विचारसङ्ग्रह:--२

 


6

शि–अन्त:करणस्य मनोबुद्ध्यहङ्कारचित्तानि चत्वार: विकारा: अत: केवलं मनस: नाशात् मुक्ति: प्राप्यते इति कथं वक्तुं शक्येत?


म—ग्रन्थेषु मनस: स्वरूपस्य विवरणे उक्तं यत् वयं यत् भक्षयाम: तस्य सत्त्वांशस्य घनीभूतत्त्वात् मनस: उत्पत्ति: भवति। रागद्वेषौ क्रोधमोहौ एतै: विकारै: तस्य वर्धनं भवति। मनोबुद्ध्यहङ्कारचित्तानां चतुर्णां निचयरूपे सत्यपि तत् मन: इति एकमेव समूहवाचकं नाम लभते विचार: निश्चयकरणम् इत्यादीनि विविधकार्याणि च वहति। तत् आत्मन: विषयभूतं दृश्यस्वरूपं जडं तथापि द्रष्टु: चैतन्यात्मन: साहचर्यात् सचेतनमिव भासते यथा अग्ने: साहचर्यात् लोहगोल:। तत् च पञ्चमहाभूतात्मकं, मर्यादितं, अनित्यं, सङ्घातरूपं, सिक्थसुवर्णादिवत् विकारशीलम्। यथा चक्षुरादीन्द्रियाणां चक्षुरादि: स्थानं तथा मनस: स्थानं हृत्कमलम्। मन: जीवस्य सहचारि। विषयवस्तु चिन्तयत् तत् विकारं याति ततश्च मस्तिष्के विद्यमानं ज्ञानं स्वीकृत्य पञ्चज्ञानेन्द्रियाणां मार्गेण विषयवस्तु प्रति गत्वा तस्य ज्ञानम् अनुभवश्च प्राप्नोति समाहितं च भवति। यथा एक: एव जन: तस्य विभिन्नकार्याणां सम्पादकत्वात् विभिन्नै: नामभि: ज्ञायते तथैव विभिन्नकार्यानुरोधेन एकमेव मन: मनोबुद्ध्यहङ्कारचित्तादिभि: विभिन्नै: नामभि: ज्ञायते। तथापि एतेषु विभिन्नेषु विकारेषु न वास्तविक: भेद:। एकं मन: एव जीवजगदीश्वररूपम्। यदा तत् ज्ञानात् आत्मरूपं भवति, य: आत्मा स्वयं ब्रह्मरूप: एव, तदा तत् मुक्तिं प्राप्नोति । एष: उपदेश:।


7


शि— यदि मन: बुद्धि: अहङ्कार: चित्तम् एतानि चत्वारि एकस्यैव मनस: स्वरूपं तर्हि एतेषां चतुर्णां विभिन्नानि स्थानानि कथं निर्दिष्टानि?


म– यद्यपि मनस: स्थानं कण्ठ:, बुद्धे: मुखं हृदयं वा, चित्तस्य नाभि:, अहङ्कारस्य हृदयं सर्वाङ्गं वा एवम् एतेषां विभिन्नानि स्थानान्युक्तानि तथापि एतेषां चतुर्णां सङ्घातरूपं यन्मन: अन्त:करणं वा तस्य हृदयमेव स्थानम् इति सर्वशास्त्राणां निश्चयपूर्वकं कथनम्।


8


शि– अन्त:करणरूपं एकं मन: एव सर्वं भवति; जीवजगदीश्वररूपेण भासते इति केन कारणेन उक्तम्?


म– विषयज्ञानस्य साधनानि ज्ञानेन्द्रियाणि बहि: सन्ति मनश्च अन्त:करणनामानं अन्त: विद्यते तथापि एष: अन्तर्बहिर्भेद: शरीरस्य सन्दर्भे एव अस्ति। स: वस्तुत: नैव विद्यते। मन: वस्तुत: निर्मलाकाशरूपम्। तथापि यन्मन: हृदयं वेति उच्यते तत् अन्त: बहि: वा भासमानानां सर्वेषां सांसारिकपदार्थानां समूहरूपमेव। अत: मनोरूपम् एव नि:संशयं नामरूपात्मकं सर्वं वस्तुजातम्। अत: यत् बहि: भासते तत्सर्वं वस्तुत: अन्त: एव विद्यते। एतदेव विज्ञापयितुं सर्वे वेदा हृदयरूपा: इति उच्यते। एतत् हृदयं ब्रह्मस्वरूपमेव।


9


शि–हृदयं ब्रह्मस्वरूपमिति कथं वक्तुं शक्यते?


म– जाग्रत्स्वप्नसुषुप्तिषु यद्यपि मन: क्रमेण दृगिन्द्रिये कण्ठप्रदेशे हृदये च स्थित्वा विषयानुपभुङ्क्ते अनुभवांश्च प्राप्नोति इति उच्यते तथापि तत् स्वस्य हृदयरूपं प्रधानस्थानं वस्तुत: कदापि न मुञ्चति। तस्मिन् हत्पद्मे अथवा चिदाकाशे आत्मन: प्रकाश: ‘अहम्’ इति रूपेण उद्भासित: भवति। यत: सर्वजीवेषु एष: ‘अहम्’ समानरूपेण उद्भासते स: ‘साक्षी’ अथवा ‘तुरीय:’ इति नाम्ना आख्यायते। यद् ‘अहं’रूपेण सर्वशरीरेषु उद्भासितं भवति तत् परब्रह्म केवलज्ञानस्वरूपम् तस्य अन्त:। तत् एव केवलसत्तात्मकं ‘तुरीयातीतम्’। अत: एव उच्यते यत् हृदयमेव ब्रह्मस्वरूपम् इति। 


यत: सर्वजीवानां हृदये परब्रह्म आत्मरूपेण तिष्ठति , तत् हृदयमिति संज्ञया निर्दिश्यते। हृदयम् इति शब्दस्य विग्रह: ‘हृद् +अयम्’ इति। तस्य अर्थ: अपि ‘अयम् (आत्मा/ब्रह्म) हृद् एव’ इति।


ब्रह्म एव सर्वेषां हृदि आत्मरूपेण हृदयस्थले तिष्ठति इत्यस्य निदर्शकं नाम सर्वे जना: ‘अहम्’ इति उच्चारणसमये स्वस्य वक्ष: एव अङ्गुल्या निर्दिशन्ति।


10


शि– यदि सर्वं जगत् मनोरूपमेव तर्हि किमेतन्न अनुगम्येत यत् तत् केवलं आभासात्मकमेव? एवं सत्यपि वेदे तस्य निर्मिति: कथं निर्दिष्टा अस्ति?


म– सर्वं जगत् केवलम् आभासात्मकमेव इत्यत्र नास्ति लेशमात्रमपि संशय:। वेदानां मुख्यभूत: सार: नाम आभासात्मकस्य जगत: असत्यत्वं प्रदर्श्य ब्रह्मज्ञानस्य दानम्। जगत: अससत्यत्वस्य प्रदर्शनार्थमेव वेदा: जगत: अस्तित्वं स्वीकुर्वन्ति न केनापि अन्येन हेतुना।


अपरं च य: निम्नस्तरीय: साधक: तस्य कृते जगन्निर्मिते: नाम ब्रह्मण: सकाशात् प्रकृते: महत्तत्त्वम्, तन्मात्रा: स्थूलभूतानि, जगत् ,देह: एवंक्रमेण क्रमविकासस्य उपदेश: विद्यते। अधिकार्हस्य कृते युगपदुत्पत्तिवाद: नाम स्वस्य आत्मरूपस्य ज्ञानस्य अभावात् विचारद्वारा स्वप्नवत् जगत: युगपदुद्भव: उपदिश्यते।


यत: जगत: निर्मिति: वेदे विभिन्नप्रकारेण उक्ता तत: एव एतत् स्पष्टं भवति यत् वेदा: येन केन प्रकारेण जगत: आभासिस्वरूपं दर्शयित्वा सद्ब्रह्मण: उपदेशार्थमेव प्रवर्तन्ते। जगत् केवलम् आभासिकम् एतस्य अनुभव: जन: आनन्दस्वरूपस्य आत्मन: साक्षात्कारसमये यथार्थतया प्राप्नोति।