पार्वतीमहिषासुरसङ्ग्राम:।
यदा पार्वती तपश्चर्यां प्रारभत तदा महिषस्य रूपं धृतवतः असुरात् पीडिताः भयविह्वलाः इन्द्रप्रमुखाः देवाः ताम् आगत्य कृताञ्जलयःभूत्वा ऊचुः--
एषः महिषासुरः स्वर्गम् स्वाधीनं कृत्वा तत्रत्यान् विविधभोगान् उपभुञ्जानः रमते। सः अप्सरोभिः सह नन्दनवने क्रीडां कुरुते। इन्द्रस्य ऐरावतनामकं गजम् उच्चैःश्रवसं अश्वं यमस्य वाहनं महिषं तथा च अग्नेः वाहनं मेषमपि सः वशम् आनीतवान्। ऐरावतम् अधिष्ठाय सः देवाङ्गनाभिः सह भ्राम्यति। यमस्य महिषेण सः स्वस्य शकटं वाहयति। अग्नेः मेषं सः स्वस्य पुत्राय आरोहार्थं दत्तवान्। वयं तस्मात् भीताः सेवकाः इव तस्य आज्ञापालनाय विवशाः। भगवतः शिवात् लब्धेन वरेण एषः असुरः परमबलवान् भूत्वा बलवतां देवानां कृते अपि दुर्जयः जातः अस्ति। महिषरूपं धारयतः अस्य शृङ्गाभ्यां हतः समुद्रदेवः अपि नित्यं तस्मै रत्नोपहारान् दत्त्वा तं प्रीणयितुं प्रयतते।सः शृङ्गाभ्यां पर्वतानपि उत्क्षिप्य पांसुभिः क्रीडति। एषा सर्वा शम्भोः अगम्यलीला एव। तथापि भवती शिवस्य पराशक्तिः। अतः स्वतेजसा एनं हत्वा त्वयैव अस्माकं रक्षणं विधातव्यम्।
एवं भयार्तानां देवानां विज्ञप्तिं श्रुत्वा प्रसन्नचित्ता देवी तान् अभयं दत्त्वा अवदत् ," हे अमराः, तपसि स्थितया मया शरणागतानां रक्षणं तु करणीयमेव। निरागसः तु हननं नैव युज्यते। तथापि ये धर्मभेत्तारः ते शलभवत् मरणं ययुः एवः। भवतां शत्रुः निश्चयेन क्षीणः भविष्यति। अहम् उपायेन तम् आकृष्य मारयिष्ये।"
देव्याः तद्वचनं श्रुत्वा निर्भयाः भूताः प्रसन्नचित्ताः देवाः प्रतिन्यवर्तन्त। ततः सा कमललोचना देवी मोहकारकं रूपं धृतवती। अरुणागिरेः चतसृषु दिक्षु तया रक्षार्थं चतस्रः बटुकाः स्थापिताः। यदा देवी कैलासशिखरात् आगतवती आसीत् तदा ताम् अनुसरन्त्यः चतस्रः मातृकाः अपि तस्याः सेवार्थं भूतलम् आगताः आसन्। दुन्दुभिः, सत्यवती, अनवमी तथा च सुन्दरी इत्येतानि तासां नामानि। सा तान् आदिष्टवती," केवलम् अरुणाद्रेः पूजनार्थम् आगताय अतिथये क्षुत्पिपासाकुलं जनाय वा अत्र प्रवेशाय अनुमतिः देया " इति। अरुणाचलस्य सीमावर्तिप्रदेशेषु बलवतः वीरान् रक्षणार्थं योजयित्वा गौतमाश्रमस्य समीपे देवी तपश्चरणम् आरब्धवती।
पार्वत्यां तपश्चचरणे रतायां काले वर्षणमभवत्। सस्यानि द्रुमाश्च सुष्ठु अवर्धन्त। तस्याः तपश्चरणेन
जातिविरोधिनः प्राणिनः स्वस्य वैरं विस्मृत्य एकत्र न्यवसन्। अरुणाचलं परितः योजनद्वये स्थितानां प्राणिनां कृते तस्याः आश्रमः शरणस्थलम् अभवत्। चतुर्भिः बटुकभैरवैः चतसृषु दिक्षु अरुणाद्रिः सम्यक् रक्षितः येन कस्यापि भयं नोत्पद्यत। तत्र व्याधिपीडा नारीणां उत्पीडनमपि नासीत्। तेन मुनयः कृतार्थाः भूत्वा तां भूरि प्रशंसितवन्तः। तत्र देव्या दिवानिशं शिवसन्तोषजनकं घोरं तपः आचरितम्।
तदा मृगयां कर्तुम् अरुणाद्रेः काननानि विचरन् महिषः महता सैन्येन सह तत्रागत्य मृगाणां यूथान् हन्तुम् आरब्धवान्। तस्य बलिभिः धन्विभिः वीरैः अनुगम्यमानाः मृगाः भयात् देव्याः आश्रमम् आगताः। तदा बटुकवीरैः आश्रमप्रवेशात् ते निवारिताः। तस्य कारणं पृष्टे सति बटुकाः अब्रुवन् ,"अत्र एका सुन्दरी तपश्चरणरता अस्ति। अत्र केनापि बलात् प्रवेशः न करणीयः यतः एतत् मुनिभिः सेवितं शरणागतानां रक्षकं तपःस्थानम् अस्ति " इति।
बटुकवीराणां वचनं समादृत्य प्रतिनिवृत्ताः दैत्याः पुनः पक्षिरूपं धृत्वा आश्रमं प्रविश्य आरामवृक्षेषु स्थितवन्तः। देव्याः अनुपमं लावण्यं दृष्ट्वा प्रभावितास्ते गत्वा स्वस्वामिने सर्वं निवेदितवन्तः।
तेन कामपीडितः भूत्वा महिषासुरः वृद्धवेषं धृत्वा आश्रमं प्रविष्टः। अतिथिसत्कारं स्वीकृत्य गतश्रमः इव आत्मानं दर्शयन् सः देव्याः सखीः अपृच्छत् ,"किमर्थम् एषा कन्या तपः आचरति ? " इति।
ताः उक्तवत्य, "एषा बलवतः पत्युः प्राप्त्यर्थम् अत्र चिरं तपः आचरन्ती तिष्ठति। तथापि तस्याः वरः नैव प्रसीदति।" तच्छृत्वा महिषः विहसन् अवदत् " हे तपस्विनि बाले, मम वचनं शृणु। तव तपसः एव फलमिमिदं यदहम् अत्रागतोऽस्मि। अहं सुरवन्दितः महावीरः दैत्यराजः महिषः अस्मि। सर्वं जगत्त्रयं मया बाहुबलेन परिगृहीतम्। अहं कामरूपः सर्वान् इष्टभोगान् दातुं समर्थः। अहं कल्पवृक्षान् अत्रानीय सर्वेषां प्राणिनां तपसः फलं दातुं शक्नोमि। किं च विश्वकर्माणं सहस्रं कामधेनूः अपि क्षणाभ्यन्तरे निर्मातुं समर्थः अस्मि। मम पार्श्वस्थितैः नवप्रकारकैः निधिभिः अहम् सर्वान् अपेक्षितार्थान् दातुं क्षमः। अतः भवती मामेव भजतु। "
तस्येदं वचः शृत्वा मौनं विमुच्य देवी विहसन्ती इव उक्तवती," अहं बलवतः एव भार्या भविष्यामि। यदि भवान् बलवान् तर्हि मे स्वस्य बलं दर्शयतु अन्यथा स्वस्य स्त्रीस्वभावम्
अनुमन्यताम्।"
तस्या तद्वचः श्रुत्वा महिषः उच्चैः ननर्द। ग्रहणेच्छया आगच्छन्तं तं महिषं दृष्ट्वा देव्या स्वस्य दुरासदं ज्वलन्तं दुर्गारूपं आविष्कृतम्। तां ज्वलन्तीं महामायां पुरतः दृष्ट्वा महिषः अपि स्वस्य आकारं वर्धयित्वा मेरुपर्वतसदृशः अभवत्। शृङ्गाभ्यां पर्तशिखराणि उत्पाटयन् सः स्वस्य दिगन्तपूरिणीं सेनाम् आह्वयत्। तां कालाग्निरूपिणीं दुर्गां ब्रह्मादयः देवा स्वस्य आयुधैः सन्नद्धाम् अकुर्वन्। विष्णुना पञ्च सदाशिवेन दश ब्रह्मणा चत्वारि आयुधानि तस्यै दत्तानि। दिक्पालाः, समुद्राः अन्ये च सुराः स्वीयानि शस्त्राणि आभरणानि च तस्यै दत्त्वा तां पूजितवन्तः।
ज्वलदायुधसञ्चयैः विश्वं तपन्तीं घोरां सिंहवाहिनीं महामायां दुर्गां दृष्ट्वा भयभीतः सन् महिषः पलायनं कृतवान्। तदा देव्या चिन्तितम्--मया केनापि उपायेन एषः हन्तव्यः। तदर्थं दूतं सम्प्रेष्य मृदूक्तिभिः तम् आकृष्य अनन्तरं तस्य कोपं जनयिष्यामि येन एषः माम् अभिमुखः भवेत्। ये अधर्मिणः सन्ति ते धर्मवचः श्रुत्वा सत्वरं कुप्यन्ति येन तेषां जीवनक्षयः भवति। अथवा यदि मदुपदेशेन एषः धर्मबुद्धिः सन् शान्तः भविष्यति तर्हि तेन धर्मरक्षणमपि भवेत्। तपस्यद्भिः जनैः सदा कोपः त्यजनीयः तथापि यदि धर्महानिः भवेत् तर्हि सा न सोढव्या। तदा कोपः एव श्रेष्ठः।
एवं सञ्चिन्त्य देवी वानरमुखं सुरगुरुनामकं मुनिं महिषं प्रति दूतरूपेण प्रेषितवती। सा सुरगुरुम् अवदत्, " हे महर्षे मम मायाशक्त्या युक्तः भूत्वा भवान् महिषं एतद्वचनं श्रावयतु।--हे असुरेन्द्र अरुणाद्रेः समीपे प्रजानां पीडनं मास्तु यतः अत्र दुर्मनसां वीर्यं क्षणात् नश्यति। अस्मिन् अरुणाद्रौ कलेः उपतापः असुरैः च पीडनम् अशक्यमेव। पूर्वकृतपुण्येन भवान् बलवत्तमः जातः अस्ति। पूर्वतपसः बलात् भगवतः शिवेन दत्ताः सन्ति भवतः विभवाः। तथापि स्वस्य दोषैः भवान् दावाग्नौ पतितः द्रुमः इव, शलभः इव अरुणाचलाग्नौ पतित्वा नशिष्यति। तां तपस्यन्तीम् अबलाम् अहं जानामि। सा अरुणाद्रेः रक्षणे तिष्ठति अतः सा दुर्जया।"
" अथवा अन्यैः युक्तिवचनैः भवता सः असुरः सैन्यसहितः ममाभिमुखः कर्तव्यः। तं भवान् बोधयेत् यत् मम तेजसा बलगर्वितस्य तस्य ससैन्यं नाशमहं क्षणाभ्यन्तरे एव करिष्ये।मम शस्त्रैः परिकृत्तस्य तस्य ससैन्यस्य मुक्तिः अत्रैव भविष्यति। "
" हितकामिभिः निवार्यमाणः सन्नपि जनः पूर्वकर्मभिः प्रेरितः सन् अवशः भूत्वा कर्म करोति तत्फलं च विन्दते। अतः धर्मपालने महिषस्य बुद्धिः भवेत् एतादृशः बोधः भवता तस्मिन् समुत्पाद्यः।"
एवमुक्तः सुरुगुरुः महिषं सर्वं श्रावितवान्। तच्छृत्वा क्रोधसमाकुलः महिषः तं दूतमेव भक्षयितुम् उद्यतः। तथापि मायाबलात् मुनिः तस्मात् रक्षितः स्वस्थानं च ययौ । तदनन्तरं स्वस्य सर्वं सैन्यमाहूय महिषः युद्धार्थं प्रस्थितः। युगान्तसमयस्य उद्वेलनम् इव तस्य सैन्यम् अरुणाद्रिं परिवेष्टितवत्। तस्य प्रचण्डं सैन्यं दृष्ट्वा देवी स्वतेजसा शूरान् घोरान् च भूतगणान् सृष्टवती। 'भवान् केवलं तिष्ठतु। अहं सकलम् असुरसैन्यं ग्रसिष्यामि।' इति ते परस्परम् अभाषन्त। तदा योगिनीगणैः सह भगवती शङ्खनादं कृतवती। महिषस्य सैन्यं स्वस्वामिने स्वस्य शौर्यं प्रदर्शयन् भूतगणेषु अपतत्। असुरैः सर्वेभ्यः दिग्भ्यः देवीमुद्दिश्य शरपातः आरब्धः। तथापि तान् सर्वान् शस्त्रान् सा लीलया निवारितवती। देवीसैन्ये विद्यमानैः डाकिनीयोगिनीमातृकागणैः पिशाचप्रेतराक्षसैश्च दैत्यसैनं भक्षितं, चूर्णीकृतं, भिन्नं, दारितं च। असुरसैन्यस्य रुधिरमांसे भक्षयित्वा सन्तुष्टाः भूतगणाः रणभूमौ पतितशत्रुशरीरेषु मध्ये आनन्देन नृत्यम् अकुर्वन्।
