापादनीयः।" एवं गौतमेन बोधिते भगवत्या त्रिशूलेन तस्य शरीरं विद्धम्। तदा सः पर्वतकायः असुरः तं त्रिशूलं स्वस्य शरीरात् पृथक्कर्तुं नाशक्नोत्। त्रिशूलेन भिन्नमुखाङ्गः सः रुधिरस्य समुद्रः इव अदृश्यत। तदनन्तरं देव्या खड्गेन तस्य शिरः कर्तितम्। तथा च तस्य शिरसः उपरि तया नर्तनं कृतम्। सिद्धाः, गन्धर्वाः महर्षयः देवीं भृशं प्रशंसितवन्तः। देवैः दुर्गायाः उपरि समन्ततः पुष्पवृष्टिः कृता।


देवराजः इन्द्रः दुर्गां स्तुतिभिः अतोषयत्। "हे अम्बिके भवतीं भजतां जनानां भक्तिः श्रद्धा दान्तिः परमा कीर्तिः शान्तिः शक्तिश्च भवती एव वर्तते। भवती एकैव विश्वरूपा भिन्ननामभिः ज्ञायते। एतस्य असुरस्य विनाशं कृत्वा भवती अस्य भयङ्करं छिन्नमस्तकम् आक्रम्य स्थितम् एतत् भवत्याः रूपं अस्माकं कृते वरप्रदं भवतु। सर्वदेवदत्तायुधैः आपूरित चक्र-शृङ्ग-धनुः-बाण-खड्ग-वर-अभयहस्तैः शूल-घण्टा-अङ्कुश-कशा-कपाल-कुलिशहस्तैश्च शोभायमाना भवती अस्माकं सर्वान् शत्रून् मारयति। ये भवत्कृपाहीनाः सन्ति तेषां पराक्रमः क्षणाभ्यन्तरे नश्यति। भवत्कृपाभाक् अल्पवीर्यः सन्नपि त्रैलोक्यस्य आधिपत्यं प्राप्य प्रथितः भवति। तवेदं घोररूपं ध्यायताम् अर्चतां च जनानां कदापि शत्रुभयं न भवेत्। सर्वलोकेषु वन्दितं भवत्याः इदं रूपम् इष्टसिद्ध्यर्थं देवाः अपि पूजयेयुः। त्वया सृष्टाः सर्वाभीष्टप्रदाः मातृकाः गणसहिताः सर्वैः प्रतिपूज्याः भवन्तु।  भवत्पादलग्नः भवत्या निहतः एषः असुरः अपि भवत्याः प्रसादात् अग्रतः पूज्यः भवेत्।"


तदा 'तथा' इति उक्त्वा देव्या मातृकासहितं स्वस्य विविधायुधयुक्तं तद्रूपं स्वर्लोके देवानां पूजार्थं स्थापितम्।  तदनन्तरं स्वस्य सौम्यं पूर्वरूपं पुनः आदाय देवी स्वस्थानं प्राप्तवती। 


ततः तया महिषस्य छिन्नमस्तकम् अवलोकितम्। महिषस्य कण्ठे लग्नं शिवलिङ्गं दृष्ट्वा तस्य पूजनं कर्तुं तया तल्लिङ्गं हस्तेन गृहीतम्। तदा तस्याः हस्ततले तत्  सज्जितमेव अभवत्। प्रयत्नं कृत्वापि सा तल्लिङ्गात् मुक्तिं न प्राप्नोत्।


'देवानां रक्षणाय उद्यतया मया अविचारेण एषः शिवभक्तः मारितः' इति उपतापेन युक्ता सा गौतमं प्रति आगत्य उक्तवती ,"हे मुनिसत्तम, धर्मकामनया कृतोद्यमया मया एषः अधर्मः एव परिकल्पितः यत् एतस्य शिवभक्तस्य हननं मया कृतम्। शिवः अपि शिवलिङ्गधारकान् बहु मन्यते। अतः पुरा त्रिपुरसंहारे शिवलिङ्गधारकान्  दैतेयान् मारयितुं शिवः अपि असमर्थः अभवत्। यदा ते शिवलिङ्गात् वियुक्ताः तदैव सः तान् हन्तुं शक्तवान्। अहं शिवभक्तहननात् जातम् एतत्पापं शोधयितुं तीर्थयात्रां पवित्रजलेषु स्नानादिकं च आचरिष्यामि येन शिवः प्रसीदेत्।"


तस्याः एतद्वचनं श्रुत्वा अधर्मभयार्ताम् अम्बिकां गौतमः एवम् अवदत् ," हे गिरिजे मोहात् भवत्या शिवभक्तः हतः इति विचारेण भयं मा करोतु। धर्मस्य तत्त्वं सूक्ष्मत्वात् अवगन्तुं न सुलभम्। शिवस्य सद्योजातादिभिः पञ्चभिः मुखैः अष्टाविंशतिः आगमाः प्रोक्ताः सन्ति। तानि मुखानि आश्रित्य कालामुखपाशुपतादयः शैवमार्गाः प्रवर्तन्ते। एते सर्वे परस्परभिन्नाः तथापि तेषां सर्वेषां एकः शिवः एव आराध्यः। शिवाचारस्थितैः यस्य शिवे अनन्यभक्तिः सः जनः सदा पूजनीयः। तथापि शिवधर्मस्य भेत्तारः अवश्यम् अविचार्यैव मारणीयाः। 


एषः महिषासुरः पूर्वं शिवलिङ्गपूजनात् शिवप्रसादेन बलवत्तमः देवैरपि अजेयः अभवत् ,देवान् मुनींश्च समपीडयत्। तेन त्रस्ताः मुनयः तं शप्तवन्तः। तेनैषः महिषरूपं प्राप्तवान्। मुनीनां पुरतः तेन शापामोचनार्थं प्रार्थना कृता तदा ते अवदन् यत् महिषरूपे सत्यपि भवान् इच्छानुसारं रूपाणि धारयितुं क्षमः भविष्यति। साक्षात् महामाया शिवाज्ञया भवतः संहारं करिष्यति येन भवान् शापमुक्तिं मोक्षं च प्राप्स्यति इति। 


तेनैव एषः भवत्याः हस्ताभ्यां मरणं प्राप्य भवत्याः पादस्पर्शात् मुक्तः अभवत्। पूर्वजन्मनि तेन अरुणाद्रेः अर्चनं कृतमासीत् तस्यैव एतत् सुफलं समुत्पन्नम्।  


भवती अपि लिङ्धरस्यैतस्य हननस्य पापात् मुक्त्यर्थम् अरुणाद्रेः अर्चनं करोतु। भवती शैवमतावलम्बिजनान् आनीय अस्मिन्प्रदेशे स्थापयतु। सर्वतीर्थानि आवाह्य अस्मिन् क्षेत्रे एकं सरः निर्मातु। तस्मिन् सरसि लिङ्गं धृत्वा अघमर्षणमन्त्रसहितं त्रिसन्ध्यं स्नानं समाचरतु। तदनन्तरं मासान्ते दैवयागेन शिवं यजतु। तेन भवत्याः पापस्य क्षालनं निश्चयेन भविष्यति। 


शिवाचारज्ञस्य गौतमस्येदं वचनं श्रुत्वा सर्वदेवनमस्कृता सा देवी तथैव तपः आचरितुं प्रवृत्ता अभवत्।