विष्णुना तेजोलिङ्गमूलस्य शोधनम्।
तदा ब्रह्मदेव: एतस्य अग्रम् अहं पश्यामि इति विनिश्चित्य अन्तरिक्षं लङ्घयितुं क्षमं हंसरूपं धृत्वा उदडयत। विष्णुरपि वसुधां भेत्तुं क्षमं दृढशरीरं वराहरूपं धृत्वा तेज:स्तम्भस्य मूलं ज्ञातुं स्तब्धरोमा: भूत्वा पृथिवीम् खनितुम् आरब्धवान्। यदा स: पोत्रेण (पोत्रं वराहमुखाग्रम्) अवाङ्मुख: सन् भूमिम् अखनत् तदा स: तं महातेज:स्तम्भम् नमन्निवादृश्यत। गभीरं कठोरं कण्ठघोषं कुर्वन् स: पातालं प्रवेष्टुं प्रायतत। तथापि यत्र यत्र स: सदम्भं प्रविष्टवान् तत्र तत्र तमेव अग्निस्तम्भं स: ददर्श। तेन विदारितेभ्य: महीरन्द्रेभ्य: शेषाद्या: सर्पा: अग्निस्तम्भस्य ज्वाला: इव उदतिष्ठन्। सुमेरो: मूले स्थित: पृथिव्या: आधारभूत: आदिकच्छप: अपि तेन दृष्ट:। परस्परेभ्य: दूरे तिष्ठन्त: मदमत्ता: दिग्गजा: स्वस्य भारं वहन्त: अदृश्यन्त। यस्या: अनुग्रहेण शेषकूर्मादय: पृथिव्या: भारं वहन्ति ताम् आधारशक्तिमपि स: व्यलोकयत्। स: अतलादीन् सप्त अधोलोकान् तत्रत्यान् विविधाकारान् जीवानपि सविस्मयम् अपश्यत्। अनन्तरं स: विरोचनस्य भोगवतीनाम्नीं पुरीं स: प्राप्त:। ततश्च अतिगह्वरान् दैत्यावासानपि स: प्रविष्ट:। मुग्धचित्त: सन् स: ‘इदं दृष्टम् इदं दृष्टम्’ इति वदन् अग्रे अग्रे गतवान्। तथापि क्षीरसमुद्रस्य अध: अपि स: विस्तृण्वन् तेजोस्तम्भम् ऐक्षत्। एवं सम्पूर्णां पृथिवीं खात्वा जलराशिं च दृष्ट्वा अपि तेन तस्य अग्निस्तम्भस्य मूलं नावलोकितम्। एवं तस्य खनत: वर्षसहस्राणि व्यतीतानि। तदा भुग्नखुर: चूर्णितदंष्ट्र: विध्वस्तशरीर: भग्नपोत्र: भग्नदर्प: स: वराह: श्रान्त्या नि:श्वसन् असम्पूर्णप्रतिज्ञ: सन्नपि प्रतिनिवर्तितुम् ऐच्छत्। तथापि स: पदात् पदमपि चलितुं न समर्थ: आसीत्। तदा पातालान्तरवर्तिन: श्रमान्धनेत्रस्य तस्य कृते पुन: स एव तेज:स्तम्भ: पथप्रदर्शक: अभवत्। तेन स: शूकर: प्रभूतस्वेद: अपारसमुद्रात् कथं कथञ्चित् उत्तीर्य अरुणाचलवनं प्राप्त:। ‘अस्य तेजोराशे: मूलं मया नैव अवेक्षितम्। तस्य स्रष्टापि नावलोकित:। अत: अहं शिवमेव शरणं गच्छामि। तं विश्वाधिकं देवं चिरं विस्मृतवानहम्। तेनैव एष: दैवदुर्विपाक: समुद्भूत:।’ इत्थं विचिन्त्य स: पुन: तमेव देशं प्राप्तवान् यत्र स: तेज:स्तम्भ: तस्य पुरत: प्रादुर्भूत: आसीत्।
ब्रह्मणा लिङ्गोपरिभागशोधनम्।
तं तेजोमयं स्तम्भम् अनुसरन् हंसरूप: ब्रह्मा निरालम्बे नभस्तले उदपतत्। अतीव वेगेन गच्छन् स: अक्ष्णो: मर्यादाया: पारं गत: अत: केवलं दीर्घरेखा इव अदृश्यत। स: क्रमश: मेघान् तारागणान् च अतिक्रम्य गतवान्। तस्य वेग: वायो: मनस: वा वेगमपि अत्यरिच्यत। तथापि यथा यथा स: उदगच्छत् तथा तथा स: तेज:स्तम्भ: विस्तारमेव याति स्म। मरुतां सप्त स्कन्धान् अतीत्य ब्रह्माण्डात् परमपि स: तेज:स्तम्भ: विस्तृत: आसीत्।
श्रान्तपक्ष: स: हंस: चिन्तयितुमारेभे, “अहमस्य स्तम्भस्य शीर्षं द्रष्टुं नाशक्नवम्। तर्हि विष्णो: पुरत: अहं कथं स्थातुं शक्ष्यामि? मया मम प्रतिज्ञा न निर्व्यूढा तर्हि किं मम दीर्घकालं प्राणरक्षणेन? मानो हि महतां धनम् अस्ति। प्रतिवादी आर्जवेन जेतुं न शक्य: अत: छद्मना अहं विष्णुं तिरस्कुर्याम्। एवं यदा स: व्याकुलात्मना चिन्तयन्नासीत् तदा आकाशे स: शुभ्रामेकां रेखाम् अपश्यत्। यदा तद्वस्तु समीपम् आगतं तदा तत् केतक्या: पत्त्रं विद्यते इति ब्रह्मणा ज्ञातम्। तत् केतकीपत्त्रं यद्यपि पर्युषितम् आसीत् तथापि प्रकृत्या तत् सौरभं वहति स्म। तद्यदा ब्रह्मणा गृहीतं तदा तत्सचैतन्यमिव अब्रवीत् , “ भवान् मां किमर्थम् अगृह्णात्? अहं शतसहस्रवर्षाणि आकाशमार्गेण पतन् अस्मि अत: विश्रामम् इच्छामि। भवान् मां मुञ्चतु।”
ब्रह्मा तं वर्धमानं तेज:स्तम्भम् अवलोक्य श्रमाक्रान्त: हताशया नीचताम् आश्रित्य अचिन्तयत् , “अनिर्व्यूढप्रतिज्ञ: अहं एतस्य तेजोराशे: परीक्षणे छिन्नपौरुष: अस्मि। मम पक्षौ भग्नौ जातौ इव। मम दृष्टिरपि अन्धायते। मम अवयवा: नष्टप्राया: जाता: अत: वेगेन अहं अध: पतामि। मम प्राणा: इदानीं निश्चयेन निर्गमिष्यन्ति। मम हृदये विद्यमाना अहङ्कारग्रन्थि: सत्वरं त्रुटतु विष्णुना सह स्पर्धापि शीघ्रमेव समाप्ता भवतु। एष: तेजोराशि: आकाशम् उल्लङ्घ्य गच्छति पुनश्च नास्य पारं लभ्यते। एतस्य नाहम् अथवा नारायण: कारणं अन्ये महेन्द्रप्रमुखा: सुरा: तु दूरमेव तिष्ठेयु:। इदानीम् अग्रे उत्पतितुं न मे शक्ति: अस्ति।” एवं विचिन्त्य स: तं केतकच्छदं पप्रच्छ, “भवान् क:? कुत: अत्र प्राप्तवान् ?” स: अब्रवीत् , “अहं सचेतन: केतकच्छद: अस्मि। शिवाज्ञया तेज:स्तम्भरूपस्य शम्भो: शिरसि अहं चिरकालं स्थितवान्। इदानीं भूलोके वासेच्छया अत्र आगत:। केतकच्छदस्य एनं वचनं श्रुत्वा आश्वस्त: सन् ब्रह्मा तम् अपृच्छत् , “वद तर्हि कियती अन्तरे एतस्य तेज:स्तम्भस्य शीर्षम् अस्ति?”
.jpeg)