नन्दीश्वरकृतं शिवक्षेत्रवर्णनम्।
भगवान् व्यासः आह– नैमिषारण्ये वसन्तः मुनयः सूतम् ऊचुः–-सर्वेषु शैवस्थानेषु यदुत्तममं तत्स्थानम् भवान् अस्मान् कथयतु। सूतः उवाच–पुरा अस्मिन्विषये मार्कण्डेयर्षिणा नन्दीश्वरमुखात् यच्छ्रुतम् तदहं वक्ष्यामि।
मार्कण्डेयः उवाच–हे नन्दीश्वर! भवतः मुखात् मध्यमेश्वरस्य महिमा मया श्रुतः। हे देवदेव यत्तव अविदितं स्यात् तादृशं सर्वेषु आगमेषु पुराणेषु अपि च सम्पूर्णे भूतले किञ्चिदपि नास्ति। अतः त्वयि बद्धादरः अहं भवन्तं यत्पृच्छामि तद्भवान् कथयितुम् अर्हति।
पुरा भवता मनुष्यकर्मणः त्रिविधं फलं प्रोक्तम्-ऐहिकं सुखं, स्वर्गभोगः कैवल्यम् चेति। तथापि एतेषु प्रथमद्वयं पुण्यक्षयात् नष्टं भवति। तृतीयं कर्मसु अनाश्रितम् अतः तन्न कदापि क्षयम् एति। कैवल्यस्य सिद्धिः ज्ञानेन भवतीति भवता कथितम्। तथापि देहभृतां तज्ज्ञानम् अत्यन्तं दुर्लभं वर्तते। यत्र मानवाः तत् ज्ञानं शास्त्रपठनेन विनापि केवलं शिवपूजनात् वा भस्मरुद्राक्षादिधारणात् वा सकृदेव ईश्वरस्मरणात् वा अधिगच्छेयुः तादृशं स्थानं भूतले किमस्ति तत् कथ्यताम्। अबुद्धिपूर्वकं यत्र वासं कुर्वाणाः मानवाः किञ्च स्थावराः तिर्यग्योनयः अपि श्रेयः अधिगच्छेयुः तत्स्थानं किम्?
एवं नन्दिकेश्वरम् अभिधाय मार्कण्डेयः तम् आदरपूर्वकं प्रणनाम।
नन्दीश्वरः उवाच – हे मार्कण्डेय ईश्वरेण जीवानां कर्मानुसारं विविधयोनिषु तेषां जन्मानि कल्पितानि सन्ति। यत्त्वं श्रोतुमिच्छसि तत् तेषां सर्वेषां हिताय भवेत् इति भाति । अन्यथा जीवाः विशुद्धज्ञानेन विना कल्पशतैरपि जन्ममरणचक्ररूपात् संसारात् मुक्तिं प्राप्तुं न शक्नुयुः। पूर्वं मया सर्वाणि शिवक्षेत्राणि तत्तत्स्थाने वासं कुर्वाणानां मुनीनां च विषये प्रसङ्गवशात् कथितम् आसीत्। पुनः तत्सर्वमहं श्रावयामि।
शिवभक्तेषु केचन मुनयः गङ्गा, सरस्वती, कालिन्दी (यमुना), शोणनदी,नर्मदा, गोदावरी,गोमती, हैमवती, कृष्णा, तुङ्गभद्रा,उपवेणी, शक्तिः, कावेरी, वेगवती,ताम्रपर्णी, मुरला, ऐरावती, यातुकाङ्क्षिकक्षेत्रे, कन्या, कुमारी,तमसा, वरुणा,मन्दाकिनी, शिप्रा, सरयूः, विपाशा, शतद्रुतिः, चर्मण्वती, भीमरथी,कौशिकी,भैरवी, मालिनी, गन्धवती, वरदा, तापी, पातालगङ्गा, शरावती,लोहती, कालमा,वितस्ता, चन्द्रभागा, सुरलोपा, पयोष्णी, मधुमती, पिनाकिनी एतासां नदीनां तटे निवसन्ति। केचन समुद्रतटे, सामुद्रद्वीपेषु,नदीमुखेषु, नदीसङ्गमेषु, बिन्दु-पम्पा-मानस-अच्छोद-इन्द्रद्युम्न-मणिकर्णिकादिसरसां तटेषु वा वासं कुर्वन्ति।
एतेषु क्षेत्रेषु वाराणसी काशी वा नामकं पञ्चक्रोशात्मकं क्षेत्रं विशिष्टम् अस्ति। तत्र अविमुक्ताख्यो शिवः विशालाक्षीदेव्या अर्चितः भवति। तत्रैव कपालमोचनादिप्रसिद्धतीर्थानि कालभैरवश्च राजते। तस्मिन् क्षेत्रे मृताः जीवाः रुद्रत्वं प्राप्नुवन्ति। गया तथा प्रयागम् एते क्षेत्रेपि सर्वसिद्धिदे स्तः। तत्र पिण्डदानेन पितरः तुष्यन्ति। नॄणां सर्वसिद्धिदं बदरिकाश्रमनामकं क्षेत्रं विद्यते यत्र देव्या सह त्र्यम्बकः नरनारायणाभ्याम् अर्चितः आसीत्। नैमिषारण्यक्षेत्रे सारङ्गधारिण्या देव्या सह महेश्वरः राजते। अमरेशनामकं स्थानमपि सर्वसिद्धिदम् अस्ति। तत्र ओंङ्कारेश्वरः चण्डिकादेव्या सह विराजते। पुष्कराख्ये प्रसिद्धक्षेत्रे पुरुहूताख्या देव्या सह रुजोगन्धिः नाम्ना ईश्वरः राजते। आषाढीनामके स्थाने आषाढीशः रतीशादेव्या सह वासं करोति। दण्डिमुण्डीसमाख्ये स्थाने मुण्डीमहादेवः दण्डिका देवी च विराजेते। लाकुलनामके स्थाने लाकुलीशः देवः अनङ्गा देवी च स्तः। भारभूतिः इत्यत्र भारनाम्ना शम्भुः भूतिनाम्ना च महेश्वरी वर्तेते। एवम् अरालकेश्वरे सूक्ष्मो देवः सूक्ष्मा च देवी गयाक्षेत्रे शङ्करः मङ्गलादेवी च कुरुक्षेत्रे स्थाणुः देवः स्थाणुप्रिया च देवी, कनखलक्षेत्रे उग्रो देवः उग्रा च देवी, तालकक्षेत्रे स्वयम्भूः देवः स्वायंभुवी च देवी एवं विविधक्षेत्रेषु शिवशक्त्योःवासः अस्ति।
अट्टहासक्षेत्रे सूर्यः शम्भुं पूजयित्वा सफलमनोरथः अभवत्। कृत्तिवासक्षेत्रे निवासकरणं शिवाय कैलासनिवासादपि अधिकं रोचते। श्रीशैलक्षेत्रे सृष्टिनिर्मित्यर्थं मल्लिकार्जुनः भ्रमराम्बा च एतयोः पूजनं ब्रह्मदेवेन कृतम्। कालाहस्ती इत्यत्र व्यासेन शिवः पूजितः। काञ्चीक्षेत्रे एकाम्रेश्वरः देवः कामाक्षी च देवी स्तः। तपस्यन्त्या पार्वत्या आलिङ्गितः शिवः तत्र तस्याः वलयेन अङ्कितः अभवत्। व्याघ्रपुरे नृत्यन्तं परमेश्वरं पतञ्जलिः उपास्ते। श्वेतारण्यनामके स्थाने ऐरावतःशिवं पूजयित्वा स्वस्य भग्नं दन्तं पूर्णरूपेण पुनः प्राप्तवान्। सेतुबन्धनामके स्थाने रामः पापनाशकं रामनाथाख्यं लिङ्गं प्रतिष्ठापितवान्। जम्बूकेश्वरे शिवः जगद्रक्षायै पूज्यते। मणिमुक्तानद्याः तीरे वृद्धाचलः , मध्यार्जुनः, सोमनाथः, एतेषु क्षेत्रेषु शिवः सर्वदा भक्तसन्निधः एव वर्तते। सिद्धवटक्षेत्रे सिद्धाः शिवलिङ्गं पूजयन्ति। कमलालयक्षेत्रे वल्मीकेशं शिवं सम्पूज्य विष्णुः लक्ष्मीं भार्यारूपेण प्राप्तवान्। कङ्काद्रिक्षेत्रे ब्रह्मदेवः केशवश्च मोक्षार्थं महादेवम् उपासाते। द्रोणपुराख्ये क्षेत्रे कलियुगस्य क्षये प्रलयसमुद्रे क्षुब्धे जाते शिवः नौकाम् आरोहति । ब्रह्मपुरक्षेत्रे पुष्करिण्याः तीरे इन्द्रजित् शिवलिङ्गस्य स्थापनां कृतवान्। श्रीकोटिः इत्याखे क्षेत्रे पापनाशार्थं जनाः शिवम् अर्चयन्ति। परशुरामेण गोकर्णक्षेत्रे शिवाराधना कृता। त्रिपुरान्तकक्षेत्रे नरकभयात् शिवः तारयति कालाञ्जनक्षेत्रे च संसारज्वरनाशकः भवति। प्रियालवणक्षेत्रे उपमन्यु-ऋषेः याचनया शिवेन पयःसमुद्रः निर्मितः। प्रभासक्षेत्रे कृष्णबलरामाभ्यां पूजितः चन्द्रशेखरः ताभ्याम् अक्षय्यं फलं दत्तवान्। वेदारण्यक्षेत्रे दक्षेण अघनाशार्थं शिवार्चना विहिता। हेमकूटस्थाने शिवं पूजयतां जनानां पुनर्जन्मभयं न वर्तते। वेणुवननामके पापनाशके क्षेत्रे गौरी मुक्तामणिरूपेण वेणुलतायाम् आविर्बभूव।जालन्धरक्षेत्रे जलन्धरः तपस्यां कृत्वा शिवगणानाम् आधिपत्यं प्राप्तवान्। ज्वालामुखक्षेत्रे ज्वालामुखीदेवी कालरुद्रं पूजितवती। भद्रवटक्षेत्रे गणपतिना शिवार्चनं कृतम्। न्यग्रोधारण्ये देवः काल्या सह प्रचण्डताण्डवं कृतवान्। गन्धमादनक्षेत्रे हनुमता मृत्युञ्जयशिवः अर्चितः। गोपर्वते शिवार्चनं कृत्वा पाणिनिः वैय्याकरणानाम् अग्रणीः अभवत्। वीरकोष्ठस्थाने वाल्मीकिमुनिः शिवतपसा कवित्वं प्राप्तवान्। महातीर्थक्षेत्रे स्वयं शम्भुः ब्रह्ममुख्यान् देवान् अध्यापितवान्। मयूरपुरक्षेत्रे शिवम् अर्चयित्वा इन्द्रः वज्रं प्राप्तवान्। वेगवत्याः तटे श्रीसुन्दरं नामकं तेजस्वि शिवक्षेत्रम् अस्ति। कुम्भकोणनाम्नि शिवक्षेत्रे माघमासे अघशमनाय स्वयं गङ्गायाः आगमनं भवति। गोदावर्याः तीरे त्र्यम्बकक्षेत्रे शिवार्चया कुमारः तारकासुरं मारयितुं शक्तिं प्राप्तवान्। श्रीपाटलक्षेत्रे त्रिशङ्कुना जातिशुद्ध्यै शिवः अर्चितः। कदम्बपुर्याख्ये क्षेत्रे भवतः कृते शम्भुना त्रिशूलेन यमः विद्धः। अविनाशक्षेत्रे शिवः पतिकण्ठार्थं सान्निधः बभूव। रक्तकानने मित्रावरुणयोः कृते शिवः वरप्रदः अभवत्। हाटकेश्वरक्षेत्रे विरोचनपुत्रः बलिः स्वपदस्य पुनःप्राप्त्यर्थं शिवम् उपास्ते। शम्भोः प्रिये आवासे नाम कैलासे यक्षेश्वरः कुबेरः तम् अभ्यर्चया प्रसादयति।
