अरुणाचलमाहात्म्यम् (उत्तरार्ध:)--३



कर्मविपाकवर्णनम्।

नन्दिकेश्वर उवाच—अस्मिंल्लोके शुद्धसत्वगुणोपेतः मनुष्यः सुदुर्लभः अस्ति। रजोगणतमोगुणोपेताः एव सुलभतया दृग्गोचराः भवन्ति। सात्विकः मनुष्यः तस्य पुण्यशीलत्वात् मुक्तिं प्राप्नोति। अन्येषां कर्मणां वैचित्र्यात् तत्तत्कर्मफलभोगार्थं ब्रह्मदेवेन विविधानां नरकाणां निर्मितिः कृता। 


ब्रह्महत्यां कुर्वन् मनुष्यः प्रेत्य महारौरवनामकं नरकं प्राप्नोति अथवा गर्दभस्य, शुनः, शूकरस्य अथवा मनुष्येषु चण्डालस्य जन्म प्राप्नोति। सुरापानेन सः रौरवनामकं नरकम् अथवा कृमिकीटपतङ्गतां प्राप्नोति। ब्राह्मणधनस्य अपहारात् सः ब्रह्मराक्षसः भवति। मनुष्यः यद्यत् चोरयेत् अन्यजन्मनि तत्तस्य शून्यं भवेत्। गुरुभार्यागामी नरके खङ्गपत्रवने पीडितः भवति पुनश्च नपुंसको भूत्वा जायते। परदारगामी कालसूत्राख्ये नरके पतित्वा यमसेवकैः लोहदण्डैः पीडितः भवति। यः अन्यगृहादीन् अग्निना ज्वखलयति सः अग्निदः घोरनामके नरके पतति। अन्यस्मै विषं यच्छन् गरदः इत्युच्यते। सः सुघोरनामके नरके पतति। पिशुनः महाघोरनामके धर्मनिन्दकः अवीचिनामके मित्रद्रोही करालनाम्नि, हिंसातत्परः भीमनामके, गुप्ततया पापमाचरन् संहारनामके, असत्यवादी भयानकनामके, कूपक्षेत्रादीनाम् अपहर्ता असिघोरनामके, परद्रोही वज्रनामके, मांसाशनं कुर्वन् तरलनामके, मातृपितृद्रोही तीक्ष्णनामके, जपनाशकः तापननामके, अश्वघाती निरुच्छ्वासनामके गोहत्यां कुर्वन् दारुणनरके, भ्रूणहत्यां कुर्वाणः चण्डे, स्त्रीहत्याकृत् कूलकनामके , देवधनापहारी दहननामके, परधनापहारी घोरघोरे नरके पतति। 


यमदूताः एतान् पापिजनान् पाशैः बध्नन्ति, दण्डैः ताडयन्ति , शङ्कुभिः विध्यन्ति च। लोहचञ्चुयुक्ताः कङ्कनामकाः पक्षिणः तीक्ष्णदंष्ट्राः सर्पाः, शुनकाः, व्याघ्राः अन्येऽपि हिंस्राः पशुपक्षिणः तान् दशन्ति। नरकेषु पापिनां देहाः शस्त्रैः शकलीक्रियन्ते, दह्यन्ते, कशाभिः ताड्यन्ते, तैलपूरिते कटाहे पच्यन्ते, सूक्ष्मसूचिभिः तुद्यन्ते। यमदूताः पापिभिः दुर्वहान् भारान् वाहयन्ति। 


नरकभोगात् अनन्तरं ब्राह्मणघाती क्षयरोगी भूत्वा , सुरापः कृष्णदन्तकः भूत्वा, स्वर्णस्य अपहर्ता कुनखः भूत्वा , गुरुपत्नीगः कुचर्मा भूत्वा, गुरुदद्रोही अपस्माररोगी भूत्वा वेददूषकः चण्डालरूपेण, असत्यं साक्ष्यं कथयन् चक्षुरोगी भूत्वा, सर्वेषामादौ अश्नन् मन्दाग्निरोगी, विद्यापहारी मूकः भूत्वा,पुस्तकचौरः अन्धरूपेण, परदाररतः पङ्गुः परनिन्दकः बधिरः भूत्वा पुनर्जन्म प्राप्नोति। आचारहीनः वराहो भवति, चौरः जिह्वारोगी भवति, अभ्यागतस्य अतिथेः सत्कारम् अकुर्वन् कपोलरोगी भवति, पर्वकाले स्त्रीगामी मधुमेहग्रस्तः भवति, अभक्ष्यभक्षकः दुर्गन्धमुखः भवति, नीतिमर्यादाम् अननुपालयन् दासः भवति, तडागानाम् आरामाणां वा नाशयिता गर्दभः भवति, वचनं दत्त्वा तदनुसारम् अददानः अल्पायुः भवति, मिथ्यावादी शुनकः भवति,विष्णुद्रोही सरटः शिवद्रोही च मूषकः भवति।


एवं मनुष्यः पापकर्मणां विविधानि फलानि सम्यक् जानीयात्। ज्ञात्वा च तत्तत्पापक्षालनार्थम् अस्मिन्नरुणाचलक्षेत्रे सम्यक् प्रायश्चित्तान् आचरेत्।


पापानोदकप्रायश्चित्तवर्णनम्।


नन्दिकेश्वर उवाच–

इदानीमहं विस्तरेण महापापानां प्रायश्चित्तानि वदामि तानि भवान् आस्तिक्यबुद्ध्या श्रुणोतु। 


ब्राह्मणघाती शोणाद्रिं प्राप्य खड्गतीर्थे निमज्जनं कृत्वा भस्म रुद्राक्षान् च धारयित्वा 'नमः शिवाय' इत्येनं पञ्चाक्षमन्त्रं जपन् उपवासान् कुर्वन् भक्त्या आवर्षम् अरुणाचलम् अर्चयेत् ब्राह्मणांश्च भोजयेत्। तेन ब्रह्महत्यापापात् विनिर्मुकः भूत्वा सः ब्रह्मलोकं प्राप्नुयात्।


मद्यपः पूर्वं यथोक्तं तथा वर्षं यावत् अरुणाचलक्षेत्रे वसन् शतरुद्रियम् उच्चरन् अरुणेशं क्षीरेण स्नापयेत्। तेन सः झटिति पापमुक्तो भवति। सुवर्णापहारी अपि एवमेव बिल्वदलैः हरम् अभ्यर्च्य विप्रान् भोजयेत्। गुरुपत्नीगः कार्तिकमासे अरुणाचलं गत्वा यथापूर्वं व्रती भूत्वा सहस्रेण दीपकैः मासत्रयं यावत् शङ्करं समाराधयेत्। 'ओं नमः शिवाय' इत्यस्य षडक्षरमन्त्रस्य जपं कुर्यात्। अलङ्कृतां कन्यां च ब्राह्मणाय विवाहे दद्यात्। तेन सः अपापः भूत्वा आसंसारं शिवलोके वासं कुर्यात्। परभार्यापहर्ता मासमेकं नवैः पुष्पैः हरम् अभ्यर्च्य यथाशक्ति माहेश्वरेभ्यः धनदानं कृत्वा पापात् मुक्तः भवति। विषदः अपि व्रती भूत्वा क्षीरेण शिवम् अर्चयेत्। पिशुनः नरः अपि व्रती भूत्वा अरुणक्षेत्रे वेदपरायणः भूत्वा ब्राह्मणान् वेदम् अध्यापयेत्। तेन सः निष्कल्मषः भवति। अग्निदः अपि त्रीन् मासान् यावत् व्रतं धृत्वा शैवाय गृहप्रदानं कृत्वा पापमुक्तः भवेत्। धर्मनिन्दकः अरुणाचले वर्षं यावत् स्थित्वा यज्ञसत्राणां यथाशक्ति आयोजनं कुर्यात्। पितृद्रोही मासं यावत् स्थित्वा द्विजेभ्यः शिवाय च सहस्रगवां दानं कुर्यात्। ग्रहणकाले ब्राह्मणान् च भोजयेत्। तेन सः पापात् मुच्यते। स्त्रीघ्नः शिशुघ्नः वा अरुणक्षेत्रे वसन् ब्राह्मणेभ्यः तिलदानं कुर्यात्। प्रच्छन्नपापः नियतेन्द्रियः भूत्वा अरुणक्षेत्रे गुप्तदानानि कुर्यात्। असत्यभाषी  व्रती भूत्वा शोणाचले षण्मासं यावत् उषित्वा अरुणाचलस्तोत्राणां पाठं कुर्यात्। कूपादिभेदकः अरुणक्षेत्रे उषित्वा कूपादीन् खानयेत्। क्षेत्रापहारी अरुणाय क्षेत्रं दद्यात् उद्याननाशकश्च उद्यानं निर्माय अर्पयेत्। गृहापहारी देवस्य नवम् आयतनं निर्मापयेत्। परद्रोही माहेश्वरान् धनदानेन प्रसादयेत्। पश्वादिमासं भुञ्जानः पक्षत्रयं यावत् उषित्वा नानोपहारैः अरुणेशं प्रसादयेत् त्रिवारं 'शोणाचलनाथ' इति उद्घोषं कुर्यात्। मोक्षेच्छुः आदरात् अरुणाचलमन्त्रं जपन् अरुणप्रदक्षिणं कुर्यात्। 


क्षुतेषु, वीर्यस्खलनेषु,महाभीतिषु, जीवनाशारहिते साहसकर्मणि वा दुःस्वप्नदर्शने, हर्षकाले,उत्कर्षकाले वा अरुणेशस्य नाम बुधैः उच्चार्यम्। वर्णाश्रमभ्रष्टः शिवद्रोहरतो वापि त्रीणि अहानि अरुणाद्रौ निवस्य पातकात् मुच्येत। 


इदम् अरुणक्षेत्रं त्रयाणां वेदानां मस्तकं पृथ्वीलोके विद्यमानः साक्षात् शिवलोकः एव। एषः दक्षिणदेशे वर्तमानः कैलासः एव। अन्यक्षेत्रेषु नराः बहुदीर्घं तपः कृत्वा सिद्धीः प्राप्नुयुः तथापि अत्र केवलम् अरुणेशस्मरणमेव सिद्ध्यर्थमलम्। गङ्गातटे, प्रयागे, काश्यां, पुष्करक्षेत्रे , रामेश्वरे यत्पुण्यफलं ततः अधिकम् अरुणक्षेत्रे प्राप्यते। बुद्धिमान् नरः अस्मिन्क्षेत्रे अग्निष्टोमः, वाजपेयः, सर्वतोमुखः, राजसूयः, अश्वमेधः वैराजः इत्यादीन् यज्ञान् कुर्यात्। एकस्मिन् अहनि उपवासं कृत्वा मनुष्यः शतस्य चान्द्रायणव्रतानाम् अयुतस्य सान्तपनव्रतानां (पञ्चदिनानि पञ्चगव्यानि एकैकं भुक्त्वा षष्ठे केवलं जलं भुक्त्वा तथा च सप्तमे अनाहारः सान्पनव्रतम्) वा फलं प्राप्नोति। अरुणक्षेत्रे दत्तानि षोडश महादानानि कल्पान्तं यावत् द्विगुणं फलं ददति।