ब्रह्मविष्णुविवादवर्णनम्।
एवं गर्वोन्मत्तयो: ब्रह्मविष्ण्वो: ‘जगत: अहमेव प्रभु:’ इति मोहसम्भव: विवाद: उत्पन्न:। रजोगुणाधिक्यात् विश्वकृत् ब्रह्मा बाह्यत: नीलवर्ण: अभवत्। स: गर्वेण विष्णुम् उक्तवान्– हे विष्णो,कथं मोहग्रस्त: भूत्वा जगत: जनयितु: पितामहात् मत्त: भवान् अधिकोस्ति इति मन्यते? हे मूढ, स्वस्मात् एव जातयो: मधुकैटभदैत्ययो: हननं कृत्वा दैत्यारिपदवीं भवान् कथं प्रदर्शयति? भवत: सृजने मम करयो: य: आयास: अभवत् स: इतोपि मम करौ निपीडयति। मम श्रमम्भसा उत्पन्ने महोदधौ सर्पस्य उपरि भवान् शेते। त्वत्त: मम कमलासनं उच्चं वर्तते। तमोगुणयुक्ते भवति सत्त्वगुणोत्कर्ष: कुत:? प्रकृतिजड: भवान् किमपि न जानाति। दैत्यभीत्या भवान् जलाशये निद्रां करोति तर्हि जगत्त्रयं भवता कथं रक्षितं भवेत्? चत्वार: वेदा: मम चतुर्भ्य: मुखेभ्य: प्रादुरभवन्। सरस्वती मम चैतन्यरूपिणी शक्ति: वर्तते। अहमेवास्य विश्वस्य सर्जनं करोमि तथा तत् मम इन्द्रादिभि: पुत्रपौत्रैरेव रक्ष्यते। तर्हि भवान् मम नियोज्येषु एव कश्चन एक: वर्तते। भवान् जगत: ईश्वरात् मत्त: कथम् अतिरिच्यते?”
एवं विधिना क्रोधेन एवमुक्ते नारायण: अपि सासूयं सस्मितं च तमेवम् आह–
“ हे ब्रह्मन् , विकत्थनं मुञ्चतु। मम नाभे: समुत्पन्ने कमले एव भवान् जात:। यदि योगनिद्रां त्यक्त्वा मया मधुकैटभौ न मारितौ अभविष्यताम् तर्हि ताभ्याम् भवान् तदैव नाशित: अभविष्यत्। सोमकप्रभृतीनां दैत्यानां नाशार्थं मया स्वेच्छया मत्स्यादीनि रूपाणि धृतानि आसन्। क: अन्य: मम कारणं स्यात्? रजोगुणाधिक्यात् भवान्न किमपि द्रष्टुं निरूपयितुं वा समर्थ: अस्ति। मयि अविनाभावेन तिष्ठन्त्या: पद्मवासिनीरूपाया: शक्त्या: कटाक्षमात्रेण जगत्त्रयं वृद्धिं गच्छति। इमानि भूतानि, काल:, जीवात्मान: अपि अहमेव अस्मि। मया विरहितं त्रिषु लोकेषु किं विद्यते? आदित्या:, वसव:, रुद्रा: , दिक्पाला:, मनव: अपि अहमेवास्मि। भू: भुव: स्व: एता: तिस्र: व्याहृतय:, वेदत्रय्यपि च मदधीना अस्तीति विजानातु। सृष्टे: निर्मात्री शक्ति: मयि तिष्ठति अत: त्रैलोक्यनाथस्य मम कथं भवान् सम: ज्येष्ठ: वा भवितुं शक्यम्?
एवं मोहान्धौ, परस्परं प्रतिगर्जन्तौ तौ कलहम् अकुरुताम्। तेन प्रलयकालवत् बहु समय: व्यतीत:। चन्द्रसूर्ययो: उदयास्तौ स्थगितौ जातौ, नक्षत्राणि तारका: ग्रहा: च क्षीणतां गता:। वायु: न वाति स्म अग्नि: अपि न ज्वलति स्म । पृथिवी, अन्तरिक्षं, दिशश्च म्लानतां गता:। सर्वे समुद्रा: क्षुब्धा: पर्वताश्च कम्पमाना: अभवन्। ओषधय: सर्वा: शुष्कतां गता:, सर्वे जीवा: अवसादं प्राप्तवन्त:। पक्ष-मास-ऋतु-वर्षादि: कालनियम: नष्ट: अहोरात्रव्यवस्थापि च विनाशं गता। इन्द्रादय: लोकपाला: मरीच्यादय: महर्षय: इदम् अकाले आगतं कल्पान्तं अमन्यन्त।
एवं जगति महाक्षोभे समुत्पन्ने भूतानां क्रन्दनेन प्रचोदित: भूतनाथ: शिव: अबुध्यत। एतत् सर्वं जगत् अविद्यायां मग्नम् इति तेन ज्ञातम्। विश्वस्य संरक्षणाय उद्यतेन तेन अन्तर्दृष्ट्या ब्रह्मा तथा विष्णु: अनयो: मोहस्य कारणं ज्ञातम्। जगत: स्वामिनं, सकलैश्वर्यदातारं मां विस्मृत्य एतौ मोहग्रस्तौ स्वमेव जगत्प्रभुत्वेन भावयत:। एतौ मां जानानौ अपि उद्धतौ अभवताम् एतत् मोहस्य माहात्म्यमेव। अज्ञानतिमिरान्ध: जन: स्तुतं वस्तु प्राप्यापि तन्न पश्यति। लोकानां हितं भवेत् इत्यर्थं कृतापराधौ मोहसागरे निमग्नौ एतौ मया नोपेक्षणीयौ। एवं तयो: मायावैवश्यं ज्ञात्वा दयासागर: शिव: तं नाशयितुम् उद्यत: अभवत्।
तेजोमयलिङ्गप्रादुर्भाववर्णनम्
मार्कण्डेय: उवाच, “यथा सनातन: शम्भु: मोहान्धौ ब्रह्मविष्णू अनुजग्राह तत् मां बोध्यताम्।
नन्दिकेश्वर: उवाच, “ यत् भक्तवत्सलेन देवेन महेश्वरेण दयया विधत्तं तत्सर्वं विस्तरेण वक्ष्यामि। तयो: विवदमानयो: ब्रह्मविष्ण्वो: मध्ये स्वर्गद्वारनिरोधकेन ब्रह्माण्डभेदिना ज्योति:स्तम्भरूपेण महेश्वर: प्रादुरभवत्। तस्य ज्योतिर्लिङ्गस्य तेजसा नीलवर्णमन्तरिक्षमपि विवर्णतां गतम्। तस्य ज्योतिर्लिङ्गस्य महाज्वालै: सागरा: शोषिता: इव अभवन्। ते वीचिसङ्क्षोभं विमुच्य स्वस्य मूलप्रकृतिं प्राप्ता: इव शान्ता: जाता:। ग्रहा: तारकाश्च तस्मात् ज्योतिर्लिङ्गात् समुद्भूता: स्फुल्लिङ्गा: इव अद्योतन्त। सम्पूर्णा पृथिवी कुङ्कुमेन दिशश्च सिन्दूरेण अवलिप्ता इव अदृश्यन्त। सर्व: आकाश: अपि अरुणवर्ण: जात:। रक्तेन पूरितं शिवस्य कपालम् इव सम्पूर्णं ब्रह्माण्डरूपं कर्परं तेजसा पूरितम् अभवत्। सततं प्रवर्धमानेन तेन तेज:स्तम्भेन सम्पूर्णं स्थावरजङ्गमम् अरुणवर्णं जातम्।
तेजोमयं तल्लिङ्गं दृष्ट्वा आश्चर्यविमूढा: भूत्वा द्वौ अपि देवौ परस्परक्रोधं त्यक्त्वा चिन्तयामासतु:, “किम् कल्पान्तकाले इव इदानीं द्वादश आदित्या: पृथ्वीनभसो: मध्ये युगपत् उत्थिता: वा? एष: तेज:स्तम्भ: अक्ष्णो: शक्तिं नाशयन् प्रवर्धमान: तथा अस्ति येन नि:शेषं तेजोलिप्तं भूतमात्रं दृष्टिपथे नायाति। ज्वलन्नपि एष: ज्योति:स्तम्भ: अस्मान् न तापयति किं च तस्य नेदीयमपि भूतमात्रं स: वह्निवत् न निर्दहति। एतस्य कान्त्या समाक्रान्तं सम्पूर्णं जगत् किं च ममापि शरीरं शोणत्वं प्राप्तवत्। एष: तेज:स्तम्भ: कस्मात् समुत्पन्न:? एतस्य मूलं कुत्र वर्तते? किंन्नामा अयम्? कया शक्त्या अयं प्रकाशते? अध: ऊर्ध्वं तिर्यक् विष्वक् एवं सर्वासु दिक्षु विस्तृतस्य अस्य का अवधि: इति ज्ञातुं मम मन: अत्यन्तम् उत्सुकं भूत्वा व्योम्नि उड्डयितुं रसातलं वा प्रवेष्टुम् इच्छति।
एवं ब्रह्माविष्णू तेज:स्तम्भावलोकनात् चिन्ताभरेण आक्रान्तौ व्याकुलितौ च भूत्वा अतिष्ठताम्। तदा स्मयमानमुख: गोविन्द: गर्वोद्धतं ब्रह्माणम् एवमाह– “अपरस्मात् स्वस्य उत्कर्षम् इच्छतो: आवयो: परीक्षार्थमेव एष: तेज:स्तम्भ: निकषरूपेणात्र उपस्थित: इति मन्ये। एतस्य अमितेजोराशे: इयत्ताम् आवयो: कोपि एक: न ज्ञातुं समर्थ:। अत: आवयो: एतस्य मूलम् अग्रं वा एतयोरेकं द्रष्टुं प्रभवेत् स: एव आवयो: अधिक: जगत: प्रभुश्च मन्तव्य:।
नन्दिकेश्वर: उवाच, “ एवं तस्य तेजोराशे: मूलम् अग्रं वा द्रष्टुम् उभौ अपि उद्यमरतौ अभवताम्।”
