ब्रह्मणा केतकच्छदस्य साक्ष्यार्थं प्रार्थना।
तत: केतकपत्त्रमपि विहस्य तम् अब्रवीत् , “त्वं मूढ: असि। एतं तेज:स्तम्भं परित: कोटिश: ब्रह्माण्डानि लग्नानि सन्ति। तत्क: एतस्य प्रमाणं वेदितुं क्षम:? मम पतत: अयुतानि चतुर्युगानि यातानि तथापि अद्यापि अहं एतस्य मध्यभागे वर्तमानं भूतलं न प्राप्तवान्।”
तदा स्वस्य अहङ्कारं त्यक्त्वा ब्रह्मा कृताञ्जलि: तम् अभाषत, “ हे केतकच्छद, अहं सत्यमेव मूढ: अस्मि यन्मया विष्णुना सह स्पर्धा उत्पादिता। एतस्य जगत: सर्गरक्षामात्रं वहन्तौ आवां शिवस्य माहात्म्यं विस्मृतम्। अद्यापि अहं विष्णुना सह स्पर्धया बद्ध: अस्मि। ‘मित्रत्वं साप्तपदिकं’ इति कथ्यते। आवयो: चिरं सम्भाषणं जातम् अत: मम मित्रं भवान् मयि अनुग्रहं कर्तुम् अर्हसि। मोहान्धौ आवाम् एतस्य तेज:स्तम्भस्य मूलाग्रे शोधितुम् वराहहंसरूपे धृत्वा यातौ। स: वराहभूत: विष्णु: एतस्य मूलं प्राप्तवान् वा न इति न जाने। तथापि मम तु एतादृशी शोचनीया दशा जातास्ति। अग्रान्वेषिण: मम उड्डीयमानस्य सहस्राणि हायनानि गतानि। तेनाहं अत्यधिक: श्रान्त: अस्मि। मम असव: च वियुञ्जाना: इव लक्ष्यन्ते। दिष्ट्या भवान् मया मित्रं लब्ध:। मम एनां प्रार्थनां सफलीकरोतु। यदि विष्णुना एतस्य स्तम्भस्य मूलं दृष्टं स्यात् तर्हि तेन अहं जित: भवामि। यदि न तर्हि अपि तेन मम समता स्यात्। एतद्द्वयमपि मम कृते अतीव लज्जास्पदम्। अत: तव मित्रस्य मम कृते भवान् विष्णो: पुरत: एवम् असत्यं कथयतु यत् एष: हंसरूपधर: ब्रह्मा एतस्य तेज:स्तम्भस्य शीर्षं दृष्टवान् तत्र अहं साक्षी अस्मि। तेज:स्तम्भरूपेण शिवेनापि पित्रा इव एष: पितामह: सम्मानित:। अत: एष: ब्रह्मा एव भवत: अपेक्षया श्रेष्ठ: इति भवान् विष्णुं वदेत्।”
नन्दिकेश्वर: उवाच, “ एवं विधात्रा भूय: प्रार्थितेन केतकच्छदेन विष्णो: पुरत: यथाब्रह्मोक्तं निगदितम्।”
शङ्करप्रादुर्भाववर्णनम्।
नन्दिकेश्वर: उवाच,“तदा ब्रह्माणं वीक्ष्य द्विगुणं स्मितं कुर्वन्स: विवेकवान् विष्णुरपि एतेन स्तम्भाग्रं नैव दृष्टमिति निश्चयं प्राप्त:। स: चिन्तितवान् , ‘एतस्य विधे: मदं हन्तुं मां चानुग्रहीतुं स: एव देवदेवेश: भूतभर्ता शिव: एव समर्थ: अस्ति। तेज:स्तम्भस्य मूलस्य दर्शने अहमक्षम: अभवम् येन च मम मद: व्यपेत: मयि च शिवभक्ते: उदय: जात: अस्ति। यस्य वामदक्षिणाङ्गाभ्याम् आवां समुद्भूतौ स: महेश्वर: एव मया गर्वरहितेन स्तोतव्य:। तथापि अद्यापि अमुक्तमद: एष: ब्रह्मा कूटसाक्ष्येण माम् अतिसन्धातुम् इच्छति अत: सकलदु:खस्य अपनये क्षम: स: शिव: एव मम शरणम्। कृतापराधस्य कृतघ्नस्य गुरुद्रोहिण: मम तं ऋते न कोपि अन्य: रक्षिता अस्ति अत: तस्यैव स्तवनमहं विदधे। ’
विष्णु: उवाच , “ हे प्रभो, पृथ्वी आप: अग्नि: वायु: सूर्य: चन्द्रमा: होता एता: सर्वा: भवत: एव आकृतय: सन्ति। भवान् त्रिगुणातीत: कालरूप: अक्षयैश्वर्यवान् च अस्ति। हे करुणाकर, मम रक्षां करोतु। सर्वजगतां स्रष्टा, सर्वदेहिनां रक्षिता, सर्वभूतानां हर्ता च भवन्तं विना क: अपर: अस्ति? भवान् अणुभ्य: अपि अणीयान् महद्भ्य: अपि महीयान् अस्ति। अन्तर्बहि: भवानेव एतज्जगदाक्रम्य तिष्ठति। वेदा: तव नि:श्वासा: विश्वं च शिल्पवैभवम्। देवदानवदैत्या: सिद्धविद्याधरमानवा: प्राणिन: पक्षिण: शैला: एतत्सर्वमपि भवानेव। स्वर्ग: अपवर्ग:, यज्ञ:, ओङ्कार:, योग: परा संवित् एतत्सर्वं भवानेव। किं तत् यत् भवान् न स्यात्? स्थावरजङ्गमानां भूतानामादि: मध्य: अन्त: च भवान् एव। कालरूपं प्राप्य भवानेव एतत्सर्वं जगत् कलयसि।”
पुनश्च स: अचिन्तयत् , “परेश: जगत: शास्ता धूर्जटी शिव: कथं मे साक्षात् भविष्यति यं दृष्ट्वा शरणं गत: नि:श्रेयसम् अवाप्नोति? तं जातमात्रस्य निवासं शिवं यथामति अहं स्तौमि। सर्वत: यस्य श्रवणानि वर्तन्ते मम प्रार्थनां श्रुत्वा स: मयि अवश्यं कृपां कुर्यात्।”
अत: आदिमध्यान्तरहितं तेज:स्तम्भं जगदीश्वरं मत्वा तं प्रणम्य ब्रह्मदेवेन वार्यमाण: अपि स: विष्णु: सस्मितं पुन: स्तोतुम् आरेभे।
विष्णु: उवाच, “ हे महादेव, वामदेव, वृषध्वज, कालान्तक, क्रतुध्वंसी, नीलकण्ठ, इन्दुशेखर भवत: जय: अस्तु। हे शम्भो, शिव, ईशान,शर्व, त्र्यम्बक, धूर्जटे, स्मरारे, पुराराते, स्थाणो, भव, महेश्वर, जयेश, खण्डपरशो, शूलिन्, पशुपते, हर भवत: जय: अस्तु। हे सर्वज्ञ, भर्ग, भूतेश,कपालिन्, नीललोहित,रुद्र, पिनाकिन् ,प्रमथाधिप, गङ्गाधर, व्योमकेश,गिरीश, परमेश्वर, भवत: जय: अस्तु। हे भीम, मृगव्याध, कृत्तिवास: , कृशानुरेत भवत: जय: अस्तु। भवान् नित्यं कैलासे वसति। भवत: आज्ञया वायु: वाति, शेष: भुव: भरं वहति, चन्द्रसूर्यौ दीप्यत: ब्रह्माण्डं क्षीराब्धौ च तरति। भवत: अनुशासनादेव ब्रह्मा जगत: सर्जने अहं च जगत: रक्षणे सामर्थ्यम् आवहत:। भवत: आज्ञया एव सकलजगत: पुष्ट्यर्थं पृथिवी सस्यानि प्रसूते समुद्रश्च तस्य मर्यादायां तिष्ठति। अणिमादय: महासिद्धय: भवत: कृते सामान्या: एव वर्तन्ते। सर्वै: देवै: भवान् अभिष्टुत: अस्ति। अहं भवन्तं कथम् उपेक्षितुं क्षम: भवामि? वयं वैभवे भवन्तं विस्मराम: सङ्कटे च स्मरणं कुर्म:। तथापि भक्तेषु भवत: प्रसाद: एव स्यात् रोष: कदापि मा भवेत्। यदा भवान् भक्तिं ददाति जीवेषु भवत: बोध: जायते यदा च तां निगृह्णाति तदा जीवानां मोह: उत्पद्यते। एते एव बन्धमोक्षयो: कारणे स्त:।
एवं बद्धाञ्जलिना चक्रपाणिना स्तुते सति दयानिधि: शङ्कर: ब्रह्मविष्ण्वो: पुरत: प्रादुरभूत्।
विष्णो: शिवप्रार्थना ब्रह्मकृतशिवस्तुतिश्च।
नन्दिकेश्वर: उवाच, “ तदा यथा अभ्रपटलं भित्त्वा चन्द्र: प्रकटीभवति तथा तं तेज:स्तम्भं भित्त्वा कैलासकूटम् इव धवलं वृषभं आरूढ: पञ्चानन: शङ्कर: प्रकटीभूत:। तेन जटाजूटं तदुपरि च बालचन्द्र: धृत: आसीत्। तस्य पञ्च कन्धरा: विषेण कृष्णवर्णा: अदृश्यन्त। तस्य गलप्रदेशे कपालानाम् अरग्वधपुष्पाणां च माला:, नागानां कुण्डलानि च आसन्। तस्य भालप्रदेशे तृतीयनेत्र: राजते स्म। हस्तै: तेन शूलं, कपालं,डमरु:, परशु:, सारङ्ग:,खट्वाङ्गम्, निर्मलं खड्गं नाग: च धृत: आसीत्।गजचर्मण: उत्तरीयं व्याघ्रचर्मण: च अधोवस्त्रं तेन परिधृतम् आसीत्। सर्वदेवै: स्तुत:, सर्वालङ्कारयुक्त: स: यदा प्रादुरभूत् तदा हरि: तद्रूपं दृषृट्वा आनन्देन नर्तनम् आरब्धवान्। तथापि ब्रह्मा मोहग्रस्त: सन् अधिकमेव अज्ञानतां प्राप।
तदा महेश्वर: प्रसन्नया दृशा माधवं अभिनन्दितवान् ब्रह्माणं प्रति च हुङ्कारं कृत्वा रोषं प्रकटितवान्। पुनश्च तेन उक्तम् ,” भवन्तौ अधिकारजनितमदेन स्वस्य मर्यादाया: अतिक्रमणं कृतवन्तौ तथापि तत्र लज्जा मास्तु। मम वैभवं परीक्ष्य हरि: प्रबुद्ध: जात:। एतेन पुरा मम उपहास: कृत: आसीत् स्वपुत्रिकायां रतिश्चापि विहिता। तदर्थं एतस्य पञ्चमं वक्त्रं मया कर्तितम् आसीत्। तथापि इदानीमस्य एष: तृतीय: अपराध: अस्ति। अत: एतस्य ब्रह्मण: कदापि भूतले प्रतिष्ठा न भविष्यति। अपरं च एतेन केतकीच्छदेन कूटसाक्ष्यं दत्तम् इत्यत: मम पूजायामेष: मम मूर्ध्नि कदापि स्थापनं नार्हेत्।
एवम् उभौ शप्त्वा ईश्वर: प्रीत्या विष्णुम् अभाषत , “वत्स, भयं मास्तु यत: मयि भक्तिशालिनि भवति अहं नितरां प्रसन्न: अस्मि। भवान् मम अङ्गात् समुत्पन्न: विशेषत: सात्त्विक: जगति माहेश्वराणाम् अग्रगण्य: अस्ति। अत: परं भवत: मयि भक्ते: हानि: कदापि न भविष्यति प्रत्युत सा प्रतिक्षणं वर्धमाना भवते मुक्तये कल्पेत।”
एवं भक्तमति निरहङ्कारिणि हरौ यदा महेश्वरेण अनुग्रह: विहित: तदा भीतियुक्त: अवनत: ब्रह्मा ईश्वरं वन्दित्वा तं स्तोतुम् आरभत।
.jpeg)