कार्तिगाई-दीपम्।

  


तमिळ्नाडु-केरल-आन्ध्र-कर्णाटकादिराज्येषु श्रीलङ्कायां च कार्तिकमासस्य पूर्णिमायां एतत् प्रकाशपर्व सम्मान्यते। विशेषतया तमिळ्नाडुराज्ये तिरुवन्नमलाई इत्यत्र अरुणाचलेश्वरमन्दिरे एतस्य महोत्सवस्य आयोजनं विशालं भवति। 

शैवानां कृते बहु महत्त्वपूर्णः उत्सवः अयम्। पुराणेषु कथितम् अस्ति यत् अस्मिन् दिने भगवान् शिवः ब्रह्मविष्ण्वोः अज्ञानं गर्वं च अपाकर्तुं तैजसलिङ्गरूपेण प्रादुरभवत्। शिवपुराणस्य विद्येश्वरसंहितायां तस्य कथा एवमस्ति--

पुरा जगत्पालकः विष्णुः शेषे शयनं कुर्वन् आसीत्। तदा जगन्निर्माता ब्रह्मदेवः तत्र आगतवान्। तथापि विष्णुना अभ्युत्थानसत्कारादिभिः सः न पूजितः। तेन ब्रह्मा भृशं कुपित्वा अवदत् , " अहं जगतः स्रष्टा अस्मि। अतः पूजार्हः। मम सम्माननम् अकृत्वा भवता महापराधः कृतः अस्ति।" विष्णुः उक्तवान्, " भवतः सृजनं मम नाभेः उत्पन्ने कमले अभवत् अतः भवान् तु मम पुत्रः अस्ति।"

एवमुक्तवति विष्णौ ब्रह्मदेवेन विष्णुना सह महत् युद्धम् आरब्धम्। विविधशस्त्राणां प्रहारैः उभौ सर्वमेव जगत् नाशयितुम् उद्युक्तौ भूतौ इति दृष्ट्वा भीताः देवाः कैलासं गतवन्तः। तैः ज्ञापितः शिवः ब्रह्मविष्ण्वोः भ्रमस्य नाशार्थम् अग्निस्तम्भरूपेण उभयोः विवदतोः देवयोः मध्ये प्रादुर्भूतः। कोटिसूर्यसदृशं तं ज्वलन्तम् अग्निस्तम्भं वीक्ष्य आश्चर्यान्वितौ ब्रह्माविष्णू युद्धं त्यक्तवन्तौ। तदा आकाशवाणी अभवत्-एतस्य अग्निस्तम्भस्य आदिः अन्तः वा यः कः अपि अन्वेष्टुं प्रभवेत् सः युवयोः महत्तरः इति।

तच्छ्रुत्वा स्वमहिमानं ख्यातुकामौ तौ अग्निस्तम्भस्य तस्य आद्यन्तम् अन्वेष्टुं व्यवसितौ। ब्रह्मा हंसरूपेण ऊर्ध्वदिशि उड्डयनं कृतवान् विष्णुश्च वराहरूपं धृत्वा अधोदिशं गतः। अपरिमितकालम् अन्विष्यापि तौ स्तम्भस्य आद्यन्तौ निश्चेतुम् असमर्थौ अभवताम्। 

विष्णुः चिन्तितवान्,"अहो मम मोहः यत् स्वात्मानं शिवमेव अहं नावगतवान्। गर्वेणोद्धतः अहं शिवस्य महिमानं ज्ञातुम् असमर्थः अस्मि अतः शिवमेव शरणं गच्छामि।" एवं विचिन्त्य सः पूर्वस्थानं प्रतिनिवृत्तः।

ब्रह्मा उपरि गच्छन् अधः पतन्तम् एकं केतकीपुष्पं दृष्टवान्। तेन पृष्टे सति केतकी उक्तवती," अपरिमितः कालोऽतीतः अस्ति मम अधःपतनस्य तथापि एतस्य अग्निस्तम्भस्य अन्तम् अहं न प्राप्तवती अस्मि।" ब्रह्मा उक्तवान् ,"भवती मम प्रस्थानस्थलम् आगत्य विष्णुं वदतु यत् मया अग्निस्तम्भस्य शीर्षं दृष्टम् इति।"

केतक्या तथैव कृतम्। तदैव तस्मात् अग्निस्तम्भात् शशिशेखरः भगवान् शिवः प्रादुरभूत्। केतकीपुष्पस्य वञ्चनशीलतां दृष्ट्वा क्रुद्धः सः केतकीं शप्तवान् यत् मम पूजासमये भवत्याः प्रयोगः इतःपरं न भविष्यति इति। सः असत्यवादिनं ब्रह्माणम् अपि अशपत् यत् वञ्चकस्य अनृतवादिनः भवतः पूजा भूतले न भविष्यति इति। तथापि ब्रह्मणि क्षमां याचमाने करुणामूर्तिः शिवः ब्रह्मणे सृष्टिनिर्माणाधिकारं प्रादात्। विष्णोः भक्त्या प्रभावितश्च सः तस्मै जगत्पालनाधिकारं दत्तवान्।

उभाभ्यां प्रार्थिते सति जगतः कल्याणाय शिवः स्वस्य अग्निरूपं प्रशाम्य अरुणाचलस्थावरलिङ्गरूपेण पृथिव्यां निवासम् अकरोत्।  

शिवस्य अग्निस्वरूपम् एतल्लिङ्गं जगति आविर्भूतं प्रथमं ज्योतिर्लिङ्गम् अस्ति। तस्य जगति आविर्भावः कार्तिकमासस्य पूर्णिमायाम् अभवत्। अतः एतां घटनाम् उपलक्ष्य अरुणणाचलपर्वते कार्तिकपूर्णिमायां महादीपस्य प्रज्वालनं क्रियते। 

एतत्सम्बन्धिनी अन्या एका कथापि अस्ति। एकदा शिवपत्नी पार्वती क्रीडया हस्ताभ्यां शिवस्य नेत्रे पिहितवती। अज्ञानवशात् कृतया अनया क्रियया सम्पूर्णं जगत् तमसः आवृतं भूत्वा अकाले महाप्रलयं प्राप्तवत्। तदा देवानां याचनया शिवः तस्य तृतीयं नेत्रम् उद्घाट्य जगत् पूर्वस्थितिम् आनीतवान्। 

अनवधानात् जातेन स्वस्य अपराधेन लज्जिता पार्वती जगन्नाशस्य पापं क्षालयितुं तपःकरणाय शिवेन आदिष्टा। शिवस्यादेशानुसारं भूलोकम् आगत्य सा प्रथमं काञ्चीक्षेत्रे तदनन्तरम् अरुणाचले च सुदीर्घः तपः आचरितवती। तस्या तपश्चर्यया प्रसन्नः शिवः तस्यै स्वस्य अर्धं शरीरं स्थानरूपेण दत्त्वा अर्धनारीश्वरः अभवत्। एतच्छिवशक्त्योः मेलनम् अपि अस्मिन्नेव दिने अभवत्। एतदपि अस्य दिनस्य महत्त्वम्।

आहत्य दश दिनानि यावत् एषः प्रकाशोत्सवः प्रचलति। अन्तिमे दिने नाम कार्तिकपूर्णिमादिने अरुणाचलपर्वतस्य शेखरे एकस्य महादीपस्य प्रज्वालनं भवति। तस्य दीपप्रज्वालनस्य कृते निर्मितम् एकं महाभाण्डं पूर्णिमादिनात् पूर्वम् अरुणाचलशृङ्गं नीयते। पूर्णिमादिने उपत्यकायां स्थिते अरुणाचलमन्दिरे भरणीदीपः प्रज्वालितः भवति। अनन्तरं सायं षड्वादनसमये अरुणाचलशिखरे महादीपस्य प्रज्वालनं भवति। दीपस्य कृते ३५०० किलोपरिमितं घृतम् उपयुज्यते। प्रज्वालितस्य दीपस्य प्रकाशः ३५ मैल्-दूरात्  अपि वयं द्रष्टुं प्रभवामः। 

एतस्य प्रकाशोत्सवस्य कृते प्रतिवर्षं १५ लक्ष जनाः तिरुवन्नमलै आगच्छन्ति। भक्त्या अरुणाचलस्य प्रदक्षिणाम् अपि विदधति। अस्मिन् वर्षे शुक्रवासरे १९ नवंबरदिनाङ्के सायं षड्वादने महादीपप्रज्वालनं भविष्यति।  

सर्वे शिवभक्ताः यूट्यूब-आदिमाध्यमेन एतस्याः घटनायाः जीवत् दृक्प्रसारणं द्रष्टुं शक्नुयुः। सः तेजोलिङ्गरूपः शिवः सर्वेषां कृते मङ्गलप्रदः भवतु।