11
शि– सततं परिवर्तनशीलस्य मनस: कृते आत्मानुभव: कथं शक्य:?
म– सत्त्वं (प्रकृते: त्रिगुणेषु य: विवेकबुद्धे: पावित्र्यस्य च जनक:) मनस: स्वरूपम्। तत् च निर्मलं अविलं च आकाशवत्। अत: मन: वस्तुत: ज्ञानस्वरूपमेव। तद्यदा तस्य नैसर्गिकावस्थामाश्रित्य तिष्ठति तदा तस्य मन: इति नामापि न भवितुं शक्यते। येन एकं वस्तु अपरमिव प्रतीयते तस्य प्रामादिकज्ञानस्य एव नाम मन: इति।
यत् प्रारम्भे पवित्रं ज्ञानस्वरूपं चासीत् तत् मन: तमोगुणस्य (प्रकृते: जडतासम्पादकगुणस्य) प्रभावेण अज्ञानवशात् स्वस्य ज्ञानस्वरूपं विस्मरति जगद्रूपेण च परिणतं भवति। पुनश्च रजोगुणस्य (प्रकृते: चञ्चलतावासनाद्युत्पादकगुणस्य) प्रभावेण तत् ‘अहं इदं शरीरम् अस्मि’ ‘इदं जगत् सत्यम्’ इत्यादी: कल्पना: करोति। ततश्च रागद्वेषमूलानि कर्माणि कृत्वा पापपुण्ये अर्जयित्वा तज्जन्य वासनासंस्कारात् पुन: पुन: जन्ममृत्यू प्राप्नोति।
तथापि अनेकेषु पूर्वजन्मसु फलासक्तिरहितानि कर्माणि कृत्वा यत् अपापं भूतं तन्मन: सद्गुरुमुखात् शास्त्रोपदेशं श्रुणोति। तद्विषये चिन्तनं करोति तथा च आत्मरूपस्य प्राप्त्यर्थं ध्यानमार्गेण ‘अहं ब्रह्मास्मि’ इत्यस्य महावाक्यस्य निदिध्यासनम् अवलम्बते। एवंरीत्या तमोगुणप्रभावात् मनस: जगद्रूपेण परिणमनं पुनश्च रजोगुणप्रभावेण तस्मिञ्जगति भ्रमणं निरुद्धं भवति।
एतेन मन: अवचिलतां सूक्ष्मावस्थां च प्राप्नोति। रजस्तमसो: प्रभावेण यदशुद्धं जातम् अस्ति तस्य मनस: कृते अतिसूक्ष्मस्य अविचलस्य आत्मन: अनुभव: न शक्य: यथा कौशेयं मृदुवस्त्रं प्रघणेन न सीवितुं शक्यम् अथवा वातेन कम्पमानाया: दीपशिखाया: प्रकाशेन सूक्ष्मवस्तूनां दर्शनम् अशक्यं भवेत् तद्वत्।
तथापि उपर्युक्तेन निदिध्यासनेन यत् सूक्ष्मताम् अविचलतां च गतं तस्य मनस: आत्मानन्द: प्रकाशितो भवति। मनस: अभावे न कोपि अनुभव: शक्य:। यन्मन: पवित्रं अत्यन्तं सूक्ष्मवृत्तिधारणाय समर्थं च तेन ब्रह्माकारवृत्तिं धृत्वा आत्मानन्द: अनुभूयते। तदा स्वस्य आत्मा एव ब्रह्म इति अनुभूति: भवति।
12
शि–किं सांसारिकावस्थायां यत्र स्वस्य प्रारब्धानुसारं मन: अनेकानि कार्याणि करोति, एष: आत्मसाक्षात्कार: शक्य:?
म–नाटके यद्यपि कश्चन ब्राह्मण: विविधा: भूमिका: करोति तथापि तस्य मन: ‘अहं ब्राह्मण: अस्मि’ इत्येनं विचारं स: कदापि न त्यजति। तथैव मनुष्य: ‘अहम् आत्मरूप: अस्मि’ इत्यनेन दृढज्ञानेन सासांरिककर्मसु रत: भवेत्। ‘अहम् इदं शरीरम् अस्मि’ एनं मिथ्याविचारं कदापि नानुपालयेत्। यदि मन: कदापि एतस्मात् दृढज्ञानात् भ्रश्यति तदा अनुक्षणं जन: पृच्छेत् ‘अहं न शरीररूप: ; कोऽहम्?’ तथा च स्वस्य मन: पुन: तस्यां पूर्वस्यां पवित्रावस्थायां स्थापयेत्।
कोऽहम्? इत्येषा विचारणा दु:खनिवृत्तये परमानन्दप्रापणाय च प्रधानं साधनम्। एतेन क्रमेण मन: यदा शान्तिं गच्छति तदा आत्मानुभव: प्रत्यूहं विना स्वयमेव प्रकाशितो भवति। तत: अग्रे ऐन्द्रियविषयसुखं दु:खं वा मनसि प्रभावं न जनयेत्। सर्वे अनुभवा: आसक्ते: अभावात् स्वप्नवत् भासेरन्। स्वस्य आत्मरूपस्य सर्वदा अविस्मरणमेव यथार्थक्ति: योग: ज्ञानं सर्वाणि तपांसि च एतत् ऋषीणां शासनम्।
13
शि– व्यवहारे यदा कर्माणि क्रियन्ते तदा “वयं एतेषां कर्मणां कर्तार: तेषां फलस्य भोक्तार: अपि न स्म:। एतानि कर्माणि साधनभूतै: कायवाङ्मनोभि: एव क्रियन्ते” एवं चिन्तयन्त: किं वयम् अनासक्तिभावेन तिष्ठेम ?
म–यदि मन: आत्मनि एव स्थाप्यते य आत्मा मनस: दैवतम् एव ; पुनश्च आत्मानं त्यक्त्वा तत् कदापि न बहिर्गच्छति, सांसारिकविषयान् प्रति पूर्णत: उदासीनं च भवति, तर्हि तन्मन: कथं उपर्युक्तं विचारं कर्तुं प्रभवेत्? किम् एतादृशं विचारकरणम् अपि न बन्धनाय ?
संस्काराणां कारणात् यदि एतादृशविचारा: उद्भवन्ति तर्हि तेषाम् अनुगमनाय मनसे न अनुमति: दातव्या। प्रत्युत तस्य आत्मन्येव निबन्धनाय जगद्वस्तूनां विषये औदासीन्यधारणाय च प्रयतितव्यम्। मनसि ‘किम् एतत् उत्तमम् ? उत किम् तत् उत्तमतरम् ? किम् एतत् कर्तुं शक्येत?’ एतादृशानां विचाराणां कृते स्थानं न देयम्। प्रत्युत तेषां जननात् पूर्वमेव सावधानं स्थित्वा मन: तस्य स्वाभाविकावस्थायाम् नाम आत्मनि एव रक्षेत्। यदि एतादृशानां विचाराणां कृते स्थानं दद्याम तर्हि मन: स्वम् अस्माकं मित्रमिव दर्शयित्वा वस्तुत: शत्रुवत् अस्मान् नाशयेत्। आत्मविस्मृते: कारणात् एव एतादृशविचारा: प्रभवन्ति विविधदोषान् च जनयन्ति खलु?
यद्यपि एतत् सत्यं यत् विवेकम् आश्रित्य “अहम् अकर्ता, सर्वकर्माणि इन्द्रियैरेव क्रियन्ते’ एतादृशं विचारकरणम् मनस: वासनाविचारान् प्रतिबध्नाति तथापि एतदपि किं नानुगम्यते यत् यदा मन: वासनाविचारान् करोति तदा एव एतादृशविवेकेन तस्य निबन्धनस्य आवश्यकता उत्पद्यते?
आत्मनि एव संस्थापितं मन: किम् ‘अहम्’ इति अथवा ‘संसारे एवंरीत्या अहं वर्तेय’ इति विचारं कर्तुं प्रभवेत्?
सर्वप्रकारेण ईश्वररूपस्य आत्मन: कदापि विस्मरणं मा भवेत् एतदर्थं प्रयतेत्। एतस्मिन् कृते सर्वमेव सम्पादितं भवति। मन: आत्मानं विहाय कस्मिन्नपि कार्ये न नियोजयेत्। प्रारब्धकर्मवशात् यद्यपि जन: उन्मत्तवत् कर्माणि कुर्यात् तथापि मन: सदैव आत्मन्येव रक्षित्वा ‘अहं करोमि’ इति विचारस्य उत्पत्त्यर्थम् अवकाश: एव न दद्यात्। किम् अगणिता: भक्ता: ‘अहं करोमि’ इति विचारम् अनाश्रित्य तेषां सर्वाणि सांसारिककर्माणि न आचरितवन्त:?
14
शि– संन्यासस्य मूलहेतु: क:?
म–संन्यास: नाम ‘अहम्’ इति विचारस्य त्याग: न तु केवलं बाह्यवस्तूनाम्। य: ‘अहम्’ इति विचारं त्यजति स: एकाक्यवस्थायाम् अथवा घोरसंसारे अपि सम: एव भवति। यथा एकस्मिन्नेव वस्तुनि एकाग्रं मन: समीपस्थान्यपि अन्यवस्तूनि नैव पश्यति, तथैव साधु: सर्वाणि सांसारिकाणि कार्याणि कृत्वा अपि वस्तुत: किमपि न करोति यत: अहम् इति विचारस्य उद्भवं निरुध्य स: मन: केवलम् आत्मन्येव स्थापयति। यथा बाह्यत: अचल: इव तिष्ठन् मनुष्य: तस्य स्वप्ने अध:शिर: सन् पतति तथैव अज्ञानी मनुष्य: नाम यस्य कृते ‘अहम्’ इति विचार: न स्थगित: स:, बाह्यत: निष्क्रिय:, सन्ततं ध्यानशील: सन् अपि सर्वाणि संसारकार्याणि क
रोति एव इति आत्मवेत्तॄणां कथनम्।
