श्रीअरुणाचलपूजाविधानम्।
गौतमः उवाच-- हे देवि, पुरा यज्जातं तस्य वृत्तमहं श्रावयामि। भगवता शिवेन तीर्थयात्रार्थम् आदिष्टः अहं शिवस्य विविधलिङ्गानि द्रष्टुं सशिष्यम् अभ्राम्यम्। केदारः, बदरीकाश्रमः, काशी, श्रीपर्वतः, काञ्ची इत्यादीनि पुण्यक्षेत्राणि अहं गतवान्। तत्र विद्यमानानि ऋषिभिः, देवैः योगिभिश्च स्थापितानि तथा च कानिचन स्वयम्भूनि अपि लिङ्गानि मया अर्चितानि। एवं तीर्थेषु गाहमानः, विविधव्रतानि, यज्ञान् , तपश्च आचरन् अहम् अरुणाचलं नाम पर्वताकारं लिङ्गं प्राप्तः। तत्र कन्दमूलफलाहाराः दृढव्रताः सिद्धाः मुनयः महात्मानः च अरुणाद्रिं सेवमानाः मया दृष्टाः।
अहमपि दिव्यचक्षुषा आदिब्रह्मणा अर्चितम् अरुणाद्रिम् अस्तवम् ," यं वेदाः 'असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः' इत्यादिशब्दैः स्तुवन्ति तस्मै वेदस्वरूपाय कालाय, करुणार्द्राय ,शिवाय परमात्मने नमः। हे देवेश तव दर्शनं सर्वधर्माणां फलं यच्छति। तद्येन लब्धं तेन भुवि करणीयम् अन्यत्किञ्चिदपि तपः नावशिष्यते। अत्र देवाः अपि त्वदाश्रये निवासं कर्तुम् इच्छन्ति।
बहुकालसञ्चितं मम तपसः फलमेव यत् अहं त्वद्दर्शनं प्राप्तवान्। एतादृशं पर्वतस्वरूपं लिङ्गम् अहं पूर्वं कुत्रापि न दृष्टवान्। एतत् तव वपुः ब्रह्मविष्णुरुद्रात्मकं, त्रिशक्तिसंयुतं त्रिकालनियामकं, त्रिवेदात्मकं, त्रिकोणाङ्गं यस्य त्रिषु कोणेषु सूर्यचन्द्राग्नयः वसन्ति। त्रैलोक्यस्य रक्षणार्थं भवान् अत्र शोणाद्रिरूपेण वसुधायाम् आस्थितः। एषः मुधा एव करुणां कुर्वन् महेश्वरः केवलं तस्य दर्शनात् तम् अजानत्सु अपि जनेषु सर्वान् भोगान् वितरति। हे महेश्वर, शरणागतवत्सल, संसारभयात् त्वां प्रपन्नं मां त्रायस्व।"
एवं मया संस्तूयमानः महेश्वरः मह्यं स्वस्य दिव्यं रूपम् अदर्शयत्। सः उक्तवान्, " भवतः भक्त्या स्तवनेन च अहं भृशं प्रीतः अस्मि। भवान् ममान्तिकमेव निवासं करोतु। सनातनैः भोगैः मां सम्पूजयतु तथा च तपसा मम माहात्म्यम् अन्येभ्यः सन्दर्शयतु। पुरा कैलासे तपः आचरन् भवान् मयैव पृथिव्याम् अरुणाद्रिम् अर्चयितुम् आदिष्टः आसीत्। सप्तर्षयः अपि माम् अरुणं सम्पूज्य तपःसामर्थ्यात् लोककल्याणाय प्रभवन्ति। आगमोक्तप्रकारेण कृता मम पार्थिवपूजा स्वर्गस्थैः देवैः अपि दर्शनीया भवेत्। पुरा यैः मम पूजनं कृतं तेभ्यः सर्वेभ्यः पुण्यकृद्भ्यः भवान् अधिकोऽस्तीत्यतः भवानेव शिवार्चनस्य महिमानं भूमौ प्रकाशयतु।"
एवं देवदेवेनादिष्टः अहम् तं प्रणम्य उक्तवान् ," अग्निरूपत्वात् भवान् मर्त्यानाम् अप्राप्यः एव।अतः मर्त्यलोकोचितेन प्रकारेण भवतः अर्चनं कथं प्रकाशयेय तन्मे ब्रवीतु।"
माम् अनुगृह्णन् महेश्वरः अब्रवीत् ," अहं महीतले मम सूक्ष्मलिङ्गानि प्रकाशयिष्ये। पञ्चावरणयुक्तस्य मम अरुणाद्र्याख्यस्य लिङ्गस्य पूजनम् आगमोक्तरीत्या भवता करणीयम्।" एवमुक्त्वा महेश्वरः सर्वावरणयुक्तं स्वकीयं सूक्ष्मलिङ्गरूपं मह्यं अदर्शयत् येनाहं कृतार्थतां प्राप्तवान्।
तथापि पुनः मया विज्ञप्तम्, " हे प्रभो आगमोक्तपूजाप्रकाराणाम् अनभ्यासात् तव तत्रोक्तान् नामरूपादिभेदान् अहं कथं विजानीयाम्? तव मन्दिरं, पूजकाः,परिचारकाः पूजा,स्तोत्राणि,पूजास्थलस्य रक्षणं, तव अङ्गरक्षकाः इत्यादिविषये भवतः मुखादेव अहं श्रोतुकामः अस्मि। सर्वे देवाः भवतः पूजनार्थम् अत्रागच्छन्ति एतत् कथं सर्वेभ्यः ज्ञापयेयम्?"
एतच्छ्रुत्वा अरुणेशेन विश्वकर्मा आहूतः आदिष्टः च," भवान् अत्र अरुणाद्रौ अरुणाचलाख्यं दिव्यं नगरं दिव्यमणिगणोपेतं मम मन्दिरं च निर्मातु। तत्र मम सपर्यायाः अङ्गत्वेन नृत्तगीतवाद्यानामपि व्यवस्था भवतु।" तदनन्तरं शिवः सर्वलोकानां कल्याणाय तस्य मानुषपूजाक्रमं पूजायै सृष्टं परिचरगणं च माम् उक्तवान्।
" हे गौतम या मत्तः कदापि विप्रयुक्ता न भवति सा मम स्थानस्य माहात्म्यं धारयन्ती मम शक्तिः उत्तरभागे अपितकुचाम्बा इति नाम्ना पूजिता भवेत्। उत्सवार्थं भोगैः सुतैः च आवृतः हस्तयोः सारङ्गं परशुं बिभ्रत् दिव्यरत्नानि धारयन् प्रसन्नवदनः अकुण्ठितविभवः उमास्कन्देश्वरः सम्पूज्यः। शक्त्युत्सवेषु सर्वभूषणयुक्ता सुन्दरेश्वरी पूजिता भवेत्। सर्वैश्वर्यदायकः गणेशः सर्वभोगैः भक्ष्यैः समन्वितः सन् मम पुरतः अर्चितः भवतु। ताण्डवे निपुणः नटराजः, अमृतेश्वरः तथा च पराशक्त्यपि पूजिता भवतु। मम द्वारे सूर्यसन्निभः महाकालः नन्दी अपि च मम भक्तानामपि पूजनस्य व्यवस्था भवतु। दक्षिणे विघ्नेशेन सह मातृकाः नैऋत्यकोणे विघ्ननाशनः विनायकः आग्नेयकोणे शक्तिधरः स्कन्दः ईशानकोणे ईशानश्च पूजितः भवतु।
अहं च मम मूलस्थाने पूजनीयः। दक्षिणस्यां दिशि दक्षिणामूर्तिः, पश्चिमायां अग्निसहितः विष्णुः, उत्तरे ब्रह्मा च सम्पूज्यः। सर्वशक्तिसमन्विता अपितकुचाम्बा देवैः दिक्पालकैश्च आवृताः पूजनीया। तथा च मन्दिरस्य क्षेत्रपालकः अपि अर्च्यः।
प्रतिमासम् उत्सवानाम् आयोजनमपि भवेत्। शैवागमज्ञातारः दीक्षिताः अत्र मम पूजायै वसन्तु। अरुणाचलेश्वरस्य चतसृषु दिक्षु चत्वारः मठाः भवन्तु। तेषु शैवाचारपरायणाः कापालिकाः पाशुपताः च भैक्ष्यं चरन्तः निवसन्तु। अत्रैकः महान् बकुलवृक्षः यस्य अधः भक्ताः शिवकार्याणि वितन्वन्तु। तत्र स्थित्वा अहं पुरतः स्थितानां भक्तानां प्रार्थनाः श्रुणोमि तान् ईप्सितं च दास्यामि। पूर्णिमायां मम महती पूजा भवेत्।
यो यो जनः अत्र दीपदानं करोति सः मम तेजोरूपं प्राप्नुयात्। ये अत्र पुष्पदानं कुर्वन्ति ते अग्रिमजन्मनि राजानः भवन्ति। युद्धे तेषां पुरः गच्छन् अहं तेषां शत्रूणां नाशं करोमि। यः मम सन्निधौ निवसति सः दुरात्मा सन्नपि शिवपूजकः भवति।"
पुनश्च मया विज्ञप्तः शिवः पूजायाम् उपयुक्तानि स्वस्य दिव्यानि कामदानि नामानि कथितवान्।
शोणाद्रीशः, अरुणाद्रीशः, देवाधीशः, जनप्रियः,प्रपन्नरक्षकः (शरणागतस्य रक्षणकर्ता) धीरः(धैर्यशाली),शिवसेवकवर्धकः(शिवसेवकानाम् ऐश्वर्यदायकः),अक्षिपेयः(चक्षुषा आस्वाद्यः), अमृतेशानः(अमरत्वस्य शास्ता), स्त्रीपुंभावप्रदायकः(स्त्रीपुरुषजन्मप्रापकः)भक्तविज्ञप्तिसन्धाता (भक्तप्रार्थनानां पूरकः) दीनबन्दिविमोचकः(दीनानां बन्धनात् मोचकः) मुखराङ्घ्रिपतिः( यस्य पदक्षेपात् महान् ध्वनिः उत्पद्यते) श्रीमान् (ऐश्वर्यमयः) मृडः( आनन्दस्वरूपः) मृगमदेश्वरः (यस्मै कस्तूरिकायाः गन्धः रोचते) भक्तप्रेक्षणकृत् (भक्तेभ्यः दर्शनस्य दाता) साक्षी (जीवकर्मणां द्रष्टा) भक्तदोषनिवर्तकः(भक्तानां दोषाणां नाशयिता) ज्ञानसम्बन्धनाथः(ज्ञानसम्बन्धनामकस्य भक्तस्य रक्षणकर्ता) श्रीहालाहलसुन्दकः (हालाहलविषस्य नाशयिता) आहवैश्वर्यदाता( यज्ञैश्वर्यस्य दाता) स्मर्तुसर्वाघनाशनः(स्मर्तुः पापस्य नाशकः) व्यत्यस्तनृत्यद्भुजधृक्सकान्तिनटनेश्वरः(विपरीतनृत्यं कुर्वन्तौ भुजौ धारयन् शोभायुक्तः नटराजः) सामप्रियः , कलिध्वंसी (कलेः नाशकः) वेदमूर्तिः, निरञ्जनः, जगन्नाथः, महादेवः, त्रिनेत्रः, त्रिपुरान्तकः,भक्तापराधसोढा(भक्तानाम् अपराधान् सहमानः) योगीशः, भोगनायकः(भोगानां प्रापकः) बालमूर्तिः, क्षमारूपी, धर्मरक्षः, वृषध्वजः,हरः, गिरीश्वरः, भर्गः,चन्द्ररेखावतंसकः(चन्द्रलेखा यस्य अलङ्कारः तादृशः) स्मरान्तकः(मदनस्य नावकः) अन्धकरिपुः, सिद्धराजः, दिगम्बरः, आगमप्रियः, ईशानः, भस्मरुद्राक्षलाञ्छनः( भस्मरुद्राक्षौ धारयन्) श्रीपतिः(ऐश्वर्यशाली) शङ्करः, स्रष्टा, सर्वविद्येश्वरः, अनघः(निष्पापः),गङ्गाधरः, क्रतुध्वंसः (यज्ञनाशकः) विमलः, नागभूषणः,अरुणः, बहुरूपः, विरूपाक्षः, अक्षराकृतिः(यस्य स्वरूपं न नश्यति) अनादिः, अन्तरहितः, शिवकामः( भक्तानां कल्याणस्य इच्छुः) स्वयम्प्रभः (स्वयंप्रकाशी) सच्चिदानन्दरूपः, सर्वात्मा , जीवधारकः(सर्वान् जीवान् धारयन्) स्त्रीसङ्गवामसुभगः( स्त्रियाः समावेशात् यस्य वामार्धः सुन्दरः दृश्यते) विधिः (ब्रह्मा) विहितसुन्दरः (सुन्दराकारः) ज्ञानप्रदः, मुक्तिदः, भक्तवाञ्छितदायकः, आश्चर्यवैभवः(यस्य वैभवम् आश्चर्यकरम्) कामी (प्रेमयुक्तः) निरवद्यः(निर्दोषः) निधिप्रदः (सम्पत्तिदायकः) , शूली, पशुपतिः शम्भुः, गिरिशः, मृडः।
महेश्वरः अवदत् ," अन्यानि अपि पुराणोक्तानि मम नामानि स्मरणीयानि। अहं प्रदक्षिणाप्रियः अस्मि अतः प्रदक्षिणेन माम् अर्चयन् भवान् अत्रैव वासं कुरु।"
तदज्ञानुसारम् अहं शिवं पूजयन् अत्रैव निवासं कुर्वन् अस्मि।
