अरुणाचलप्रदक्षिणमाहात्म्यम्।
पार्वती उवाच,”हे सर्वधर्मज्ञ मुनीश्वर गौतम, भवान् शोणाचलप्रदक्षिणस्य माहात्म्यं मह्यं कथयतु। एतत् प्रदक्षिणं कस्मिन् काले कथं करणीयम्? पूर्वं केन केन एतत् कृत्वा इष्टस्य परमपदस्य वा प्राप्तिः कृता?”
एवमुक्ते सति गौतमः अवदत्,"पुरा महेश्वरेण प्रदक्षिणस्य माहात्म्यम् एवं निगदितम् आसीत्-- ‘अहं वसुधातले शोणशैलरूपेण प्रकटितः अस्मि। मां परितः सर्वे देवाः मुनिभिः सह वर्तन्ते। जन्मजन्मान्तरकृतानि यानि पापानि तानि प्रदक्षिणं कुर्वाणस्य पदे पदे नाशं यान्ति। वाजपेयसहितं सहस्राणाम् अश्वमेधयज्ञानां सर्वतीर्थानां च फलं प्रदक्षिणेन सिध्यति। यः निकृष्टजन्मा, उत्तमलक्षणविहीनः,क्रियारहितः च अस्ति सोऽपि मम शशाङ्कशेखरस्य प्रदक्षिणेन सिद्धिं प्रयाति। समस्ततीर्थानां यज्ञानां च यत्पुण्यफलं तत्सर्वं शोणाचलस्य प्रदक्षिणेन प्राप्यते। अस्मिन् प्रदक्षिणे एकपदेन मानवः मर्त्यलोकं, द्वितीयेन अन्तरिक्षलोकं, तृतीयेन च स्वर्लोकं जयति। एकेन पदेन मानसं द्वितीयेन वाचिकं तथा च तृतीयेन शारीरं पापं विनश्यति। एकेन पदेन पापानि सर्वाणि मार्जयित्वा मनुष्यः द्वितीयपदेन सर्वं तपःफलं प्राप्नोति। अस्मिन् अरुणाचले महर्षिणां, सिद्धानां च सहस्रशः पर्णशालाः तथा च देवानामपि आवासाः विद्यन्ते। तैः सुरैः अर्चितः अहमपि अरुणागिरिसिद्धस्य रूपेण अहम्अत्र वसामि। मम अन्तरे दिव्यैः विविधभोगैः संयुक्ताः गुहाः वर्तन्ते।’
‘अग्निस्तम्भमयं ममेदं बृहत् लिङ्गरूपं ध्यायन् मनुष्यः मन्दगत्या मम प्रदक्षिणं कुर्यात्। तेन तस्य सर्वपापानि दग्धानि भवन्ति। यः मम एवं प्रदक्षिणं करोति तस्य पुनर्जन्म न विद्यते, सः नित्यत्वं प्राप्नोति। तस्य पदरजसा सर्वा मही पूता भवति। प्रतिदिशं नमस्कुर्वन्, मां ध्यायन् ,कृताञ्जलिः भूत्वा मम स्तुतिं कुर्वन् ,मानवः मम प्रदक्षिणं कुर्यात्। यथा आसन्नप्रसवा नारी पादध्वनिम् अकुर्वती मन्दं मन्दं चलति तथैव मम प्रदक्षिणं करणीयम्। स्नात्वा, पवित्रवेषेण, रुद्राक्षभस्म धृत्वा शिवस्मरणं कुर्वन् मन्दं पदान् दद्यात्। मार्गे सहस्रशः अग्रे चरतां देवानां , मनूनां , वायुरूपिणाम् अदृश्यसिद्धानां च आनुकूल्यं चिन्तयन् तैः सह सङ्घट्टनं मा भवतु इति अवहितः भूत्वा मन्दगत्या गच्छेत्। शिवनामसङ्कीर्तनं, शिवनृत्यं रचयन् , शिवकथाः शृण्वन् अर्थिभ्यः यथाशक्यं दानं कुर्वन् प्रदक्षिणम् आचरेत्।’
‘एतल्लिङ्गं कृतयुगे अग्निमयं, त्रेतायां रत्नमणिमयं, द्वापरे सुवर्णमयं तथा च कलौ मरकतयुतं विद्यते। तं तादृशम् अथवा शुद्धस्फाटिकमिति ध्यायन् प्रदक्षिणं कुर्वाणः मनुष्यः शिवलोकं व्रजति। अहम् अवाङ्मानसगोचरः अप्रमेयः अग्निरूपः अस्मि अतः ममैतत् लिङ्गम् अनासाद्यम्। तथापि अचलरूपेण तिष्ठन्तं मम प्रदक्षिणां यः कुर्यात् तस्य कृते अहं सत्वरम् अधिगम्यः भवामि। प्रदक्षिणां कुर्वाणस्य चरणरजः मानवानां कृते अजरामरत्वप्रापकं भवति।देववाहनानि अरुणाचलप्रदक्षिणां कुर्वतां चरणौ वोढुं प्रार्थयन्ते। कल्पाद्याः सुरवृक्षाः तेषां छायां कुर्वन्ति।’
‘मम अङ्गप्रदक्षिणां कुर्वन् मनुष्यः स्वर्ग्यां तनुं प्राप्नोति। इहलोके सः वज्रशरीरेण जीवति। व्योमयानेषु तिष्ठन्तः देवाः सिद्धाः परमर्षयः अत्र अदृश्यरूपेण सञ्चरन्तः प्रदक्षिणापराणां विनयं भक्तिं च दृष्ट्वा हर्षयुक्ताः भूत्वा मर्त्येभ्यः वरान् ददते।’
‘यः सूर्यवासरे मम प्रदक्षिणां करोति सः सूर्यमण्डलस्य भेदनं कृत्वा शिवपुरं व्रजति। सोमवासरे प्रदक्षिणां कुर्वन् अजरामरः भवति। मङ्गलवासरे प्रदक्षिणेन मनुष्यः अनृणः भूत्वा सार्वभौमत्वं प्राप्नोति। बुधवासरे प्रदक्षिणां कुर्वन् सर्वज्ञत़ां वाक्प्रभुत्वं प्राप्नोति। गुरुवासरे प्रदक्षिणां कुर्वाणः देवैः पूज्यः लोकगुरुः भवेत्। शुक्रवासरे प्रदक्षिणेन महतीं लक्ष्मीं समासाद्य वैष्णवं पदं प्राप्नोति। शनिवासरे प्रदक्षिणं कुर्वाणः ग्रहपीडामुक्तः सन् विश्वविजयं प्राप्नोति। मम प्रदक्षिणकर्तुः कृते सर्वाणि नक्षत्राणि , ज्यौतिषयोगाः, करणानि,तिथयः अभीष्टफलदाः भवन्ति।’
‘प्रदक्षिणशब्दे यः प्र-कारः सः पापनाशकः, द-कारः अभीष्टप्रदः, क्षि-कारः कर्मक्षयकारी, ण-कारश्च मुक्तिदायकः भवति। दुर्बलाः कृशाः, व्याधिपीडिताश्च मम प्रदक्षिणेन सर्वदुष्कृतात् विमुच्यन्ते। मम प्रदक्षिणं कुर्वाणः त्रैलोक्यस्य एव प्रदक्षिणां करोति। सर्वे लोकेशाः, दिगीशाः च मम प्रदक्षिणं कृत्वैव स्वलोकाधिपत्ये स्थिराः अभवन्।’
‘अहमपि उत्तरायणे सर्वदेवर्षिभिः गणैश्च संयुतः सन् त्रैलोक्यस्य हितार्थं मम एतस्य तैजसलिङ्गरूपस्य प्रदक्षिणां करोमि। एतावदेव न, गौरी अपि तपःकरणार्थम् इहागत्य कार्त्तिकमासे कृत्तिकानक्षत्रसमये मम प्रदक्षिणां कृत्वा अपापा भूत्वा मां प्राप्स्यति। अपितकुचाम्बिका नाम्ना सा मया समेता सर्वान् देवान् उत्तरायणस्य तस्मिन् काले आश्वास्यति। तदा देवगन्धर्वयक्षादीनां दैवयोनीनाम् अत्र सङ्गमः भविष्यति। मम पूजया ते सर्वे निष्पापाः कृतार्थाश्च भविष्यन्ति।’
‘ये राजानः मम प्रदक्षिणां कुर्वन्ति तेषां पुरोगतः सन् अहं तेषां शत्रूणां नाशं सम्पादयामि। यः राजा सङ्कल्पविधिपूर्वकं विप्रमुख्यैः श्रोत्रियैः मम मण्डलाकारं, अर्धमण्डलं वा प्रदक्षिणं कारयेत् तस्य राज्यं स्थिरं कारयामि। तस्य शत्रूणां च नाशं करिष्यामि।’
‘तथापि शिवाचारं जानता केनापि वाहनेन मम प्रदक्षिणं न करणीया। धर्मकेतुः नामकः यमलोकादागतः कश्चन मम प्रदक्षिणां तुरगेण कर्तुं प्रारभत। सः तुरगः अपापः भूत्वा सत्वरं शिवपदं प्राप्य गणानां शास्ता अभवत्। तद्दृष्ट्वा धर्मकेतुरपि पादप्रदक्षिणां कृत्वा शिवलोकं प्राप्तवान्। तदा आरभ्य विष्णुमुख्याः सर्वे देवाः पद्भ्यामेव मम प्रदक्षिणम् आरब्धवन्तः।’
‘प्रदक्षिणां कुर्वाणस्य चरणौ यदि रक्तं प्रस्रवतः तर्हि देवेन्द्रधृते मुकुटे विद्यमानैः मन्दारपुष्पैः तत् रक्तं मार्ज्यते। लक्ष्मीशरीरस्य कुङ्कुमेन तस्य उपचारः क्रियते। मम प्रदक्षिणं कुर्वन्तः जना: मणिपर्वतानां शृङ्गेषु कल्पद्रुमानां वने विचरन्ति।’
गौरी उवाच, “ हे मुनीन्द्र, यथाशक्ति अरुणाद्रे: सेवायां रता: किं फलं प्राप्नुवन्ति तत् कथय।”
गौतम: उवाच, “परमेश्वर: पूर्वं मां यत् सेवाफलम् उक्तवान् तदहं कथयामि। स: अकथयत् ,’एक: ऊर्णनाभ: मयि स्वस्य जालं निरमात्। तत् तस्य कर्म मम वस्त्रेण वेष्टनम् इव अभवत्। तेन स: ऊर्णनाभ: स्वस्य पूर्वपूर्वजन्मनां वृत्तान्तं ज्ञातुं समर्थ: अभवत्। मयि विलुण्ठन्त: कृमय: कीटा: अपि अपापा: भूत्वा मम लोकं व्रजन्ति। य: मम कृते क्षणमेकमपि दीपं प्रज्वालयति स: स्वयम्प्रकाश: भूत्वा मम सारूप्यं प्राप्नोति। कोपि शुक: मम समीपे स्वस्य नीडं निर्मितवान्। कश्चन खद्योत: दीपवत् मयि प्रकाशं अदात्। तेन उभौ तौ मुक्तिं गतौ। गाव: वत्सस्मरणात् दुग्धं प्रस्रवन्त्य: तेन दुग्धेन मम अभिषेकं कृतवत्य:। तेन ता: मुक्तिं प्राप्तवत्य:। बलिग्रहणाय लोलुप: कश्चन काक: पक्षचालनेन जनितेन वायुना मम पुरोभागं अमार्जयत्। तेन सोपि मुक्तिं गत:। कश्चन मूषक: तेन सङ्गृहीतै: मणिचयै: मद्गुहान्तर्भागं प्रकाशितं कृत्वा तेनैव मम उपचारेण मुक्तिं गत:। ये मुनय: देवा: वा पुनर्जन्म नेच्छन्ति तेपि मम पार्श्वे छायावृक्षरूपेण आस्थातुं प्रार्थनां कुर्वन्ति।
मम पुरत: ये गोपुरं शिखरं शालां मण्डपं वापिकां वा निर्मान्ति ते सर्वान् इष्टार्थान् सम्पदं च लभन्ते। वस्तुत: अनासाद्यं अचलेशाख्यं मम एतदग्निलिङ्गं भूतले मर्त्यै: पूजितं भवतु।’
‘अपितकुचाम्बा नाम्नी मम परा शक्ति: वीक्षणस्पर्शनध्यानै: सम्पूर्णं जगत् पोषयति। नित्ययौवनवती सा सर्वलोकजननी यौवनप्रार्थिभि: अर्चनीया।’
गौतम: अभाषत, “ अरुणेशस्य पुरोभागे वसतां जनानां कृते इहपरलोके किमपि दुष्प्राप्यं वस्तु न विद्यते। यस्य गुणानां पार: नास्ति, य: अपेक्षितान् वरान् ददाति, य: सर्वभोगानां गृहम् इव तं शोणेशं भवती समर्चयेत्। सुव्रते भवत्या: इदं तपश्चरणं लोकहितार्थमेव विद्यते। तेन तपसा लब्धकामा भूत्वा पुन: भवती शम्भुम् आश्रयिष्यते। एतत् भवत्या: तप: न केवलं भवत्या: कृते अभीष्टदम् अपि तु अत्र तप: कुर्वाणानां ऋषीणामपि क्षेमाय भवेत्। देवतानां तप: तु न स्वस्य कृते अपि तु कारणान्तरेणैव भवति। तस्य तपस: फलेनैव तस्य अज्ञातकारणस्य ज्ञानं भवति। वयं भवत्या सह वसन्त: भवत्या: तपस: निरीक्षणादेव कृतार्था: भवेम।”
एवं महामुनिगौतमस्य वचनं श्रुत्वा गौरी तं भूरि प्राशंसत्। सा अवदत् , “ भवत: ततश्च एतस्य अरुणाद्रे: दर्शनं तु अभवत्। इदानीं इतोपि किं तप: करणीयम् अवशिष्टम्? तथापि अत्र देवतानामपि वरप्रदं यत् शिवलिङ्गं वर्तते तेन पृथिवी स्वर्गादपि अधिका जातास्ति। अत: अत्रैव शिवं जगद्गुरुम् आराध्य अहं तं वशीकुर्याम्। मम महादेवेन सह अविनाभावेन ऐक्यं भवेत्। भवता कृतेन साह्येन अहं शिवनायिका भविष्यामि।”
एवं गौतमसन्निधौ तप: कर्तुं यदा देव्या निश्चय: कृत: तदा मुनिना एका पर्णशाला निर्माय तां प्रदत्ता। मुने: अनुमतिं प्राप्य सा तपश्चरणं प्रारब्धवती। कमलाक्षी सा सुकुमारतनु: तप:श्रिया नीलमणि: इव व्यराजत। बहुभि: नियमै: विशेषतपोभि: च निगमागमप्रोक्तं सकलमेव धर्ममार्गं सा कृतार्थतां नीतवती। विविधेन तपसा तप्यमाना सा तन्वी न अदाचिदपि श्रान्ता बभूव। हरिद्रत्नमयी वल्ली
इव सा अधिकमेव दीप्तिमती बभूव।
