15
शि–मन: बुद्धीन्द्रियाणि इत्यादीनि ज्ञानस्य उपकरणानि तथापि किमर्थं तानि ज्ञानस्य विषयभूतानि इव गृह्यन्ते?
म--
उपर्युक्तव्यवस्थायां वयं चैतन्यात्मस्वरूपा: सर्वेषामितरवस्तूनां ज्ञातार: स्म: अत: वयं दृक् इति शब्देन निर्दिष्टा:। सर्वोपि घटपर्यन्त: पदार्थविभाग: नाम दृश्यवस्तूनि एव यत: स: ज्ञानस्य विषय: अस्ति। दृग्दृश्ये (ज्ञातृ-ज्ञेयविषयौ) दर्शयति उपरितनकोष्टके ज्ञातृषु ज्ञेयविषयेषु च एवं दृश्यते यत् य: पदार्थ: अपरस्य कस्यचित्पदार्थस्य ज्ञाता स: स्वयमेव अन्यस्य कस्यचित् ज्ञानविषय:। अत: एतेषु कोऽपि न यथार्थतया ज्ञाता इति वक्तुं शक्यते।
यत: वयं सर्वान् इतरान् पदार्थान् जानीम: तथापि वयं स्वं विहाय न कस्यचिदन्यस्य ज्ञानविषय: स्म: अत: वयं केवलं ज्ञातपदार्थानुरोधेन एव ‘ज्ञातार:’ इति संज्ञाभाज:। यथार्थतया पश्यामश्चेत् य: य: ज्ञानस्य विषय: स: न अस्मत् भिन्न: अत: वयं तत् सत्यं स्म: यत् ज्ञातृज्ञेयभेदात् परे तिष्ठति। अस्मान् विहाय अन्यत् सर्वं ज्ञातृ-ज्ञानविषयाणां क्षेत्रे एव वर्तते।
16
शि– अहङ्कार: , जीव:, चिदात्मा एतेषां तादात्म्यं कथं भवति?
म--
उपरितनोदाहरणै: एतत् स्पष्टीभवेत् केन प्रकारेण अहङ्कार, जीव: , जीवसाक्षि चैतन्यं तथा च सर्वसाक्षि चैतन्यं एतेषां तादात्म्यं भवति।
17
शिष्य:-- कथं ज्ञातव्यं यत् हृदि आत्मैव स्वयं ब्रह्मत्वेन प्रकाशते?
महर्षि:--यथा दीपज्योतौ विद्यमानं आकाशमहाभूतं ज्योते: अन्तरं बाह्यं च अविशेषत्वेन व्याप्नोति तथैव चिदाकाश: अविशेषत्वेन हृदि स्थितस्य आत्मज्योते: अन्तर्बाह्यं व्याप्य तिष्ठति। तस्यैव चिदाकाशस्य ब्रह्म इति ख्याति:।
18
शिष्य:--य: विभागहीन: स्वयंप्रकाश: एकमेवाद्वितीय: एव, तस्मिन्नात्मनि अनुभूते: आभासमया: तिस्र: अवस्था: (जाग्रत् , स्वप्न: सुषुप्तिश्च) कथं सम्भवन्ति? सम्भूताश्चेत् कथं ज्ञायेत यत् आत्मा सर्वदा निर्विकार: अचलश्च तिष्ठतीति?
म--
दीपोपम: स्वयम्प्रकाश: आत्मा (१) अज्ञानभित्त्या निर्मिते सुषुप्तिद्वारसहिते (२) अन्त:प्रकोष्ठभूते कारणशरीरे (७) प्रकाशते। कालकर्मादिभि: नियन्त्रितं देहलीभूतं महत्तत्त्वं (३) यदा सुषुप्तिद्वारम् उद्घाटयति तदा दीपरूप: आत्मा महतत्त्वरूपाया: देहल्या: (३) समीपे स्थिते अहङ्कारदर्पणे (५) प्रतिबिम्बितो भवति। एवं अहङ्कारदर्पण: स्वप्नावस्थारूपं मध्यप्रकोष्ठं (८) तथा च गवाक्षभूतै: पञ्चज्ञानेन्द्रियै: (६) जाग्रदवस्थारूपं बहिरङ्गणं (९) प्रकाशयति। पुनश्च कालकर्मादिभि: नियन्त्रितं महत्तत्त्वं यदा सुषुप्तिद्वारं पिदधाति तदा अहङ्कार: जाग्रत्स्वप्नसहित: विलीन: भवति केवलात्मा च निरन्तरं प्रकाशते।
एतेन उदाहरणेन स्पष्टीभवेत् यत् आत्मा कथं सर्वदा निर्विकार: अचलश्च तिष्ठति; कथं वा आत्मन: अहङ्कारस्य च भेद: अस्ति तथा च कथं अनुभूते: तिस्र: अवस्था: जाग्रतादिरूपा: , त्रीणि च शरीराणि स्थूलादीनि आविर्भवन्ति।
19
शिष्य:-- यद्यपि मया आत्मविचारणामार्गस्य विषये प्रभूतं स्पष्टीकरणं श्रुतं तथापि मम मन: मनागपि शान्तिं न अनुभवति। किं कारणं स्यात् एतस्य?
महर्षि:-- एतस्य कारणं नाम मनस: दुर्बलता अथवा एकाग्रताया: अभाव:।
20
शिष्य:--एतस्य मनस: दौर्बल्यस्य किं कारणं स्यात्?
महर्षि:-- आत्मविचारणार्थं मन: सशक्तं भवेत् एतदर्थं ध्यानं योग: इत्यादय: उपाया: सन्ति। एतेषु मनुष्येण शनैरभ्यासेन कौशलं प्राप्य मनस: तादृशी अवस्था अधिगन्तव्या या सहजा तथा आत्मविचारणायै साह्यकारिणी भवेत्। यदि मन: एवंरीत्या पक्वं भवेत् , आत्मविचारणाविषये च श्रुणुयात्, तर्हि तत् अनुक्षणमेव आत्मविचारणां याथातथ्येन ज्ञात्वा स्वस्य स्वाभाविकम् आत्मरूपं जानीयात् अविचलतया तस्मिन् आत्मन्येव स्थित्वा परां शान्तिं च गच्छेत्।
यन्मन: एवं न पक्वतां गतं, तस्य कृते आत्मविचारणाविषये श्रुत्वापि आशु आत्मसाक्षात्कार: शान्तिश्च कष्टेन अधिगन्तव्या भवति। तथापि य: मनोनिग्रहार्थम् ध्यानादीन् उपायान् किञ्चित्कालं अभ्यस्यति स: अन्ततोगत्वा मनस: शान्तिं विन्दते।