
देव्याः शिवदेहार्धप्राप्तिः अरुणाचलस्य सर्वश्रेष्ठत्वं च।
महर्षेः इदं वचनं श्रुत्वा गौरी शिवभक्तस्य महिषस्य वधविषयिणीं शङ्कां तत्याज। तदा आकाशात् एका मनोहारिणी वाणी उद्भूता, " हे शैलकन्ये पापनिष्कृत्यर्थं भवती अन्यत्र मा गच्छतु। अत्रैव भवती यदि स्वखड्गेन शिलातलं विदारयेत् तर्हि गङ्गा, यमुना, सिन्धुः, गोदावरी,सरस्वती,नर्मदा, कावेरी, शोणनदी तथा शोणनदः एतानि नवतीर्थानि निर्मितानि भविष्यन्ति। आश्वयुङ्मासे ज्येष्ठानक्षत्रे तस्मिन् खड्गतीर्थे अघमर्षणमन्त्रजपं कुर्वत्या भवत्या लिङ्गसहितं स्नानं करणीयम् आमासं च तत्रैव वासः करणीयः। मासस्य अवसाने भवती पापनिर्मूलनं प्राप्स्यति। अनन्तरं तल्लिङ्गं भवती लोकानाम् अनुग्रहार्थं खड्गतीर्थस्य तटे स्थापयतु।"
"तस्मिन् खड्गतीर्थे स्नानं कृत्वा यस्तं लिङ्गम् अर्चयेत् तस्य त्रिविधतापात् मुक्तिः भवेत् इत्यत्र न संशयः। तत्र भवती अनुमती, बला, कुहूः, सीनीवाली, गुहा, यात्री च एताभिः सहचरिभिः सह दशदिनात्मकम् उत्सवम् आचरतु। कार्तिकमासे कृत्तिकानक्षत्रे उदिते सायङ्काले स्नानं कृत्वा शोणाचलरूपं मम वपुः पूजयतु। तदाहं मम तैजसं रूपं भवत्यै प्रदर्शयिष्यामि। एतत् भवत्या कृतं चेत् तत् लोकानां रक्षणाय भविष्यति।"
तदा पार्वती यथा महर्षिणा आकाशवाण्या च उक्तम् आसीत् तदनुसारं कर्तुम् आरेभे। देव्याः खड्गाघातेन शिलातले नवतीर्थानाम् उद्भवः अभवत्। तस्मिन् तीर्थे देव्या स्वस्य कान्त्या समानि सरोजानि, स्वस्य चक्षुदृशानि उत्पलानि तथा च स्वस्य मन्दहासौपम्यानि कुमुदानि निर्मितानि। तस्याः तपश्चरणेन जनाः कृतार्थाः आप्तकामाश्च अभवन्। तथापि देव्याः मनः शम्भुवियोगात् सन्तप्तम् आसीत्।
मासान्ते तया यथोक्तम् उत्सवः आचरितः। कार्तिकमासे कृत्तिकानक्षत्रे आगते तया अरुणाद्रिः बहूपचारैः पूजितः। ततश्च जगदम्बा अरुणाद्रिं प्रार्थितवती ," हे विश्वरूप, अद्रिलिङ्गस्वरूप, सर्वपातकनाशिन् अहं भवन्तं प्रणमामि। ब्रह्मा विष्णुश्च यस्य वैभवं ज्ञातुम् असमर्थौ आस्तां तादृशः अग्निरूपो भवान् । तथापि लोकानुग्रहार्थं भवान् शान्तः अभवत्। तदेव भवतः दिव्यं सर्वदोषहरं तैजसं रूपं मह्यं सन्दर्शयतु।"
एवं तया प्रार्थितः अरुणाद्रिः स्वतेजसा भुवनानि पूरयन् तस्याः पुरतः आविर्बभूव। तत्तेजः कोटिसूर्यचन्द्रकालाग्नितुल्यम् आसीत्। तद्रूपं दृष्ट्वा विस्मयाक्रान्तहृदया गौरी मुनिभिः सह तं प्राणमत्। तदा तस्मात् तेजसः हिरण्मयः नीलग्रीवः महादेवः प्रकटितः अभवत्। देवः अवदत् , "यथा मया आदिष्टम् आसीत् तथा लोकानुग्रहार्थं भवत्या विविधस्थलेषु तपः आचरितम्। तेनाहं प्रसन्नः अस्मि अतः ममेदं तेजोमयरूपं त्वया दृष्टम्। जगतः रक्षणाय जगन्मात्रा त्वया भूमौ तपः कृतम्। किमन्यत् भवत्याः ईप्सितम्?"
" स्वस्य पुत्राय स्तन्यम् अदत्त्वा भवत्या तदर्थं धात्र्याः योजना कृता। भवती स्वयं भक्तरक्षणार्थं कार्तिकमासे भूमौ स्थितवती। अतः अस्मिन् क्षेत्रे भवती 'अपीतकुचाम्बिका' इति नाम्ना विख्याता भविष्यति। भक्तानुग्रहार्थं कृताम् एनां मम पूजां समापय्य भवती मम ध्यानं करोतु।"
एवं शिवेन उक्ते सति अम्बिका प्रोवाच, " हे देवदेव, मम उत्सवस्य अन्ते कार्त्तिकमासे भवता प्रकटितम् इदं तेजोरूपं मानवैः दैवैश्चापि दृष्टम्।प्रतिसंवत्सरं तव दुरितनाशकम् इदं तेजः कार्तिकमासे अत्र प्रकटीभवेत् येन सर्वे जन्तवः तद्द्रष्टुं शक्नुयुः।"
एवं देव्या प्रार्थिते भगवान् 'तथा' इति उक्त्वा अरुणगिरौ अन्तर्हितो बभूव। तदनन्तरं अम्बिका अरुणाचलं परितः सखिभिः सह प्रदक्षिणं कृतवती। तदा अरुणाद्रिः मरकतराशिवत् शुशुभे। तस्याः पदकान्त्या अरुणाद्रौ कमलदलानि विकीर्णानि इव अभासन्त। अस्यां प्रदक्षिणायां ब्रह्मविष्णू तयोश्च अङ्गने सरस्वती लक्ष्मीश्च तथा च इन्द्रादयः अन्ये देवाः दिक्पालकाः अपि सम्मिलिताः अभवन्। विवाहे अग्निम् इव शिवसायुज्यकाङ्क्षिणी गौरी अरुणेशं परितः प्रदक्षिणं कृतवती। अखण्डं शिवस्मरणं कुर्वती सा ऋषिभ्यः शिवोपासनोपदेशं दत्तवती।
तदनन्तरं गौरी देवदेवेशं प्रणम्य आत्मनः शिवेन सह ऐक्यं प्रार्थितवती। जगतः कल्याणाय तया उक्तम् ," भवतः यत् भुजङ्गधारी, ब्रह्मकपालधारी, चिताभस्मालिप्तं भीषणं रूपम् तदिदानीं मास्तु। रत्नभूषाभिः युक्तः सन् दिव्यगन्धान् सन्धार्य भवानत्र विहारं करोतु। भवान् मङ्गलकरं सर्वलोकमनोहरम् इदं रूपं कदापि न त्यजतु । देवगन्धर्वकन्यकाः अत्र आगत्य नृत्यवादित्रगीतिभिः भवन्तं सेवन्ताम्। भवतः गणाः अपि मानुषाः भूत्वा अत्र भवतः सेवां कुर्वताम्। भवतः प्रसादात् आवयोः अत्र जातः सङ्गमः केवलदर्शनात् सर्वेषां भक्त्युत्पादकः सर्वार्थदायकः च भवेत्। भवतः इदं अरुणाचलाख्यं वपुः सर्वमन्त्रात्मकं वर्तते। अनन्यशरणैः भक्तजनैः ज्ञानात् अज्ञानात् वा कृतम् अपराधसहस्रमपि भवतः ईक्षणादत्र नष्टं भवेत्।"
गौर्य्याः एतद्वचनं श्रुत्वा अरुणेशः तस्यै सर्वानभीप्सितान् वरान् प्रादात्। पुनश्च तेनोक्तम्, "पुरा पुलकनामकेन दैत्येन मृगरूपं धृत्वा घोरं तपः आचरितम्। मत्प्रसादात् तस्य शरीरे महान् सुगन्धः उत्पन्नः अभवत्। तेन सः सुरयोषितः अमोहयत्। अधर्माचरणेन सः सम्पूर्णं जगत् समत्रासयत्। तदा देवैः अभ्यर्थितः अहं तम् असुरम् आहूय स्वशरीरस्य त्यागं कर्तुम् आदिष्टवान्। तदा पुलकेनोक्तम् ,"भगवन्, भवतः आज्ञानुसारमहम् इदं शरीरं त्यक्ष्यामि। तथापि मच्छरीरस्य एषः सुगन्धः भवता धारणाय योग्यः।अतः भवान् च देवी च इदं सुगन्धं धारयताम्। मम कृतेनैतेन त्यागेन ममान्वयाः अपि एतं सुगन्धं प्राप्नुयुः। एवमुक्ते असुरेण अहं तथा इति अवदम्। तदा तेनासुरेण मयि स्वजीवं संन्यस्य देहः त्यक्तः। तपसा कृशाङ्गी भवती तमेव सुगन्धं धारयतु।"
तदनन्तरं काञ्चीस्थितस्य एकाम्रेश्वरलिङ्गस्य माहात्म्यमपि गौर्य्या कथितम्।
ब्रह्मा उवाच, " एषः शोणाचलः गौर्य्या सह अत्र वर्तते। एतत् अरुणाचलात्मकं शाम्भवं रूपं ये पश्यन्ति, नमस्यन्ति ते कृतार्थाः भवन्ति। ये भुवि अरुणाचलस्य इदं माहात्म्यं शृण्वन्ति ते सर्वाः सम्पदः, उत्तमं रूपम् ,अव्याहतं बलं , वाक्पतित्वं , पापनाशं च प्राप्नुवन्ति। सदाशिवस्य प्रसादात् शोणाद्रिदर्शनं सर्वतीर्थस्नानस्य सर्वेषां यज्ञानां च फलं प्रददाति। शिवाज्ञया कैलासशिखरात् आगत्य गौरी अपि अत्र शापात् मुक्तिं प्राप्तवती। भूमौ सर्वेषु शैवस्थानेषु अत्रैव शिवः स्वयं प्रतितिष्ठति। अयम् अरुणाचलः साक्षात् सदाशिवः परमतेजोरूपः।सर्वदेवैः नमस्कृतमिदं जगतः सर्गस्थित्यन्तकारणम् लिङ्गम्। अतः एषा कर्मभूमिः धर्मप्राप्तिदृष्ट्या सर्वक्षेत्रेभ्यः अपि अधिका। अरुणाचलस्य तेजसा निर्धूतपापाः जनाः लोके सर्वतः सुखं प्राप्स्यन्ति। तपसा योगैः दानैः वा शम्भुः तथा न प्रसीदति यथा केवलम् अरुणाचलस्य दर्शनात् प्रसीदेत्। वेदाः अरुणाचलं परितः गिरिरूपेण स्थित्वा तस्य स्तुतिं कुर्वन्ति। अरुणाचलस्य माहात्म्यं कोटिवर्षशतैरपि मया अथवा विष्णुना अपि नैव कथयितुं शक्यते। विष्णुमुख्याः देवाः कल्पद्रुमादयाः देववृक्षाः अपि प्रच्छन्नरूपेण अरुणाद्रिं सेवन्ते।अरुणाचलसंज्ञितमिदं लिङ्गं यः पूजयति तस्य कलिदोषाः आधिव्याधयः च नोद्भवन्ति।"
एवं विधिमुखात् सनकमुनिना अरुणाचलस्य अमृतोपमं मनोहरं पुण्यं च माहात्म्यं श्रुतम्। तेन सः स्वतपसः इष्टफलं च लब्धवान्।