अरुणाचलमाहात्म्यम् (पूर्वार्ध:)--२



 अरुणाचलस्थावरलिङ्गमहात्म्यवर्णनम्।

ब्रह्मोवाच--अथ शिवरूपान् वेदान् समुच्चरन् अहं शिवार्चनां कृतवान्। " येन इदं सर्वं जगत् प्रकाश्यते ध्रियते च तस्मै सर्वलोकैकहेतवे महते शिवाय सततं नमः। यथा जात्यन्धाः भास्करं द्रष्टुं न शक्नुवन्ति तथैव भवद्दयाहीनाः भवतः एतत् विश्वव्यापि तेजः नैव द्रष्टुं शक्नुवन्ति। भवतः भक्ताः एव अन्तःस्थं बहिस्थं वा इदं लिङ्गं अध्यात्मचक्षुषा अनुभवन्ति। भवत्करुणापात्रं अणुवत् चेदपि महत्त्वं प्राप्नोति। भवदर्पितं मनः कदापि भवद्वियोगम् नेच्छति अतः हे भुवनाधिक महेश भवतः कीर्तने वाचः प्रवृत्तिः कथं सम्भभवेत्? हे भुवनाधीश भवान् मयि प्रसीदतु। प्रयतं भक्तं च मां अपेक्षितकार्यविषये आदिशतु।" एवं प्राञ्जलिः अहं पुनः पुनः देवदेवेशं नमस्कुर्वन् विभोः महादेवस्य समीपे उपविष्टवान्। 

अनन्तरं नवमेघगम्भीरवाण्या शिवसङ्कीर्तनं कृत्वा विष्णुः विमलया वाचा अवदत् ," हे गङ्गाधर,त्रिभुवनेश, विरूपाक्ष, चन्द्रशेखर भवतः कारुण्यं निर्हैतुकं विद्यते येन भक्तेषु पूर्णज्ञानोदयः भवति। भवान् एव भवन्तं ज्ञातुं समर्थः । यथा भ्रमरः कीटम् आकृष्य तं स्वस्वरूपं प्रापयति तथैव भवत्प्रसादात् भवान् जीवं स्वस्वरूपं अधिगमयति। यथा अग्नौ तप्ताः लोहकीलाःअग्नेः दाहशक्तिं बिभ्रति तथैव सर्वे भवदंशसम्भूताः देवाः भवतः शक्तिमेव धारयन्ति। यथा देशः, कालः, क्रियायोगः एतैः परिमाणैः एकस्यैव अग्नेः भिन्नरूपाणि भवन्ति तथैव नानाविषययोगात् एकोपि भवान् तत्तद्भेदं प्राप्नोति। हे कृपानिधे शङ्कर, नयनयोः आनन्ददायिनीं भवतः दिव्यां मूर्तिम् इदानीं दर्शयतु।" 

एवं आवयोः द्वयोः स्तुवतोः श्रद्धासमन्वितं प्रणमतोः शम्भुः प्रसन्नः अभवत् ततश्च तेजोमयस्तम्भात् पिङ्गलवर्णधारिण्या कृष्णकण्ठ्या मूर्त्या सः भगवान् आविरभवत्। तेन चतुर्भिः हस्तैः परशुः बालहरिणः अभयमुद्रा तथा च विश्राममुद्रा धृता आसीत्। सः आवां अवदत् ," मयि युक्तात्मनोः भवतोः भक्त्या अहं सन्तुष्टोस्मि। भवन्तौ मत्प्रसादात् जगतः स्रष्टा पालकश्च भवताम्। भवतोः इष्टसिद्ध्यर्थमेव अहम् आविर्भूतोस्मि अतः भवन्तौ तदर्थं वरं वृण्वाताम्।"

एवं शिवस्य वचनेन प्रीतौ आवां स्वं स्वं पृथक् पृथक् वरं अकथयाव। जगत्त्रयविधाता अहं शिशुप्रायः भूत्वा वैदिकैः मन्त्रैः ईशानं संस्तुवन् उक्तवान्, "हे निरञ्जन ईश्वर, योगिभिः ध्यानगम्यं भवतः एतत्तेजोमयं शश्वद्रूपं नमामि। तथापि भवतः एतेन तेजसा गगनान्तरमपि तथा आपूरितं भवति येन देवलोकः कुत्र अस्ति इत्यपि न ज्ञायते । भवतः तेजसा देवाः सिद्धाः चारणाः महर्षयः चापि स्वस्थानम् अप्राप्य सर्वत्र सञ्चरणाय बाध्याः भवन्ति। भवतः तेजसा आसमन्तात् तप्यमाना धरित्री अपि चराचरोत्पत्तिं कर्तुं न क्षमते। अतः भवान् स्वतेजसः उपसंहारं कृत्वा लोकानुग्रहार्थं अरुणाचलसंज्ञं स्वावरलिङ्गत्वं प्राप्नोतु।"

"अरुणाचलसंज्ञितम् इदं भवतः तेजोरूपं ये नराः भक्त्या प्रणमेयुः ते देवेभ्यः अपि अधिकाः भवेयुः। सर्वदर्शिनः सिद्धाः परमर्षयः मानुषभावं प्राप्ताः देवगणाश्च भूमौ तवैतत् स्थावरलिङ्गं सेवन्ताम्। दिव्येषु आरामेषु समुद्भूताः दिव्याः ओषधयः कल्पाद्याः देवद्रुमाश्च फलसम्भारपूर्णाः भूत्वा भवति प्ररोहन्तु। पापकल्मषनाशिनि भवति वासं कुर्वाणाः सिंहमृगादयः पशवः अपि प्रशान्ताः भवन्तु। अयनद्वयगतियुक्तः सूर्यः अपि गगने सञ्चरन् भवतः लिङ्गतनोः शिखरं नोल्लङ्घयेत्। दिव्यदुन्दुभिध्वनिभिः अप्सरसां नृत्यगीतादिभिः पुष्पवृष्टिभिः च भवान् पूजितः भवतु।"

" भवत्सन्निधिं प्राप्ताः मानवाः भूमानन्दं, रससिद्धिम् अमरत्वं तथा च ईशित्वं वशित्वं कालजयित्वं-- एताः सर्वाः सिद्धीरपि प्राप्नुयुः। एवं सर्वेभ्यः सर्वाभीष्टदानाय भवान् भूमितले दृश्यः भवतु।"

तदनन्तरं कमलापतिः विष्णुः अरुणाद्रिरूपं शिवं प्रार्थयन् अवदत्, " हे शोणशैलेश्वर, यथा अहं त्वाम् उपाश्रित्य जगद्ररक्षणस्य क्षमत्वं लक्ष्मीपतित्वं च प्राप्तवान् तथैव तव भक्ताः अपि ऐश्वर्यशालिनः भवन्तु। एतत्तव महदद्भुतं रूपं अल्पपुण्याः जनाः न उपासितुं प्रभवन्ति। प्रदक्षिणा, नृत्यगीतं, नमस्काराः, उपवासादिव्रतानि, उपहाराः एतैः ये निष्पापाः जनाः त्वाम् अर्चयन्ति ते सार्वभौमाः राजानः भवन्तु। अङ्गप्रदक्षिणं कुर्वन् मनुष्यः अष्टैश्वर्यसमन्वितः अशेषपातकेभ्यः मुक्तः निर्मलहृदयः च भवतु। आवामपि भवत्पादपङ्कजं नैव मुञ्चेताम्। तत् चरणकमलं च भवत्सन्निधिम् आगतैः सर्वैरपि ध्यातव्यम्।"

तदा 'तथास्तु' इति विष्णवे वरं दत्त्वा चन्द्रशेखरः भूमितले स्थावरलिङ्गतां प्राप्तवान्। एतत् सर्वलोकानां कारणं तैजसं लिङ्गं 'अरुणाद्रिः' इति नाम्ना भुवि ख्यातम्। युगान्तकाले चत्वारः क्षुब्धाः सागराः अन्यां सर्वां भूमिं निमज्जयन्ति तथापि तेपि अरुणाचलस्य समीपस्थभूमिं स्प्रष्टुमपि न पारयन्ति। प्रलये गजप्रमाणैः जलबिन्दुभिः वर्षन्तः पुष्करादयः महामेघाः एतस्य अरुणाद्रेः सानुनि विश्रान्ताः भवन्ति। सर्वभूतसंहारकाले सर्वाणि सृष्ट्युत्पत्तिबीजानि अत्रैव अरुणाचले तिष्ठन्ति।

प्रलयानन्तरं पुनः यदा अहम् आह्वयामि तदा वेदसङ्ग्रहः अरुणाचलपादसेविभ्यः विप्रेभ्यः सकाशात् पुनः प्रादुर्भवति। सर्वासां कलानां, विद्यानां, वेदागमानाम् अस्मिन् अरुणाद्रौ एव अवस्थितिः विद्यते। अरुणाद्रेः गुहागव्हरेषु जटाधारिणः संशितव्रताः मुनयः कोटिसूर्याभाः प्रकाशन्ते। पञ्चाक्षरवपुर्धरैः पञ्चब्रह्ममयमन्त्रैः अष्टलिङ्गैः च अष्टदिक्पालाः अष्टमूर्तिधरं अष्टसिद्धिदायकं च शिवं पूजयन्ति। अत्र स्वान् स्वान् लोकान् त्यक्त्वा सुरेश्वराः सिद्धाश्च मुक्तिमपि विहाय कनकाचलप्राप्तिमेव इच्छन्ति।



सूतः उवाच--एवम् वेदसारं अरुणाचलशिवमाहात्म्यं सनकः ब्रह्मदेवस्य मुखपद्मात् श्रुतवान्।