विचारसङ्ग्रह:--१



रमणविचारसङ्ग्रह:। (Ramana’s Self Enquiry)

आमुखम्।

एष: गद्यग्रन्थ: चत्वारिंशत: प्रश्नोत्तराणां सङ्ग्रह: येषु सर्वा अपि आध्यात्मिकसाधना: मुक्तिसहायिका: विशदीकृता:। स: प्रश्नकर्ता आसीत् गम्भीरं शेषय्यामहाभाग: य: भगवत: रमणमहर्षे: प्रारम्भिकभक्तेष्वेक: आसीत्। स: प्राय: ईसवीये नवदशशततमे वर्षे तिरुवण्णमलै-नगरपालिकायां अधिकर्मिकरूपेण (Municipal Overseer) कार्यं करोति स्म। स: रामस्य नैष्ठिक: भक्त: पुनश्च तस्य योगशास्त्रस्याध्ययने योगाभ्यासेऽपि च महती रुचि: आसीत्। स: स्वामिविवेकानन्दस्य विविधयोगविषयाणि व्याख्यानानि तथा आङ्ग्लभाषया अनूदिता रामगीता च पठति स्म। आध्यात्मिकसाधनाकाले तथा च ग्रन्थानां पठनसमये यानि काठिन्यानि स: अनुभवति स्म तेषां समाधानार्थं स: पुन: पुन: भगवन्तं रमणमहर्षिं प्रति आगच्छति स्म। भगवान्रमण: तदानीं केवलं एकविंशतिवर्षीय: युवा आसीत्। स: अरुणाचलपर्वते विरूपाक्षगुहायां निवसति स्म। तदा स: वक्तुमनिच्छाया: कारणात् मौनम् आचरति स्म। अत: शेषय्यामहोदयस्य प्रश्नानामुत्तराणि स: कर्गजांशेषु लिखित्वा ददाति स्म। १९०० त: १९०२ पर्यन्तं लेख्यमानानि तान्युत्तराणि सङ्गृह्य शेषय्यामहोदयेन तानि एकस्यां लेखनपुस्तिकायां पुनर्लिखितानि। एतत्सर्वं लेखनं रमणाश्रमद्वारा ‘विचारसङ्ग्रह:’ इति शीर्षकेन प्रकाशितम् अभवत्। अनन्तरम् एतस्यैव आङ्ग्लानुवाद: Self Enquiry इति नाम्ना प्रसिद्धिं गत:।

विचारसङ्ग्रह: इत्येष: महत्वपूर्णो लेख: यत: स: भगवता रमणेन लिखितरूपेण कृत: प्रथम: आध्यात्मिकोपदेश:। एष: उपदेश: रमणमहर्षे: स्वस्य आध्यात्मिकानुभवेषु आधारित: अस्ति। एते अनुभवा: विविधशास्त्रग्रन्थै: पुष्टीकृता: ये ग्रन्था: तदा तदा भक्तै: महर्षे: पुरत: आनीयन्ते स्म। भक्तानां शङ्कासमाधानार्थं स: तेषां परिशीलनं करोति स्म।

महर्षि: स्वस्योपदेशे ‘एतत् शास्त्रविधानम्’ ‘एष: साधूनामुपदेश:’ एतादृशानि वाक्यानि वदति, भगवद्गीता, विवेकचूडामणि: एताभ्यां ग्रन्थाभ्यां उद्धरणानि अपि ददाति। ऋभुगीता तेन एकत्र नाम्ना निर्दिष्टास्ति। तथापि एतान्युद्धरणानि तस्य स्वगतानाम् आध्यात्मिकानुभवानाम् केवलं पुष्टीकरणानि एव सन्ति इति स्पष्टम्।

एष: उपदेश: मूलत: अद्वैतवेदान्ताधारित: अस्ति। अद्वैतात्मन: सम्पूर्णानुभव: एव तस्य ध्येयम्। आत्मन: स्वरूपविषये विचारणा एव तस्य साधनरूपा। यदा मन: आत्मन: शरीरादिभि: अनात्मवस्तुभि: सह तादात्म्यं कल्पयति तदा संसारबन्धनम् उद्भवति। आत्मविचारणाद्वारा एतत् प्रमादरूपं तादात्म्यं निरस्यते तदा मुक्ति: लभ्यते। एवमेष: आत्मविचारणारूप: महर्षिणा उपदिष्ट: साक्षात् मुक्तिमार्ग:। 

‘अहम्’ इति अनुभव: सर्वेषां समान:। ‘अहम्’ इति विचार: एव मनसि उद्भवन् प्रथम: विचार:। अत्र करणीयं नाम ‘अहम्’ इति विचारस्य स्रोत: अन्वेष्टव्य:। एष: मनसि सामान्यत: जायमानाया: विचारप्रक्रियाया: व्यतिक्रम:। मन: स्वं विहाय सर्वेषां वस्तूनां स्वरूपं स्रोत: वा अन्वेषयति। परीक्षिते सति एतत्सर्वं बाह्यं जगत् मन:प्रक्षेप: इत्येव ज्ञायते। स्वात्मन: प्राप्ति: मनस: अन्तर्मुखीकरणेनैव भवति। 

तथापि मानसशास्त्रज्ञानां या आत्मनिरीक्षणपद्धति: सा एव आत्मविचारणा इत्येषा भ्रान्ति: मास्तु। आत्मविचारणा नाम मनस: प्रक्रियाणां निरीक्षणं न। एतत्तु मनस: या प्रथमा वृत्ति: ‘अहम्’ इति, तस्या: मूलस्रोतस:, नाम आत्मन: अन्वेषणम्। 

यदि एषा आत्मविचारणा सुयोग्यं सन्ततं च विधीयते तर्हि एष: ‘अहम्’ इति विचार: अपि स्थगितो भवति। तदा च हृदयस्थले ‘अहम्’,’अहम्’ इति शब्दरहितं स्फुरणम् शुद्धबोधस्वरूपम् अनुभूयते। तदनन्तरं तत् स्फुरणमपि आत्मनि विलीनं भवति। एष: एव मोक्ष: संसारबन्धनात् मुक्ततारूप:। 


विचारसङ्ग्रह:

आत्मरूपेण दृढतया निवसनं विहाय सर्वात्मकस्य परमेशस्य अनन्यभक्ते: क: अपर: मार्ग: स्यात् ?

शिष्य: – हे गुरो, सर्वदा दु:खरहितस्य शाश्वतानन्दस्य या स्थिति: तस्या: प्राप्त्यर्थं क: मार्ग:?

महर्षि: – ‘यत्र यत्र शरीरं तत्र तत्र दु:खम्’ इत्येतत् वेदविधानम्। तदतिरिच्य सर्वेषामेव एतादृश: साक्षादनुभव: अपि अस्ति। अत: स्वस्य यत् यथार्थस्वरूपं सर्वदा शरीररहितम् तत् विचारणीयं तथा तदात्मकत्वेनैव सर्वदा निवसनं इत्येष: शाश्वतानन्दस्य प्राप्त्यर्थं मार्ग: अस्ति। 

2

शिष्य:— स्वस्य यथार्थस्वरूपविषये विचारणा तथा च तस्य अवगमनं नाम किम्?

महर्षि:— ‘अहं गतवान्’, ‘अहम् आगतवान्’,’अहम् आसम्’, ‘अहं कृतवान्’ एतादृश: सर्वेषां नैसर्गिकानुभव:। एतै: अनुभवै: किमिदं न सिध्यति यत् एतेषां सर्वेषामनुभवानां ज्ञाता चित्स्वरूप: ‘अहम्’ इति?

तस्य चित्स्वरूपस्य विषये विचारणा तथा च तस्मिन् चिदात्मन्येव निवसनम् एष: एव स्वस्वरूपस्य अवगमार्थं आत्मविचारणामार्ग:।

3

शिष्य:– कोऽहमित्येषा विचारणा कथं विधेया?

महर्षि:– गमनागमनादय: क्रिया: शरीरधर्मा:। अत: कश्चन यदा ‘अहं गतवान् ,अहम् आगतवान्’ इत्यादि वदति तदा तस्यार्थ: ‘एतत् शरीरम् एव अहम् अस्मि’ इति भवति। तथापि एतत् शरीरमेव चैतन्यस्वरूप: अहम् इति वक्तुं शक्येत किम्? यत: जन्मन: पूर्वम् एतत् शरीरं नासीत् ; एतच्च पञ्चमहाभूतात्मकम् ; सुषुप्तौ एतत् न विद्यते ; तथा च मरणात् अनन्तरमेतत् शव: भवति। काष्ठखण्ड: इव निर्जीवमेतत् ‘अहम्’ ‘अहम्’ इति प्रकाशते इति वक्तुं शक्येत किम्? नैव। एतेन कारणेन य: शरीरविषये प्रथमम् उद्भवति स: अहम्बोध: एव अहङ्कार:, अविद्या, माया, जीव: एतै: शब्दै: बहुधा कथ्यते। तस्य विषये विचारणां विना किं वयं स्थातुं शक्नुम:? आत्मविचारणाद्वारा अस्माकं मुक्तिं साधयितुं सर्वाणि शास्त्राणि उद्घोषयन्ति यत् अहङ्कारस्य नाश: एव मुक्ति: इति। अत: शवरूपं शरीरं शव: इत्येव विचिन्त्य,’अहम्’ इति शब्दमपि अनुच्चार्य तीक्ष्णबुद्ध्या एतत् विचारणीयम् –’अहम्’ रूपेण क: एष: उद्भवति? तेन हृदयस्थले शब्दविरहितं कश्चन स्पन्दनं उदेति ‘अहम्’ ‘अहम्’ इति। तन्नाम हृदि स्वयमेव अमर्यादस्य शुद्धचैतन्यस्य स्फुरणं भवति। तदा मर्यादिता: बहुविधा: विचारा: नाशं यान्ति। यदा कश्चन अविचलरित्या तस्यामेवानुभूत्यां स्थिरो भवति, तदा ‘अहं शरीरम्’ इत्येवंरूप: व्यष्टिबोध: पूर्णतया नश्यति। अन्ते च अन्तिमविचार: ‘अहम्’ इत्यपि शान्तो भवति यथा कर्पूरे ज्वलिते अग्नि:। एष: एव मोक्ष: इति महर्षीणां शास्त्राणां च उद्घोषणम्।

4

शिष्य:–यथा यथा कश्चन अहम्बोधरूपम् अहङ्कारस्य मूलम् अन्वेषयति तथा तथा अगणिता: विचारा: तरङ्गबुद्बुद्वत् प्रादुर्भवन्ति न तु केवल: अहम् इति विचार:।

महर्षि:– वाक्ये प्रथमाविभक्ते: साक्षादुल्लेख: न भवति चेदपि वाक्ये विद्यमाना: अन्या: सर्वा: विभक्तय: तन्मूला: एव वर्तन्ते तथैव ये अन्ये विचारा: हृदि उद्भवन्ति ते अहम्बोधमूला: एव सन्ति। स: बोध: ‘अहम्’ इति मनस: प्रथमा वृत्ति:। सा ‘अहं शरीरम्’ एवंरूपा भूत्वा प्रवर्तते। एवं अहम्बोधस्य उत्पत्तिरेव अन्येषां सर्वेषां विचाराणां कारणं स्रोत: वा। एष: अहम्बोध: एव भासमानस्य संसारवृक्षस्य मूलम्। तस्मिन्नष्टे अन्ये सर्वे विचारा: निर्मूला: भूत्वा नश्यन्ति।

अन्ये केऽपि विचारा: मार्गे प्रत्यवाया: भूत्वा उद्भवेयुर्नाम, तेषामनुसारेण गन्तुं मन: न अनुमन्येत। तत् आत्मन्येव निवेशय्य तिष्ठेत्। मनुष्य: स्वं परित: यत्किमपि घटते तस्य साक्षी भूत्वा ‘यत् किमपि विचित्रं जायमानमस्ति जायताम् नाम , पश्याम्यहम्’ एवं चिन्तयन् तिष्ठेत्। एवंरूपा साधना भवतु।

अन्यै: शब्दै: कथयामश्चेत् स्वात्मानं त्यक्त्वा यदाभासात्मकं जगत् तेन सह स्वस्य तादात्म्यं नैव साधनीयम्। एष: एव मनोनाशस्य युक्तियुक्त: मार्ग:। मन: एव स्वं शरीररूपेण भावयति तेन च पूर्वं निर्दिष्टा: प्रत्यवाया: उत्पद्यन्ते।

एष: सुलभ: अहङ्कारनाशस्य मार्ग: एव भक्ति: ज्ञानं ध्यानं योग: इत्यादिभि: शब्दै: निर्देशनम् अर्हति। 

यत: ईश्वर: सर्वेषां हृदि अहम्-रूपेण आत्मत्वेन तिष्ठति, यतश्च विचारा: एव बन्धस्य मूलमिति सर्वशास्त्राणामुपदेश:, तम् ईश्वरं कदापि अविस्मरन् तस्मिन् ईश्वरे अहम्बोधरूपस्य मनस: लयं साधयित्वा स्थानमेव उत्कृष्ट: साधनमार्ग: इति सर्वशास्त्रविनिर्णय:।

5

शिष्य:– आत्मविचारणामार्ग: केवलं स्थूलदेहे आत्मबुद्धे: निवारणार्थं अस्ति उत तेन सूक्ष्मकारणशरीरयो: अपि आत्मबुद्धे: निवारणं भवति?

महर्षि:–अन्ये देहा: स्थूलदेहे एव आश्रिता:। ‘अहं देह: अस्मि’ इत्यस्यां मिथ्यावधारणायां त्रयाणामपि स्थूलसूक्ष्मकारणदेहानां किं च पञ्चकोषाणामपि च समावेश: भवति। स्थूलदेहे देहात्मबुद्धे: नाश: एव अन्ययोरपि देहयो: आत्मबुद्धे: नाशाय कारणं भवति। अत: आत्मविचारणाएव त्रिष्वपि देहेषु या आत्मबुद्धि तस्य निवारणस्य साधनम्।