विचारसङ्ग्रह:--६


 31

शिष्य:-- आत्मविषये विचार: कथं करणीय:?

महर्षि:-- आत्मा स्वयम्प्रकाश: स्वयम्भू: च अत: स: प्रकाशान्धकाराभ्यां पर: वर्तते। अत: स: एतदस्ति वा तदस्ति एवं तद्विषये विचार: न करणीय:। कोऽपि विचार: भवतु स: बन्धनमेव जनयति। आत्मनि ध्यानस्य मर्म यत् मन: आत्मरूपमेव कारयेत्। हृत्कमले शुद्धं ब्रह्म ‘अहम्,अहम्’ एवंरूपेण साक्षात् प्रकाशते। किम् एतस्मात् अधिकम् अज्ञाननिदर्शकं यत् एवंरूपं ब्रह्मण: अपरोक्षज्ञानं विहाय तद्विषये मनुष्या: बहुधा चिन्तयन्ति?

32

शिष्य:-- ब्रह्म हृदि ‘अहम्,अहम्’ इति वदन् आत्मरूपेण प्रकाशते। एतस्य किञ्चित् अधिकं स्पष्टीकरणम् ईहे।

महर्षि:-- किं न एष: सर्वेषाम् अनुभव: यत् सुषुप्तौ मूर्छनायां वा किमपि ज्ञानं–स्वविषयकं वा परविषयकं वा न विद्यते? अनन्तरम् एष: अनुभव: उदेति यत् ‘अहं सुषुप्त्या: मूर्छनात: वा जागरित: अस्मि’ इति। अत: किं न एतत् विशिष्टज्ञानं पूर्वोक्ताया: निर्विशेषावस्थाया: उद्भूतम्? एतत् विशिष्टं ज्ञानं ‘विज्ञानम्’ इति कथ्यते। एतत् विज्ञानम् आत्मविषये अथवा अनात्मविषये भवति। आत्मविषयकं स्यात् तर्हि तत् सत्यज्ञानं अनात्मविषयकं स्यात् तर्हि तदेव अज्ञानम् इति उच्यते।

तस्मिन् आत्मविषयके सति तत् ‘अहम्’ रूपेण प्रकाशते। ‘अहम्’ इति प्रकाश: सत्यरूपम् आत्मानं विहाय न शक्य:। एष: प्रकाश: एव आत्मन: अपरोक्षानुभूत्यर्थं चिह्नरूपेण सहायको भवति। तथापि एष: ‘अहम्’ इति प्रकाश: स्वयमेव आत्मस्वरूप: इति न वक्तुं शक्येत। यद् आधारीकृत्य एष: ‘अहम्’ प्रकटीभवति तदेव मूलभूतं सत्यम् आत्मस्वरूपं ‘प्रज्ञानम्’ इति उच्यते। वेदान्ता: ‘प्रज्ञानं ब्रह्म’ इति वचनेन एतदेव पाठयन्ति। 

एष: एव शास्त्राणां सार:। स्वयम्प्रकाश: सर्वस्य साक्षिभूत: आत्मा विज्ञानमये कोषे स्थित्वा ‘अहम्’ रूपेण प्रकाशते। मनस: अभेदभावेन स: आत्मा एव ग्रहीतव्य: तस्मिन्नेव रमणीयम्। 

33

शिष्य:-- आन्तरिकी पूजा अथवा निर्गुणस्य पूजा नाम किम्?

महर्षि:-- ऋभुगीतादिषु ग्रन्थेषु निर्गुणोपासना विस्तरेण विशदीकृता। तथापि यज्ञा: दानानि, तपांसि, व्रतानि, जप: , योग:, पूजा इत्यादीनि सर्वाणि साधनानि परिणामरूपेण ‘अहं ब्रह्मास्मि’ इति ध्यानस्यैव प्रत्यक्षाप्रत्यक्षविधा: सन्ति। अत: एतासु सर्वासु साधनासु साधकेन सावधानेन भवितव्यम् यत् स: ‘अहं ब्रह्मास्मि’ इत्यस्मात् विचारात् स्खलित: न भवेत्। एष: एव निर्गुणोपासनाया: सार:।

34

शिष्य:-- कानि ज्ञानमार्गस्य अष्टाङ्गानि?

महर्षि:-- पूर्वोक्तानि यमनियमादीन्येव अत्रापि अष्टाङ्गानि तथापि भिन्नप्रकारेण व्याख्यायन्ते।

१) यम: नाम इन्द्रियसमूहस्य निग्रह: सर्वेषां जगति विद्यमानानां शरीरादीनां पदार्थानां न्यूनत्वस्य नि:सारत्वस्य च ज्ञानम्।

२) नियम:-- आत्मसम्बद्धानां मनोभूमिकानां परिपोष: तद्विरुद्धानां च त्याग:। अन्यै: शब्दै: वदामश्चेत् एष: एव परमात्मविषये अखण्डितप्रेम्ण: उद्भव:।

३) आसनम्– सततं ब्रह्मध्यानं यया सुकरं भवेत् भवेत् सा शारीरस्थिति:।

४) प्राणायाम:-- रेचक: नाम जगद्वस्तूनां शरीरादीनां वा नामरूपाणां कल्पनाया: त्याग:। पूरक: नाम यानि सर्वदा सर्वस्तुषु विद्यमानानि भवन्ति तेषां सत् चित् आनन्द: इति त्रयाणां ब्रह्मविशेषानां ग्रहणं, कुम्भक: च एतेषां दृढं मनसि धारणम्।

५) प्रत्याहार:-- पूर्वं त्यक्तयो: नामरूपयो: मनसि पुन:प्रवेशाय प्रतिबन्धोऽयम्।

६) धारणा– मनस: बहिर्गमनं निरुध्य तस्य हृदि एव स्थापनं , स्वस्य सच्चिदानन्दरूपस्य अवगमनं नाम धारणा।

७) ध्यानम्–’अहं चित्स्वरूप: अस्मि’ एतादृश: अनुभव: ध्यानम्। अहं पञ्चकोषात्मकं शरीरं अस्मीति भावं दूरीकृत्य यदि ‘कोऽहम्’ इति विचारणा क्रियते तर्हि केवलं ‘अहम्’ इति आत्मबोध: एव अवशिष्यते।

८) समाधि:-- यदा एष: ‘अहम्’ इति केवलबोध: अपि नश्यति तदा आत्मन: अपरोक्षानुभूति: भवति। एष: एव समाधि:।

अत्र येषां प्राणायामादीनां वर्णनं कृतं तेषां कृते योगशास्त्रे वर्णिता: आसनादीनां नियमा: न आवश्यका:। ज्ञानमार्गस्य अष्टौ अङ्गानि सर्वकालेषु सर्वस्थलेष्वपि अभ्यसितुं शक्यन्ते। यथाभिमतं परिस्थित्यनुरूपं जन: योगं वा ज्ञानमार्गं वा अथवा उभौ अपि अनुसरेत्। आत्मस्वरूपस्य विस्मरणमेव मुमुक्षूणां कृते सर्वस्य दौर्भाग्यस्य कारणं तदेव मरणम् अपि इति वदन्ति गुरव:। अत: मन: सर्वदा आत्मन्येव स्थापयेत् , आत्मानं कदापि न विस्मरेत् इत्येतत् ध्येयम्। यदि मन: एवं निरोद्धुं शक्येत तर्हि अन्यस्य सर्वस्य नियन्त्रणं शक्यम्।

यत: अष्टाङ्गयोगमार्गस्य अष्टाङ्गज्ञानमार्गस्य च भेद: शास्त्रग्रन्थेषु विस्तरेण विशदीकृत: अत: अत्र केवलं दिङ्मात्रमेवात्र निर्दिष्टम्।

35

शिष्य:-- किं योगमार्गे ज्ञानमार्गे च उक्तौ प्राणायामौ उभौ अपि एकसमयावच्छेदेन अभ्यसितुं शक्ये?

महर्षि:--यावत् केवलकुम्भकस्य अथवा आत्मविचारणाया: साहाय्येन मनस: हृदि निवेश: न सिध्यति तावत् पूरकरेचकादीनाम् आवश्यकता विद्यते। अत: साधकावस्थायां योगमार्गोक्त: प्राणायाम: अभ्यास्य:। ज्ञानमार्गोक्त: च सर्वदा अभ्यसितुं शक्य:। एवं उभयोरपि अभ्यास: कर्तुं शक्यते। केवलकुम्भकस्य शक्ति: यावत् न प्राप्यते तावत्पर्यन्तं यौगिकस्य प्राणायामस्य अभ्यास: कृत: चेत् तत् पर्याप्तम्। 

36

शिष्य:-- मुक्ते: मार्ग: एवं किमर्थं भिन्नभिन्नरीत्या उपदिष्ट: अस्ति? किं तेन शिष्याणां मनसि सम्भ्रम: न उत्पद्येत?

महर्षि:-- साधकानां स्तरानुसारं वेदे एते भिन्नभिन्नमार्गा: प्रोक्ता:। तथापि मुक्ति: नाम मनोनाश: सर्वेषां साधनानां ध्येयम् अस्ति मनस: नियन्त्रणम्। यद्यपि ध्यानादीनां विविधा: प्रकारा: भिन्ना: भासन्ते, अन्ततोगत्वा ते सर्वेपि एकीभवन्ति इत्यत्र संशयो मास्तु। स्वस्य मनस: परिपक्वतानुरूपं मनुष्य: यं कमपि मार्गं चेतुम् अर्हति।

प्राणस्य नियन्त्रणं योग: मनस: नियमनं ज्ञानं इत्येतौ मनस: नाशस्य द्वौ मुख्योपायौ। केषाञ्चन कृते पूर्व: केषाञ्चन कृते अपर: वा सुकर: भासेत। तथापि ज्ञानं नाम उद्दामवृषभं हरिततृणेन उपच्छन्दनं योग: नाम बलेन तस्य नियन्त्रणाय प्रयत्न:। अत: ज्ञातार: वदन्ति यत् त्रिषु अधिकारिसाधकेषु सर्वश्रेष्ठा: साधका: वेदान्तविचारेण सत्यस्य स्वरूपं ज्ञात्वा स्वस्य आत्मानं अन्यानि सर्वाणि च जगद्वस्तूनि सत्-स्वरूपाणीति विनिश्चित्य स्वस्य मन: तस्मिन्सत्ये दृढं स्थापयन्ति मुक्ताश्च भवन्ति। मध्यमा: केवलकुम्भकेन , तथा च सत्यस्य चिरकालं ध्यानं कृत्वा मुक्तिं प्राप्नुवन्ति। अधमा: शनै: शनै: क्रमेण श्वासनियन्त्रणादिभि: तामेव स्थितिम् अधिगच्छन्ति।

यावत् अज्ञानस्वरूप: हृत्स्थ: ‘अहम्’ इति विचार: नाशं न याति तावत् मन: हृदि एव स्थापयेत्। एतत् एव ज्ञानं ध्यानमपि तदेव। अन्यत् सर्वं केवलं पाल्लविकमेव इति वदन्ति शास्त्राणि। अत: केनापि मार्गेण यदि कश्चन मनस: आत्मनि निरोधनस्य कौशलम् अधिगच्छेत् तर्हि तस्य कृते अन्येषां विषयाणां चिन्ताकरणम् अनावश्यकम्।

एकभक्तिक: जन: योगिभ्य: अपि अधिक: ; आत्मस्वरूपस्य सन्ततं विचार: एव भक्ति: ; सा च मुक्ते: साधनम् इति गुरूणामुपदेश:।

एष: आत्मसाक्षात्कारस्य मार्ग: एव दहरविद्या, ब्रह्मविद्या, आत्मविद्या इत्यादिभि: विविधै: शब्दै: शास्त्रेण निर्दिष्ट:। किम् अधिकेन उक्तेन? अन्यत्सर्वं मनुष्येण अनुमानेन अवगन्तव्यम्। विविधान् शास्त्रोक्तान् मार्गान् परिशील्य एष: एव सर्वोत्तम: अदीर्घ: मोक्षमार्ग: इति गुरुभि: उच्यते।

37

शिष्य:-- उपर्युक्त साधनामार्गम् अवलम्ब्य कश्चन अज्ञानम्, संशय:, प्रमाद: इत्यादीन् प्रत्यूहान् निराकुर्यात् मनस: शान्तिं च अधिगच्छेत् तथापि अन्तिम: एक: संशय: अवशिष्यते। यदा मन: हृदि विलीनं भवेत् तदा चित् एव च पूर्णसत्यरूपेण प्रस्फुरितं भवेत्। एवं मनसि आत्मरूपेण स्थिते क: आत्मविचारणां कुर्यात्? कुर्यात् चेत् सा आत्मपूजारूपेण परिणता भवेत्। तथा च एतत् मेषपालकथासमं भवेत् यत्र मेषपाल: स्वस्य स्कन्धे निहितमेव मेषम् अन्वेषयति।

महर्षि:-- जीवस्य शिवस्य च अभेद: एव। यावत् धान्यकण: तुषे निलिन: तावत् तं सस्यम् इति वदन्ति। निस्तुषीकृत: च स: एव तण्डुल: इति निगद्यते। तथैव यावत् कर्मणा निबद्ध: अस्ति तावत् जीव: भवति स: एव अज्ञानस्य नाशात् शिव: इति दैवतरूपेण प्रकाशते एवं वदति शास्त्रम्। मनोरूप: जीव: वस्तुत: शुद्ध: आत्मा एव तथापि अज्ञानात् स: स्वं जीवरूपं भावयति मनसा निबद्ध: च भवति। अत: सत्यमेव तस्य आत्मान्वेषणं उपर्युक्तस्य मेषपालस्य मेषान्वेषणमिव अस्ति। तथापि जीव: परोक्षज्ञानेन आत्मरूप: न भवति। पूर्वजन्मजातानां संस्काराणां विघ्नै: स: स्वस्य आत्मरूपं पुन: पुन: विस्मरति, वञ्चित: भवति, स्वस्य शरीरेण तादात्म्यं कल्पयति। 

कोपि केवलं उच्चाधिकारिण: दर्शनेन उच्चाधिकारपदं न प्राप्नुयात्। तदर्थं भूरिश: प्रयत्ना: आवश्यका: भवन्ति तदा एव स: उच्चाधिकारं प्राप्नोति। एवमेव शरीरादिभि: तादात्म्यं कल्पित्वा बद्धभूतेन जीवेन शनै: शनै: अखण्डितं च आत्मध्यानरूपं प्रयत्न: विधेय: भवति। तेन यदा मनोनाश: भवति तदा एव जीव: विशुद्धात्मरूप: भवति।  

अखण्डितम् आत्मध्यानं मन: नाशयेत् तदनन्तरं तत् स्वात्मानमपि नाशयति यथा अङ्गाराणां ज्वालनाय उपयुक्तं काष्ठं स्वयमपि अन्ते दग्धं भवति। एषा एव अवस्था मोक्ष: इति कथ्यते।

38

शिष्य:-- यदि जीव: स्वभावत: आत्मरूप: एव तर्हि स्वस्य स्वरूपज्ञाने केन स: निरुद्ध: भवति।

महर्षि:--स्वस्य स्वरूपस्य विस्मरणमेव तस्य कारणम्। एषा एव ईश्वरस्य आवरणशक्ति: इति उच्यते। 

39

शिष्य:-- जीवस्य स्वस्वरूपस्य विस्मरणं जातमित्युक्तं तर्हि कथम् ‘अहम्’ इति अनुभवस्योत्पत्ति:?

महर्षि:-- एतदावरणं जीवस्य स्वरूपं न पूर्णतया परिच्छन्नं करोति प्रत्युत केवलं तस्य विशुद्धात्मस्वरूपमेव गोपयति तथा च ‘अहं शरीरम्’ इति कल्पनाम् आविष्करोति। आत्मन: अस्तित्वस्य य: ‘अहम्’ इति अनुभव: तस्य तिरोधानं कर्तुं तत् न पारयति य: अहम् शाश्वत: सत्यरूप: च।

40

शिष्य:-- जीवन्मुक्तस्य विदेहमुक्तस्य च कानि लक्षणानि?

महर्षि:-- अहं शरीरं नास्मि, अहं आत्मरूपेण आविर्भूतं ब्रह्मैव अस्मि। सर्वगते चिदात्मनि मयि शरीरादिभि: युक्तं जगत् केवलम् आभासरूपेण तिष्ठति यथा आकाशे नीलिमा। येन एवंविधं सत्यस्य साक्षात्कार: कृत: अस्ति स: जीवन्मुक्त: इत्युच्यते। तथापि यावत् साधकस्य मन: पूर्णतया नष्टं न भवति तावत् प्रारब्धकारणात् जगद्वस्तुभि: सह सम्पर्केण जायमान: दु:खानुभव: तस्य कृते अवशिष्येत्। मनस: गते: पूर्णतया नाश: न भूत: इत्यत: परमानन्दस्य अनुभूति: अपि न स्यात्। निरन्तरध्यानेन यन्मन: सूक्ष्मीभूतं स्थिरीभूतं च तस्यैव कृते आत्मानुभूति: शक्या। एवं यस्य मन: सूक्ष्मीभूतं तथा च यस्य आत्मानुभूति: जाता स: एव जीवन्मुक्त:। एषा एव अवस्था तुरीयावस्था इति निर्गुणं ब्रह्म इति वा निर्दिष्टा। 

तत् सूक्ष्मीभूतं मन: अपि यदा विलयं याति यदा च आत्मन: अनुभव: अपि नश्यति, यदा साधक: आनन्दसमुद्रे मग्न: भवति, तेन सह च अभिन्न: भवति तदा स: विदेहमुक्त: इति कथ्यते। एषा अवस्था सर्वातीतं निर्गुणं ब्रह्म अथवा तुरीयातीतावस्था इति निर्दिश्यते। एतदेवान्तिमं लक्ष्यम्। दु:खानन्दयो: स्तरानुसारं जीवन्मुक्ता: विदेहमुक्ताश्च चतुर्धा कथिता:--ब्रह्मविद् ,ब्रह्मविद्वर:, ब्रह्मविद्वरीयान् , ब्रह्मविद्वरिष्ठ: च। तथापि एषा भिन्नता केवलं द्रष्टु: परिप्रेक्ष्ये एव विद्यते। वस्तुत: ज्ञानेन य: मोक्ष: सम्पादित: तस्मिन् एते भेदा: न विद्यन्ते।

प्रणामा:

शिवस्वरूपा: मानुषीं तनुमाश्रिता: गुरव: रमणभगवत्पादा: सदा विजयन्ताम्।