21
शिष्य:-- मनोनिग्रहार्थं क: सर्वश्रेष्ठ: उपाय:?
महर्षि:-- श्वासनियमनं मनस: निग्रहणार्थम् उपाय:।
22
शिष्य:--श्वासस्य नियमनं कथं करणीयम्?
महर्षि:-- श्वास: प्राणायामै: अथवा केवलकुम्भकेन निरोद्धुं शक्य:।
23
शिष्य:-- को नाम केवलकुम्भक:?
महर्षि:-- श्वासं नि:श्वासं च निरुध्य प्राणस्य हृदि दृढं स्थापनं केवलकुम्भक:। महत्तत्त्वादौ ध्यानेन तत् शक्यं भवति।
24
शिष्य:-- को नाम प्राणायाम:?
महर्षि:--यथा योगशास्त्रेषु निर्दिष्टं तथा श्वासस्य पूरणम् (पूरक:) बहि: नि:क्षेप: (रेचक:) तथा निरोध: (कुम्भक:) एतै: त्रिभि: प्राणस्य हृत्स्थाने दृढं स्थापना।
25
शिष्य:-- श्वासस्य नियमनं कथं मनस: नियमनोपाय:?
महर्षि:-- श्वासस्य नियमनं मनोनिग्रहस्य उपाय: अस्ति इत्यत्र संशय: मास्तु। श्वास: इव मन: अपि प्राणस्य अंश: एव यत: चलनं उभयो: समानं, तयो: उद्गमस्थानमपि तथा। अत: यदि एकं निगृहीतं तर्हि तेन अपरस्यापि निग्रह: भवति एव।
26
शिष्य:-- श्वासनियमनं मनोलयजनकं न तु मनोनाशकम्। कथं तर्हि तत् आत्मविचारणासाधनं भवितुम् अर्हेत् यस्या: आत्मविचारणाया: ध्येयं मनोनाश: एव अस्ति?
महर्षि:--शास्त्राणि आत्मसाक्षात्कारस्य द्वौ मार्गौ कथयन्ति–अष्टाङ्गयोग: अष्टाङ्गज्ञानं च। अष्टाङ्गयोगे प्राणायामेन अथवा केवलकुम्भकेन मन: निरुद्धं भवति। तत्रैव मन: अविमुच्य यदि कश्चन मनस: बाह्यविषयात् प्रत्यावर्तनम् (प्रत्याहार:) इत्यादीनि योगस्य अग्रिमाङ्गानि अभ्यसेत् तर्हि तेनापि आत्मविचारणाया: फलरूपम् आत्मसाक्षात्कारं स: निश्चप्रचम् अधिगच्छेत्।
27
शिष्य:--कानि योगस्य अङ्गानि?
महर्षि:-- यम:, नियम:, आसनम्, प्राणायाम:, प्रत्याहार:, धारणा, ध्यानम्, समाधि: इत्येतानि योगस्य अष्टाङ्गानि।
१) यम: – वर्तने अहिंसा, सत्यम्, अस्तेयम्, ब्रह्मचर्यम्, अपरिग्रह: एतेषां सद्गुणानां वर्धनम्।
२) नियम:--वर्तने शौचम्, सन्तोष:,तप:,स्वाध्याय:, ईश्वरध्यानम् इत्यादीनाम् अवलम्बनम्।
३) आसनम्– चतुरशीति: मुख्यानि आसनानि भवन्ति। तेषु पुन: सिंहासनम्, भद्रासनम्, पद्मासनम्, सिद्धासनं च इत्येतानि चत्वारि श्रेष्ठानि। एतेष्वपि सर्वेषु सिद्धासनं सर्वोत्कृष्टमिति शास्त्रोपदेश:।
४) प्राणायाम:-- शास्त्रोपदिष्टप्रमाणेन श्वासस्य ग्रहणं पूरक: विसर्जनं रेचक: हृत्स्थाने निरोधनं कुम्भक:। रेचकपूरकौ समप्रमाणौ तयोश्च द्विगुणित: कुम्भक: भवेत् इति केचन शास्त्रग्रन्था:। केचन अन्ये कथयन्ति यत् पूरकस्य यत्प्रमाणं तस्य द्विगुणितं रेचकस्य चतुर्गुणं च कुम्भकस्य भवतु इति। अत्र प्रमाणं नाम गायत्रीमन्त्रस्य एकवारम् उच्चारणार्थम् आवशृयक: काल:। एवं स्वस्य क्षमतानुसारं पूरकरेचककुम्भकै: युत: प्राणायाम: शनै: शनै: अभ्यसेत्। एतेन मनसि अचलतया स्थित्वा आनन्दानुभूते: इच्छा उत्पद्यते। एतस्मादनन्तरं प्रत्याहार: अभ्यसनीय:।
५) प्रत्याहार:-- बाह्यनामरूपान् प्रति मनस: धावनस्य निरोध: नाम प्रत्याहार:। एतेन तावत्कालपर्यन्तं विक्षिप्तं मन: इदानीं नियन्त्रितं भवति। एतदर्थं १) प्रणवध्यानम् २) भ्रुवो: मध्ये मनस: एकाग्रता ३) नासाग्रदृष्टि: ४) नादानुसन्धानम् एते चत्वार: उपाया: साह्यकारिण: भवन्ति। एतै: उपायै: एकाग्रं भूतं मन: एकस्मिन्नेव स्थाने दृढतया स्थिरीभवितुं सबलायते। तदनन्तरं धारणाया: अभ्यास: कर्तव्य:।
६) धारणा– ध्यानार्हे एकस्मिन्नेव स्थाने मनस: स्थिरीकरणं ध्यानम्। ब्रह्मरन्ध्रं (कपालशीर्षे विद्यमानं रन्ध्रम्) हृदयं च ध्यानाय प्रमुखे स्थाने स्त:। तस्मिन् स्थाने विद्यमाने अष्टदले कमले दीपज्योति: इव आत्मदेव: ब्रह्मरूप: प्रकाशमान: अस्ति एवं चिन्तनं करणीयं मन: च तस्मिन्नेव स्थिरीकरणीयम्। अनन्तरं ध्यानं कर्तव्यम्।
७) ध्यानम्– सोऽहंबुद्ध्या आत्मज्योते: अहम् अभिन्न: एवंरूपम् एतद्ध्यानं भवति। तथापि एतस्मात् साधनप्रकारादपि यदि ‘कोऽहम्?’ इति विचारणाया: अवलम्बनं क्रियते तर्हि सर्वगतं, सर्वेषां हृदि आत्मरूपेण प्रकाशमानं बुद्धे: साक्षिभूतं श्रुतिनिगदितं ब्रह्म एव स्वस्य हृदि ‘अहम्’, ‘अहम्’ इति स्फुरमाणं तिष्ठति इत्येतस्य ज्ञानं भवेत्। एवंप्रकारकं निदिध्यासनमेव सर्वोत्कृष्टं ध्यानम्।
८) समाधि:-- पूर्वोक्तसाधनाया: फलस्वरूपे मनस: ध्यानवस्तुनि लय: भवति, ‘अहम् अमुक: अस्मि, अहम् एतत् करोमि’ एवंप्रकारकस्य विचारस्य नाशश्च भवति। अन्ते समाधौ ‘अहम्’ इत्येष: विचार: अपि तिरोहित: भवति। य: निद्राबाधां दूरीकृत्य एवं प्रतिदिनम् अभ्यासं करोति भगवान् तस्मिन् अनुग्रहं कृत्वा तस्मै परां शान्तिं यच्छति।
28
शिष्य–प्रत्याहारे प्रणवध्यानस्य उपदेशस्य क: हेतु:?
महर्षि:-- प्रणव: नाम ओङ्कार: अ, उ, म तथा अर्धमात्रा एवं सार्धत्रिमात्रक:। एतासु मात्रासु अकार: जाग्रदवस्थाभिमानी स्थूलशरीराभिमानी च विश्वशब्देन निर्देशित: जीव:। उकार: स्वप्नावस्थाभिमानी, सूक्ष्मदेहाभिमानी, तैजसशब्दोक्त: जीव:। मकार: सुषुप्त्यभिमानी, कारणदेहात्मक: प्राज्ञसंज्ञोक्त: जीव:। अर्धमात्रा तुरीयशब्दोक्ता अहम्बोधस्वरूपा। एतेभ्य: परं यत् तत् तुरीयातीतम् आनन्दस्वरूपम्।
ध्यानस्य विवेचने कथिता या अहम्बोधरूपा तुरीयावस्था, सा अकार-उकार-मकाररूपाणां तिसृणां मात्राणां समूहरूपा अमात्रा, मौनाक्षरम्, अजपाजप:,अद्वैतमन्त्र: एवं बहुभि: शब्दै: निर्दिश्यते। सा एव पञ्चाक्षरादीनां सर्वेषां मन्त्राणां साररूपा। तस्या: यथार्थबोधार्थं प्रणवध्यानं विहितम्। एतद्ध्यानं भक्तिरूपं यस्मिन् आत्मस्वरूपस्य चिन्तनं क्रियते। एतस्य अभ्यासस्य परिणाम: नाम मोक्षरूप: समाधि: येन आत्यन्तिकस्य आनन्दस्य अवाप्ति: भवति। पूज्यगुरव: अपि एवमेव वदन्ति यत् आत्मचिन्तनरूपा या भक्ति: तया एव मोक्षप्राप्ति: भवति।
29
शिष्य:--’सोऽहम्’ विचारेण अभेदभावनया च ज्योतिर्मये स्वयंप्रकाशिनि सत्ये ध्यानस्य य: उपदेश: कृत: तस्य किं मर्म?
महर्षि:-- अ) ज्योतिर्मयात् सत: अहम् अभिन्न: अस्मि इत्येतस्या: भावनाया: परिपोषस्य य: उपदेश: तस्य सार: अयम्– ध्यानस्य विषये शास्त्राणि वदन्ति, ‘यत् कैलास: , वैकुण्ठ:, परमं पदम् इत्यादिभि: बहुभि: नामभि: ज्ञायते तस्य सर्वेषां स्वरूपभूतस्य अष्टदलहृत्कमलस्य मध्ये अङ्गुष्ठमात्रं विद्युत्वत् भासमानं ज्योतिर्मयं सत् विराजते। तस्य ध्यानं कृत्वा मनुष्य: अमृतत्त्वम् अवाप्नोति’ इति।
एतस्मात् उपदेशादिदं स्पष्टं भवति यत् एतादृशध्यानेन मनुष्य: १) ‘अहं सत: भिन्न: अस्मि’ एतस्या: भेदभावनाया: निरासं साधयति। २) मर्यादितस्य ध्यानस्य दोषम् अपाकरोति। ३) ‘सत् मर्यादितम् अस्ति’ एनां कल्पनां निवारयति। ४) ‘सत् एकस्मिन् विशिष्टे स्थले वर्तते’ इत्येनं भावं नाशयति।
आ) ‘सोऽहम्’ भावनया ध्यानोपदेशस्य सार: –स: अहम् इत्यस्मिन् उपदेशे स: शब्देन परमात्मा अहंशब्देन अहम्बोधयुक्त: जीवात्मा च निर्दिष्ट:। जीव: शिवलिङ्गरूप: स्वस्य आधारभूते हृत्कमले निवसति। एतत् हृत्कमलमेव ब्रह्मण: नगरम्। अहङ्काररूपं मन: शरीरेण तादात्म्यं साधयित्वा एतस्मात् ब्रह्मण: नगरात् बहि: गच्छति। मनस: हृत्कमले एव लय: तथा च शरीरे तस्य य: अहम्बोध: तस्य नाश: च साधनीय:।
अविचलभावेन यदा मनुष्य: ‘कोऽहम्’ इति विचारणाम् आरभते तदा आत्मन: स्वरूपं ‘अहम् ,अहम्’ एवंरीत्या सूक्ष्मभावेन प्रकाशितं भवति। स: आत्मा एव सर्वं पुनश्च स: सर्वस्य अभावरूप: अपि। स एव परमात्मरूपेण सर्वत्र अन्तर्बहिर्भेदरहितं प्रकाशते। स एव ‘अहं ब्रह्मास्मि’ इति सत्यं प्रकटयन् यथोक्तज्योति:स्वरूपेण अन्तरात्मनि तिष्ठति। यदि कश्चन तं भेदभावनया पश्यति तर्हि अज्ञानस्य नाश: न भवेत्। अत: तादात्म्यभावेन ध्यानम् उपदिष्टम्।
एवं यदि कश्चन विक्षेपरहितं चिरकालं यावत् सोऽहं भावनया आत्मन: ध्यानं कुर्यात् तर्हि तस्य हृत्स्थस्य अज्ञानस्य तथा च अज्ञानस्य परिणामस्वरूपाणां प्रत्यवायानामपि नाश: भवेत् स: सर्वज्ञतां च प्राप्नुयात्।
एवं ब्रह्मनगर्यां हृत्कमले सत: साक्षात्करणं तथा च परिपूर्णस्य ईश्वरस्य अपरोक्षानुभूति: समाने एव स्त:।
नवद्वारयुक्ते शरीररूपिणि पुरे वशी जितेन्द्रिय: देही जीवात्मा सुखम् आस्ते सुखेन तिष्ठति।
शरीरमेव मन्दिरम्। जीव: एव शिव: परमेश्वर:। यदि मनुष्य ‘शिवोऽहम्’ इति विचारेण तस्य पूजनं कुर्यात् तर्हि स: मोक्षम् अवाप्नुयात्।
पञ्चकोषयुक्तं शरीरं गुहारूपम्। तत्र निवसन् परमात्मा गुहास्वामी एवं वदन्ति शास्त्राणि।
यत: सर्वेषां देवानाम् अस्तित्वमेव आत्मा, तस्मिन् आत्मनि ध्यानमेव सर्वश्रेष्ठं ध्यानम्। इतराणि सर्वप्रकारकाणि ध्यानानि एतस्मिन् ध्याने अन्तर्भवन्ति। आत्मध्यानस्य अर्हताया: प्रापणार्थमेव अन्यप्रकारकाणि ध्यानान्युपदिष्टानि। यदि एतदेव ध्यानम् अङ्गीक्रियते तर्हि इतरेषां ध्यानानाम् आवश्यकता न वर्तते। आत्मन: ज्ञानमेव ईश्वरस्य ज्ञानम्। आत्मानं विहाय कश्चन भेदभावनया अन्यदैवतस्य ध्यानं करोति तर्हि तत् स्वस्य चरणेन स्वस्यैव छायाया: मापनसदृशम् अथवा अमूल्यस्य स्वायत्तस्य च रत्नमणे: त्यागं कृत्वा मूल्यहीनस्य शुक्तिकाया: अन्वेषणसदृशम् अस्ति इति गुरव: वदन्ति।
30
शिष्य:-- यद्यपि हृत्कमलं ब्रह्मरन्ध्रं च इति द्वे एव स्थाने ध्यानार्थमुत्तमे स्त: तथापि आवश्यकतानुसारं मनुष्य: षट्सु चक्रेषु ध्यानं कुर्यात् किम्?
महर्षि:-- ध्यानस्थानानि षट् चक्राणि कल्पनया एव गम्यानि सन्ति। योगस्य प्रारम्भिकाभ्यासिनां कृते एव तानि उपयुक्तानि सन्ति। शिवयोगिन: वदन्ति, “अद्वैतस्वरूप:,सर्वव्यापी, चिद्रूप: ईश्वर: एव सर्वाणि भूतजातानि व्यक्तीकरोति, पालयति संहरते च। सत्यस्वरूपे तस्मिन् गणपति:, ब्रह्मा, विष्णु:, महेश्वर:, सदाशिव: इत्यादीनां नामरूपाणाम् अध्यासकरणं महापापमेव। वेदान्तिन: वदन्ति, “एते सर्वे देवा: मनस: कल्पना: एव सन्ति।” एवं सति य: चित्स्वरूपस्य सर्वज्ञस्य आत्मन: ज्ञानं प्राप्नोति स: सर्वज्ञ: भवति। गुरव: वदन्ति, “ तस्य एकस्य स्वरूपं ज्ञात्वा सर्वं ज्ञेयं ज्ञातं भवति।” यदि सर्वदा विविधविचारयुक्ता वयं आत्मरूपेण तिष्ठत: परमेशस्य ध्यानं कुर्म: तर्हि तेन एकेन विचारेण इतरे सर्वे विचारा: लयं यान्ति। अन्ते स: एक: विचार: अपि नश्यति। एतस्मादेव उक्तं यत् आत्मज्ञानमेव ईश्वरज्ञानम् इति। एतेन ज्ञानेन मुक्तिं विन्दते।
