वज्राङ्गदवृत्तान्त:।
मार्कण्डेय: उवाच–हे शिवानन्द नन्दिकेश्वर, भवत: मुखात् शोणेशस्य माहात्म्यं श्रुत्वा अहम् अत्यन्तम् आह्लादित: अस्मि। इतोपि पाण्ड्यराज: वज्राङ्गद: शोणाचलेश्वरस्य व्यतिक्रमं कृत्वा पुन: तस्य भक्त्या सम्पदं कथं प्राप्तवान् तन्मां श्रावयतु। अपरं च कान्तिशालि: कलाधर: चेत्येतौ द्वौ विद्याधरौ दुर्वासस: शापात् शोणेशेन कथं मोचितौ?
नन्दिकेश्वर: उक्तवान् – हे मृकण्डुपुत्र, भवत: शिवे नित्यस्थायिनी भक्ति: वर्तते अत: भवता दीर्घायुष्यं प्राप्तमस्ति।
पुरा पाण्ड्यदेशे वज्राङ्गद: नाम पार्थिव: आसीत्। स: धार्मिक: न्यायवेत्ता, दानशूर: गाम्भीर्ययुक्त:, शान्त: विनयशील: एकदारनिरत: शिवपूजनतत्परश्च आसीत्। स: शत्रुञ्जय: आसेतुहिमालयं पृथ्वीं शशास।
कदाचित् मृगयाव्याजेन स: अरुणाचलस्य गहनारण्यं प्रविष्ट:। तत्र तेन कश्चित् कस्तूरीमृग: दृष्ट:। तस्य च पश्चात् स: कुतूहलेन अश्वारूढश्चलित:। तेन स: धावन् मृग: अरुणाद्रिम् अभित: अत्यन्तं वेगेन अनुगत:। ततश्च स: अत्यन्तं श्रान्त: भूत्वा अश्वात् भूमौ पपात। स्वस्य सामर्थ्यं केन अज्ञातकारणेन अपगतं तथा च मातङ्गेन पीडित: इव कथं स: आत्मग्लानिना अभिभूत: इति स: नैव अजानात्। मम अश्वोपि मां त्यक्त्वा कुत्र पलायित: इति स: अचिन्तयत्। एतावता तेन सहसा एकं तडिज्जालवत् तेज: अदृश्यत। यदा स: तत् निरीक्षमाण: आसीत् तावता स्वस्य पशुकलेवरं विहाय मृगाश्वौ उभावपि किरीटिनौ कुण्डलिनौ हारकेयूरधारिणौ क्षौमवस्त्रधारिणौ भूत्वा तस्य पुरतौ उपातिष्ठताम्। तौ राजनम् ऊचतु:--राजन् अलं विषादेन। अरुणाद्रीशप्रभावत: आवाम् एतं नवं रूपं प्राप्तवन्तौ। राजा विनयान्वित: कृताञ्जलि: च अभाषत–कौ भवन्तौ याभ्यां मम ईदृश: अभिषङ्ग: (शोक:) निर्मित:?
तदा कलाधर: उवाच–आवां पुरा परस्परम् अतिसौहार्दौ विद्याधरौ आस्ताम्। एकदा आवां शोणाद्रे: समीपं दुर्वासस: मुने: तपोवनम् अगच्छाव। तत्र तेन तपोबलेन शिवाराधनार्थं निर्मिता क्रोशं यावत् दीप्तिमती पुष्पवाटिका आवाभ्यां दृष्टा। पुष्पावचयोत्सुकौ भूत्वाआवां तां वाटिकां प्रविष्टवन्तौ। तस्य स्थलस्य आसक्त्या अतिगर्वित: कान्तिशालि: पादाभ्यां आरामभूमिं यदृच्छया घट्टयन् सचारं कृतवान्। पुष्पाणां गन्धातिशयेन मोहित: सन् अहं पुष्पावचयार्थं हस्तं पुष्पेषु न्यस्तवान्।
तदा तपसां राशि: , ज्वलन् हुताशन: इव वक्रभ्रुकुटि: दुर्वासा: रोषदृशा आवां ज्वालयन्निव अभर्त्सयत–आचारहीनौ भवन्तौ कौ मम कोपवह्निं प्रवेष्टुकामौ शलभौ ? शिवसपर्यार्थं निर्मितमिदं मम पावनं तपोवनं सूर्यचन्द्रमसावपि पादै: न स्पृशत:। ममानुज्ञां विना षट्पदा अपि अत्र न भ्रमन्ति वायुरपि न वाति। तदिदं वनं पादसञ्चारै: दूषयन्नेष: पातकी परवाह्यत्वपीडित: अश्व: भवतु। अयमपर: अपि पुष्पगन्धलोभी गन्धसारङ्ग: भूत्वा अचलकन्दरे पततु।
तस्य शापवज्रस्य प्रहारात् विगतगर्वौ भूत्वा आवां तत्क्षणमेव तं मुनिं शरणं गतौ। तस्य चरणोपसङ्ग्रहणं कृत्वा ‘भवत: अमोघशापस्य अन्त: कथं भवेत् तत्कथ्यताम्’ इति तं मुनिम् अभ्यर्थितवन्तौ। आवयो: अतिदीनताम् अवलोक्य स: मुनि: करुणार्द्र: अतिशीतल: अभवत्। स: उक्तवान्– दुर्धियो: भवतो: शापात् मुक्ति: अरुणाद्रे: प्रदक्षिणं विना न शक्या। पुरा कदाचित् अरुणेश: यदा इन्द्रविष्ण्वादिभि: देवै: परिचर्यमाण: सभायाम् उपविष्ट: आसीत् तदा नन्दनवनस्य देवतया पाटलवर्णं फलमेकं अरुणेशाय उपायनीकृतम्। बाल्यात् कुतूहलाक्रान्तौ गणेशषडाननौ तं लोभनीयफलं पितरम् अयाचेताम्।
तदा हस्तसम्पुटेन तत्फलं गोपयन् शिव: फलतृषितौ तौ कुमारौ प्राह–भवतो: मध्ये य: कोपि इमां समस्तां पृथिवीं प्रदक्षिणीकर्तुं समर्थ: स्यात् तस्मै अहं एनं फलं दास्यामि। तदा षण्मुख: सत्यमेव मेदिनीं परिक्रमितुं गत:। हेरम्बस्तु केवलं पितृभूतस्य शोणशैलस्य प्रदक्षिणां कृत्वा सत्वरं प्रतिनिवृत्त:। तस्य चातुर्यं दृष्ट्वा प्रीतेन शिवेन तस्य मस्तकं प्रेम्णा आघ्राय तस्मै तत्फलं दत्तम्। भवान् अद्यप्रभृति सर्वेषां फलानाम् अधिनायक: भवतु इति गणेशाय वरोपि दत्त:। सर्वान् सुरासुरान् सभाजनान् स: अवदत्–एष: शोणाद्रि: मम एव स्थावराकार: अस्ति। य: तस्य प्रदक्षिणां कुर्यात् स: मम सारूप्यं प्राप्नुयात्। यस्य पादे प्रदक्षिणजनिता पीडा उद्भवेत् स: उत्कृष्टं शाश्वतं पदं प्राप्नुयात्।
एतस्मात् शम्भो: शासनात् सर्वे देवा: शोणशैलप्रदक्षिणं विधाय स्वस्वेप्सितं प्राप्तवन्त:। शोणाचलस्य प्रदक्षिणेन भवतो: अपि शापस्य अन्त: भविष्यति। पशुयोनिं प्राप्तवतो: अपि भवतो: शोणाचलप्रदक्षिणा पाण्ड्यनृपते: दोषेण सेत्स्यति। एवं दुर्वासस: शापस्य प्रभावात् आवां तिर्यग्योनिं प्राप्तौ।
कलाधरकान्तिशालिवृत्तान्त:।
कलाधर: उवाच–एवं कान्तिशालि: कम्बोजेषु अश्व: भूत्वा भवत: वाहनम् अभवत्। अहं च गन्धमृग: भूत्वा स्वाङ्गात् प्रसूतस्य गन्धस्य अनुसारेण अस्मिगिरौ सञ्चारं कृतवान्। हे धर्मात्मन् मृगव्याजेन अत्र आगतेन भवता आवाभ्यां अरुणेशस्य प्रदक्षिणा कारिता। भवान् अश्वारूढ: आसीत् अत: भवत: इयं दशा जाता। आवां तु पदप्रचारात् प्राप्तेन पुण्येन पूर्वतनीं दशां प्राप्तवन्तौ। तव सम्बन्धात् आवां तिर्यक्त्वबन्धनात् मोचितौ। स्वस्ति भवते।
एवमुक्त्वा स्वधाम गन्तुमुद्युक्तौ तौ राजा कृताञ्जलि: अभाषत–भवन्तौ शोणाद्रे: प्रभावात् शापमुक्तौ अभवताम्। तथापि मम उच्छ्रय: कथं सम्भवेत् तद्विषये बोध्यताम्।
तदा उभौ कान्तिशालिकलाधरौ ऊचतु:--भवत: निस्तारोपायं प्रब्रूव:, सावधानं श्रूयताम्। सर्गस्थितिलयतिरोधानानुग्रहक्षमे करुणानिधौ अरुणेश्वरे मन: निदधातु। अरुणेश्वरस्य सामर्थ्यं तिर्यग्योनित: आवयो: रूपान्तरणेन भवता प्रत्यक्षीकृतम्। भवान् पद्भ्यामेव अरुणेश्वरस्य प्रदक्षिणं कृत्वा कल्हारै: तं पूजयतु। यावती सम्पत्ति: भवत: समीपे अस्ति तावती अरुणाचलमन्दिरस्य प्राकारगोपुरागाराणां नवीकरणाय व्ययीकरोतु। एतेन मनु: मान्धाता, नाभाग:, भगीरथ: इव भवानपि महतीं सिद्धिं निश्चयेन प्राप्स्यति।
विद्याधरयो: एतत्कथनं श्रुत्वा पाण्ड्यनरेशे अरुणाद्रिनाथस्य विषये महती भक्ति: समुत्पन्ना।
वज्राङ्गदसद्गतिवर्णनम्।
मार्कण्डेय: उवाच–हे नन्दीश, शिवमाहात्म्यसमुद्रात् समुत्थितां सुधाम् इव विद्याधरयो: विचित्रं चरित्रं मया श्रुतम्। इदानीं वज्राङ्गद: विनयोपेत: सन् कथं अरुणेश्वरं अपूजयत् कथं च तेन अरुणेशस्य अनुग्रह: प्राप्त: एतद्विषये श्रोतुमिच्छामि।
नन्दिकेश्वर: उक्तवान्–निजपुरं प्रति निवर्तनस्य इच्छा राज्ञ: चित्तात् अपगता। स: अरुणेशस्य उपत्यकायामेव वासं कर्तुम् आरेभे। तस्य अनुगामिनी रथगजतुरगादियुता सेनापि तत्र आगता आसीत्। पुरोहितमन्त्रिसामन्तसेनापतिसुहृद्भि: राज्ञ: दर्शनं कृतम्। तथापि राजा तान् सर्वान् अरुणाद्रे: सीमाया: बहि: एव न्यवेशयत्।
तदनन्तरं राजा स्वस्य सम्पूर्णं कोशं अरुणेश्वरस्य पूजायै समर्पितवान्। गौतमाश्रमस्य पार्श्वे एव तेन स्वस्य तपोवनं निर्मितम्। अनन्तरं स: पुरोहितेन उक्तेन मार्गेण ससचिवं अरुणाद्रे: आराधनायां रत: अभवत्। तेन रत्नाङ्गदनामक: स्वपुत्र: स्वस्य पदे स्थापित:। तेन प्रेषिताभि: सामग्रीभि: स: शोणशैलम् समर्चयत्। शोणशैलं परित: तेन ब्राह्मणेभ्य: परिपूर्णजलाशया: बहुफला: अग्रहारा: निर्मिता:। अल्पोदके मरुदेशेपि तेन बह्व्य: वाप्य: निर्मिता:। निजपरिवारस्य सौन्दर्यशालिन्य: स्रिय: तेन अरुणेशस्य परिचर्यार्थं निरयोजिता:। लोपामुद्रया सह आगतेन अगस्त्येन सह स: आनन्दित: सन् अरुणेशं पूजितवान्। प्रत्यहं स: नवतीर्थाख्ये जलाशये स्नानं कृत्वा अरुणेशं पूजयति स्म। महिषासुरसंहारकारिणीम् आर्तिनाशिनीं दुर्गामपि स: नित्यम् आराधयामास। ब्रह्मविष्णुपूज्यस्य लिङृगरूपस्य आदिदेवस्य प्रतिक्षणं स: विविधा: सपर्या: कल्पयति स्म। प्रत्युषसि उत्थाय निवृत्तस्नान: स: पञ्चाक्षरमन्त्रं जपन् त्रिवारं अरुणेशस्य प्रदक्षिणां व्यदधात्। कार्तिकपूर्णिमायां स: शिवप्रियं महादीपोत्सवम् आचरति स्म। सुगन्धिकमलकर्पूरजलपूरितै: सहस्रस्वर्णकुम्भै: च स: त्र्यम्बकम् अभ्यषिञ्चत्। प्रतिमासं स: त्रैलोक्यपूज्यं रथारोहोत्सवं आचरति स्म। योजनत्रितयविस्तृतस्य अरुणाद्रे: अङ्गप्रदक्षिणां स: नित्यमेव चकार।
एवं त्रीणि वर्षाणि तेन अरुणेशस्य अखण्डाराधनं वरिवस्या च विहिता। तदा वृषारूढ: देवीसहित: कुम्भनिकुम्भादिभि: गणै: वसिष्ठादिभि: ब्रह्मर्षिभि: नारदादिदेवर्षिभिश्च जयस्तुति: क्रियमाण: शोणेश्वर: सन्तुष्ट: भूत्वा तस्य प्रत्यक्षीभूत:। तं देवदेवेशं दृष्ट्वा वज्राङ्गदेन साष्टाङ्गप्रणिपात: विहित: स्वस्य अपराधार्थं च क्षमायाचना कृता।
तदा तम् अत्यन्तदीनं राजानं शोणाचलेश्वर: एवमुवाच– हे वत्स भवत: कल्याणं भवतु। भयं मास्तु। पुरा भवान् इन्द्र: आसीत्। कैलासशिखरे भवान् मम अवमाननं कृतवान् इत्यर्थं मया भवत: स्तम्भनं कृतम्। तदा गलितगर्व: भवान् मां सकलैश्वर्यसाधकं शिवज्ञानम् अयाचत। वज्राङ्गदरूपेण भवान् अवन्यां जन्म लब्ध्वा मत्कृपां लप्स्यते इति मया आदिष्टम्।
भवता अहर्निशं या मम सपर्या विहिता तया अहम् अत्यन्तं सन्तुष्ट: अस्मि अत: अहं भवन्तं बोधयामि, शृणोतु भवान्। आकाश:, वायु:, अग्नि: ,जलम्, मूमि: ,सूर्य:, चन्द्र: पुमान् च एताभि: मम अष्टाभि: मूर्तिभि: सकलं चराचरं भासते। अहं काल: भूत्वा सर्वान् प्राणिन: स्वकर्मानुसारं जन्ममृत्युचक्रे भ्रामयामि। अहं तत्त्वतीत: शिव: अस्मि। मत्त: परतरं न किञ्चित् विद्यते।
अमर्यादचिदानन्दसमुद्रस्य मम काश्चन ऊर्मय: ब्रह्मा, विष्णु:, रुद्र:, इन्द्र: इत्यादिभि: नामभि: ज्ञायन्ते। असङ्ख्येयमहाशक्तेर्मम काश्चन सर्जनशक्तय: सरस्वती, लक्ष्मी:, क्षमा, श्रद्धा, स्वाहा स्वधा इत्यादिनामभि: प्रसिद्धा:। इयं मम गौरी नाम्नी जगत: प्रसवित्री मायाशक्ति: विश्वम् संहरते विस्तारयति च। शक्तया अनया अन्वित: सन् अहं निजेच्छया जगत: सर्गस्थितिलयान् करोमि। भवान् एतं मम महिमानं विचारयतु। समुद्रस्य तरङ्गम् इव आत्मानं मत्त: अभिन्नमिति भावयतु। ततश्च मत्प्रसादेन क्षितौ यथासुखं भोगान् भुनक्तु। पुन: पुरन्दर: भूत्वा चिरं दिव्यसुखानि अनुभूय भवान् निश्चयेन मद्रूपतां यास्यति। एवमुक्त्वा शिव: तिरोहित: अभवत्।
ततश्च वज्राङ्गद: शोणेशं पूजयन् सर्वाणीप्सितानि प्राप्तवान्। शोणशैलस्य प्रदक्षिणस्य शाश्वतं फलं मयोक्तम्। एषा प्रदक्षिणा अश्वमेधानां शतात् अपि अतिशायिनी। किं बहुना उक्तेन? विषुवदिनम्, अयनदिनम्, सङ्क्रान्ति: व्यतीपात: एतेषु पर्वसु प्रदक्षिणेन मनुष्य: असङ्ख्येयं शूभफलं प्राप्नोति। अरुणाचलात् अधिकं क्षेत्रम्, अरुणेशात् महत्तर: देव:, प्रक्षिणात् परं तप: च न विद्यते। एवं नन्दिकेश्वरे कथयति पुलकितसर्वाङ्ग: मार्कण्डेय: शिवानन्दसुधाब्धौ निमग्न: अभवत्।
इति स्कान्दे माहेश्वरखण्डे अरुणाचलमाहात्म्ये उत्तरार्ध:।
