अरुणाचलभक्तमाहात्म्यम्।
गौतमः उवाच--एकदा क्षीरसमुद्रे शेषशय्यायां निद्राणः नारायणः कल्पान्तसमयेपि निद्रायाः नावबुध्यत्। तेन सम्पूर्णं जगत् तमसा आच्छादितम् अभवत्। तदा ऋषयः आत्मस्थं तेजोराशिं निरञ्जनं देवदेवम् उमापतिं ध्यातवन्तः। तदा विश्वस्य रक्षणाय नित्यदेवैः प्रार्थितस्य भगवतः महेश्वरस्य स्तेजोमयशरीरात् अग्निस्फुल्लिङ्गवत् त्रयस्त्रिंशत्कोटिसङ्ख्याकानां देवानां निर्माणम् अभवत्। तैः सर्वैः देवैः गत्वा रमापतिः स्वप्नात् उद्बोधितः। विश्वप्रभातं दृष्ट्वा नारायणः अचिन्तयत् ,'तमसः उद्रेकात् मया अकाले शयनं कृतम्। मम प्रबोधायैव शिवेन स्वरूपमिदं तेजोरूपं प्रकटीकृतं ततश्च स्वयमेव जगन्निर्माणं व्यवसितम्। इदानीं मम अथवा ब्रह्मणः च किं कार्यमवशिष्यते? धिङ्मां निद्रया हृतचेतसम् अनात्मज्ञम्। अहं सर्वदोषनाशनं सर्वाभीष्टप्रदं शम्भुमेव शरणं यामि।'
ततश्च आत्मस्थः ज्योतिर्लिङ्गस्वरूपः शिवः तेन ध्यातः। तं च दुरितच्छिदं शिवं सः मुहुर्मुहुःअष्टाङ्गप्रणिपातेन समतोषयत्। विष्णुरुवाच, " हे त्रिभुनाधीश, त्वमेव देवानां निर्माणं कृत्वा कार्यकारणनियमम् अनुसृत्य तैः स्वेच्छया कार्यं कारयसि। मया तमोग्रस्तेन अकाले शयनं कृत्वा मम जगद्गोपनकार्यम् अनवहितम्। मम अकालशयनेन जातं दोषमपि भवान् न द्रष्टुम् ईहते। भवता स्वयमेव मम जगद्गोपनकार्यस्य भारः स्वस्य कन्धे स्वीकृतः। इदानीम् अहं किं कुर्याम्?"
तस्य अनुतापं दृष्ट्वा करुणामूर्तिः हरः तं प्रायश्चित्तम् आदिशत् " अरुणाचलरूपेण अहं भुवि तिष्ठामि। तस्य अरुणाचलस्य दर्शनमात्रेण भवतः तमसः क्षयः भवेत्। पूर्वकाले यः विष्णुः आसीत् तस्मै मया वरः प्रदत्तः। तदेव एतत् तेजोमयम् अरुणाचलसंज्ञितं लिङ्गम् अस्ति। एतन्मम तेजोरूपं अग्निमयं तथापि लोकरक्षणाय अव्यक्तं भूत्वा तिष्ठति। एतत् अपारगुणवैभवयुतम् । अग्निमये सत्यपि तस्मिन् तस्याग्नेः अन्तर्हितत्वात् नदीनिर्झरमेघजलानाम् अरुणाद्रौ लयः भवति। अरुणाद्रेः माहात्म्यात् अन्धाः दृष्टिमन्तः पादविकलाः पूर्णपादाः अपुत्राः सपुत्राः मूकाः वाचालाः भवन्ति। सर्वसिद्धिप्रदायकं सर्वपापप्रणाशनं सर्वव्याधिविमोचकमिदं क्षेत्रम्।" एवमुक्त्वा हरिं शम्भुः अन्तर्हितः अभवत्।
विष्णुरपि अरुणाचलं प्राप्य तपः अन्वतिष्ठत्। तत्र काननस्थितान् देवान् मिलित्वा ऋषीणां कृते पुण्याश्रमाणां निर्माणं व्यदधात्। साङ्गवेदोपनिषदां पुनः सर्जनं कृतवान्। दिव्यरूपधारिणीनाम् अप्सरसां सङ्कुलमपि निर्माय ताः नृत्यगीतवादित्रैः शम्भुसेवाम् आदिष्टवान् । ततश्च स्वयं ब्रह्मपुष्करतीर्थे स्नानं कृत्वा अरुणाचलस्य प्रदक्षिणं कृत्वा अपापः अभवत् पुनश्च रमासहितं सर्वलोकाधिपत्यं च प्राप्तवान्।
तेजोराशिः भास्करः पुरा असुरैः पीडितः अभवत्। तदा ब्रह्मणः उपदेशात् तेन ब्रह्मनिर्मिते पावने तीर्थे स्नानं कृत्वा प्रदक्षिणं कृत्वा च अरुणाद्रिः अर्चितः। तेन सः असुरविजयं प्राप्तवान् मेरोः प्रदक्षिणायाः अधिकारं च अध्यगच्छत्। सः अन्यनक्षत्रातिशायिनं परमं तेजः अपि अविन्दत्।
त्वष्टा यस्य आकृतिं विरचितवान् आसीत् सः भास्करः पुरा अरुणाद्रिं लङ्घयितुं प्रयत्नं कृतवान्। तदा तस्य हयाः निःशक्ताः अभवन्। शोणाद्रितेजसा सः स्वयमपि नष्टतेजाः अभवत्। ब्रह्मणः उपदेशात् तेन अरुणाद्र्यर्चना कृता। तेन सः पुनः स्वकीयं तेजः आकाशे गमनमार्गं च लब्धवान्। ततः प्रभृति सः आकाशमार्गेण गच्छन् अरुणाद्रिं कदापि नोल्लङ्घयति।
चन्द्रः दक्षप्रजापतेः शापात् शरीरक्षयभाक् अभवत्। सः अपि शिवस्य उपदेशेन अरुणाचलम् अभ्यर्च्य लब्धरूपः अभवत्।
एकदा अग्निः ब्रह्मर्षेः शापात् यक्ष्मव्याधिना पीडितः सन् अरुणाचलसेवां कृत्वा रोगरहितः अभवत्।
पुरा शिवात् लब्धेन वरेण यैः जगतः स्वाम्यं प्राप्तमासीत् तान् वृत्र-नमुचि-वल-पाक-जम्भादीन् दैत्यान् मारयित्वा तत्पातकेन परिक्षीणः इन्द्रः शिवोपदेशानुसारम् अरुणाद्रिम् उपासितवान्। तेन स्वस्य पापस्य क्षालनं कृत्वा अनन्तरं शम्भुप्रीणनार्थं तेन अश्वमेधः कृतः। शम्भुप्रसादेन सः पुनः इन्द्रपदं अप्सरसाङ्कुलं स्वर्गं च अध्यगच्छत्।
महीमण्डलधारकः शेषनागोपि शिवाज्ञया शोणशैलम् अभ्यर्च्य कामरूपधरश्च अभवत्। अन्येपि नागाः सिद्धाः अप्सरसां गणाः दिक्पालकाश्च अरुणाद्रिं पूजयित्वा अभीष्टवरान् लब्धवन्तः।
दक्षयज्ञे वीरभद्रेण नाशिताङ्गाः भृगु-पूषादयः अरुणाचलं सम्पूज्य स्वाङ्गानि लब्धवन्तः। यदा बलिः वामनाय अवनीदानं कृतवान् तदा दानस्य जलधारां निरोद्धुं प्रयतमानः शुक्राचार्यः विष्णोः हस्ते स्थितात् कुशाग्रात् विद्धनेत्रः अभवत्। सः अरुणाद्रिं समभ्यर्च पुनः दृष्टिं प्राप्नोत्। अरुणः शिवाज्ञया एव सूर्यसारथिः अभवत्। प्रतर्दनाख्यः नृपः अरुणाचलस्य स्तुतीं कुर्वाणां कन्यां ग्रहीतुम् ऐच्छत्। सः क्षणादेव तेन कपिमुखः अभवत्। मन्त्रिणाम् उपदेशात् अरुणाचलं अर्चयित्वा सः पुनः सुमुखः अभवत्। पुष्पकनामकः गन्धर्वः शिवभक्तिहीनतायाः कारणात् व्याघ्रमुखतां प्राप्तवान्। ततश्च नारदेन निर्दिष्टः सः अरुणाचलं सम्पूज्य पुनः सुमुखः अभवत्। सप्तर्षयः अपि अरुणाचलपूजनात् शापमुक्ताः अभवन्। शोणाचलस्य निकटे तैः निर्मितं पावनं शुभं तीर्थं दृश्यते।
पङ्गुः ऋषिः अरुणाचलप्रभावात् लब्धपादः अभवत्। सः पादलाभेच्छया यदा अरुणाचलं प्राप्तवान् तदा दारुहस्तपुटौ वहन् जानुभ्यां कृतेन अतिशयभ्रमणेन श्रान्तः सः पिपासार्तः अभवत्। जलपानाय यदा सः शोणनद्याः तटं प्राप्तः तदा तत्रैव नद्याः जलं पिबन् कश्चन मनुष्यः क्रोधं दर्शयित्वा तस्य हस्तपुटौ बलात् आकृष्य नद्याम् अक्षिपत्। उच्चैः अवदत् च "कथं भवान् हस्तपुटौ गृहीत्वा अरुणाचलम् आगतः?" तत्क्षणमेव पङ्गुः अव्यङ्गतां प्राप्नोत्। क्रोधकारी सः मनुष्य अपि तस्मिन्नेव क्षणे अन्तर्हितः अभवत्। ततश्च लब्धपादः ऋषिः स्वगृहं प्रतिनिवृत्तः।
वलीनामकः इन्द्रसूनुः उदयाचलस्य शिखरात् अस्ताचलं गन्तुमुद्यतः अरुणाद्रेः उल्लङ्घयितुम् ऐच्छत्। तथापि तथा कुर्वन् क्षीणशक्तिः सः भुवि अपतत्। इन्द्रस्य उपदेशात् अरुणाचलं समभ्यर्च्य तेन स्वस्य शक्तिः पुनः प्राप्ता।
धर्मात्मा नलराजा एकदा गौर्य्याः वनं प्रविष्टः। तदा तेन सः स्त्रीरूपं प्राप्तवान्। तस्य कारणम् अवगन्तुम् अक्षमः सः स्वस्य पुरोधसं वशिष्ठम् अपृच्छत्। वशिष्ठादेशानुसारं तेन शोणाद्रिः पूजितः ततश्च तेन पुरुषत्वं पुनः प्राप्तम्। सोमः अरुणस्मरणस्य उपदेशात् तथा कुर्वन् ईश्वरानुग्रहेण शापात् मुक्तिं तथा च देवदुर्लभं स्थानमपि प्राप्तवान्। विष्णुः स्वपत्नीविरहस्य दुःखं अपाकर्तुम् भृगुमहर्षेः उपदेशात् अरुणाद्रिम् अर्चयत्। तेन सः स्वस्य अवतारेषु तद्दुःखात् मुक्तिः प्राप्नोत्। सरस्वती, सावित्री, लक्ष्मीः भूदेवी, सरितः च अरुणाद्रिं समभ्यर्च्य सङ्कटमक्ताः अभवन्।
पूर्वदिशि सूर्यः पश्चिमदिशि वरुणः , दक्षिणदिशि विश्वामित्रः तथा च उत्तरायां त्रिशूलदेवता एताः चत्वारः देवताः योजनद्वयं दूरे अरुणाचलस्य सीमाप्रान्ते स्थितेषु पर्वतेषु स्थित्वा शोणाद्रिं नमन्ति।
शोणशैलस्य उत्तरभागे एकः महान् वटवृक्षः तिष्ठति। तस्य छाया सुदीर्घा मण्डलाकृतिश्च अस्ति। तस्य अधः अरुणाचलेश्वरः सिद्धयोगिनः रूपेण उपविशति। देवाः अपि एनं वृक्षं साश्चर्यं पश्यन्ति।
एषः अरुणाद्रिः अष्टसु दिक्षु अष्टदिक्पालैः पूजितः पूजितः भवति। तत्र एकः कामप्रदः बकुलवृक्षः। तस्य अधः ऋषिः वामदेवः तपः आचरति। अगस्त्यः वशिष्ठः च लिङ्गस्थापनं कृत्वा अरुणाद्रिं पूजयन्ति।
पुरा हिरण्यगर्भस्य पुत्रः शोणनदः अत्र तीव्रं तपः अकरोत्। तेन तपसा गङ्गा अपि आगत्य शोणनदी नाम्ना अत्र प्रवाहिता अभवत्। वेणानाम्नी अन्या नदी अरुणाद्रिं परितः प्रवहति। अरुणाद्रेः वायव्यभागे वायुतीर्थे स्नानं कृत्वा मरुत् जगत्प्राणत्वं प्राप्तवान्।
एतम् अरुणाद्रिं परितः योजनद्वयं भूमिः शिवभूमिः इति नाम्ना ख्याता। तत्र वसतां जनानां मरणसमये शिवकृपया मुक्तिलाभः निश्चितः।
