दक्षिणामूर्ति:।

 


सनकः, सनन्दनः, सनातनः, सनत्कुमारः एते ब्रह्मणः चत्वारः मानसपुत्राः। 'एते मम पुत्राः सृष्टेः निर्माणकार्ये मम साह्यं कुर्युः' इति ब्रह्मा ऐच्छत्। तथापि निवृत्तिमार्गिणः ते गार्हस्थ्यं प्रवेष्टुम् अनुत्सुकाः आसन्। अतः ते ब्रह्मणः साह्यं न कृतवन्तः।

नन्दनवने स्थिताः बहुभिः ऋषिभिः देवैश्च आवृताः ते 'वयं कथम् आत्मज्ञानं प्राप्नुयाम' इति चिन्तनम् आरब्धवन्तः। तदा तत्र देवर्षिः नारदः आगतवान्। नारदेनोक्तम् ," जगन्निर्मातरं ब्रह्माणं विहाय कः अन्यः आत्मज्ञानं दातुं प्रभवेत्? अतः तत्समीपमेव गच्छामः।"

तदा 'तथा' इत्युक्त्वा सर्वे नारदेन सह ब्रह्मणः निवासभूमिं सत्यलोकं प्राप्तवन्तः। तत्र तैः दृष्टं यत् ब्रह्मपत्नी सरस्वती वीणां वादयन्ती आसीत्। ब्रह्मा सङ्गीतश्रवणे रतः वीणायाः स्वरानुरोधेन तालवादनं कुर्वन् स्थितः। तद्दृष्ट्वा ते चिन्तितवन्तः,'यः स्वयमेव भार्यायाः वीणावादने आसक्तः भूत्वा तिष्ठति सः ब्रह्मा कथम् अध्यात्मविद्यां दातुं शक्नुयात्?' 

अतः नारदः उक्तवान्, " वयं विष्णोः निवासस्थानं वैकुण्ठं गत्वा पश्यामः।" तदा सर्वे तम् अनुगच्छन्तः वैकुण्ठं प्राप्ताः। विष्णुः अन्तःपुरे आसीत् अतः इतरे सर्वे बहिः एव प्रतीक्षमाणाः अतिष्ठन्। नारदः तस्य विशेषाधिकारात् विष्णोः अन्तःपुरं प्रविश्य तत्रत्यां स्थितिं दृष्ट्वा बहिः आगतवान्। तेनोक्तम्, " सत्यलोके ब्रह्मणः पत्नी तस्मात् किञ्चित् दूरं स्थित्वा वीणां वादयन्ती आसीत्। अत्र तु विष्णुपत्नी लक्ष्मीः साक्षात् तस्य शय्यायामेव उपविश्य विष्णोः पादमर्दनं कुर्वती दृष्टा। यः स्वस्य पत्न्याः नेत्रकटाक्षैः आहतः सन् तस्याः सेवां स्वीकुर्वन् च तिष्ठति कथं सः अस्मभ्यम् आत्मज्ञानं दद्यात्? अतः वयं शिवं प्रति गच्छामः।"

एवं विचार्य सर्वे हिमवन्तं गत्वा कैलासम् आरूढवन्तः। तत्र पश्यन्ति यत् शिवस्य पत्नी तस्य अर्धम् अङ्गं व्याप्य तिष्ठति तथा च तादृशः अर्धनारीश्वरः तत्र नृत्यं करोति। विष्णुः मृदङ्गं वादयति तथा च ब्रह्मा नृत्यस्य लयानुगुणं घण्टिकां नादयन् तिष्ठति। तद्दृष्ट्वा ते सर्वे महदाश्चर्यं प्राप्तवन्तः। तैः चिन्तितम् ,"अहो कियती एषां स्त्रीणां विषये आसक्तिः! एषः शिवः अपि भार्यायाम् अतीव आसक्तः दृश्यते। तथापि तत्र तु ब्रह्मा पत्न्याः दूरं स्थित्वा तस्याः वीणावादनं श्रुण्वन्नासीत्। तदपेक्षया विष्णोः पत्नी तस्य अधिकं समीपं स्थित्वा तस्य सपर्यां करोति। किन्तु अत्र तु आसक्तेः सीमैव न दृश्यते। शिवः पार्वतीं शरीरस्य अर्धभागमेव कृत्वा स्थितः। एतत् तु अधिकमेव अयुक्तम्। अतः किम् अधिकं वृथाभ्रमणेन? वयं सर्वे गृहं निवर्तामहे। एतेभ्यः देवेभ्यः आत्मज्ञानप्राप्तेः आशैव नास्ति" इति एवं विचार्य ते कैलासात् प्रस्थिताः।

तदवलोक्य शिवः चिन्तितवान् ,"एतेषां महदज्ञानं यत् ते अस्मान् पत्नीभिः सह रममाणान् दृष्ट्वा चिन्तयन्ति यत् एते देवाः अस्मभ्यम् आत्मज्ञानं प्रदातुम् असमर्थाः विद्यन्ते इति। यद्यपि एते अज्ञानवशात् एवं चिन्तयन्ति तथापि इदानीं आत्मज्ञानं जिज्ञासमानेभ्यः एतेभ्यः अपरः कः तज्ज्ञानं दद्यात्?" इति विचार्य सः परमकारुणिकः शिवः पार्वतीं तथा सेवकान् स्वतपोव्याजेन दूरं प्रेषयित्वा मानससरोवरस्य तीरे उतरस्यां दिशि एकस्मिन् वटवृक्षस्य अधः युवरूपं धृत्वा दक्षिणमुखः सन् अतिष्ठत् , येन मार्गेण ते सर्वे सनकादयः निवर्तमानाः आसन्।

एवं वटवृक्षस्य अधः तिष्ठन्तं तं दृष्ट्वा सनकादयः महर्षयः तं प्रति गत्वा तं प्राणमन्। ते आत्मज्ञानजिज्ञासवः तं विविधान् प्रश्नान् अपृच्छन् । एकवर्षं यावत् प्रश्नोत्तराणि जातानि तथापि सनकादयः आत्मज्ञानविषयकान् स्वसंशयान् अपाकर्तुं समर्थाः न अभवन्। अतः शिवः तूष्णीः भूत्वा मौनेनैव तेभ्यः आत्मज्ञानं दत्तवान्। आत्मज्ञानं प्राप्य तेषां संशयानां पूर्णतया निरासः जातः।

एतस्य प्रसङ्गस्य अत्यन्तम् अद्भुतं वर्णनं श्रीमच्छङ्काराचार्येण तस्य दक्षिणामूर्तिस्तोत्रे कृतम् अस्ति।

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा।

गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः।।

(एतदमहदाश्चर्यकरं यत् वटवृक्षस्य अधः वृद्धाः शिष्याः उपविष्टाः सन्ति। तथापि तेषां गुरुः तु युवा अस्ति। गुरोः मौनमेव तस्य तत्त्वबोधकं व्याख्यानम् अस्ति तथापि अनेन मौनेनैव शिष्याणां सर्वे संशयाः नष्टाः भवन्ति।)

एषः दक्षिणामूर्तिः जगतः आदिगुरुः। यदि मानवगुरुः नोपलभ्यते चेत् आत्मज्ञानार्थं जनाः एनमेव गुरुं मत्वा उपासन्ते। दक्षिणामूर्तेः आराधनेन मानवगुरोः यथाकालं प्राप्तिः भवति इति मान्यता। 

 दक्षिणामूर्तिः चतुर्हस्तः। तस्य उर्ध्वहस्तयोः एकस्मिन् हस्ते अक्षमाला सर्पश्च, तथा च अपरस्मिन् हस्ते अग्निः वर्तते। अधोवर्तिनोः हस्तयोः एकः ज्ञानमुद्रां तथा च अपरः वरदमुद्रां दर्शयति। (कुत्रचित् किञ्चित् भिन्नतापि दृश्यते) तस्य एकः पादः अपस्मारनामकस्य एकस्य दैत्यस्य पृष्ठं मर्दयन् तिष्ठति, यः असुरः अज्ञानस्य प्रतीकम्। अपरः पादः प्रथमपादस्य जानुनि निवेशितः। सः दक्षिणदिगभिमुखः तिष्ठति इत्यतः तस्य नाम दक्षिणामूर्तिः। तथापि भगवान् रमणमहर्षिः दक्षिणामूर्तिः इति शब्दस्य किञ्चित् भिन्नमेव अर्थं कथयति। महर्षिणा दक्षिणा+अमूर्तिः एवं विग्रहं स्वीकृत्य व्याख्यातं यत् यः जीवशरीरस्य दक्षिणभागे आध्यात्मिकहृदये विद्यमानः निराकारः (अमूर्तिः) आत्मा स एव दक्षिणामूर्तिः।

दक्षिणामूर्तेः प्रसादेन आत्मज्ञानं हृदि प्रकाशते। जीवः जन्ममरणचक्रात् मुक्तिं प्राप्नोति। अतः आत्मज्ञानं प्राप्तुकामैः दक्षिणामूर्तिः गुरुरूपेण सदैव ध्यातव्यः