अरुणाचलमाहात्म्यम् (पूर्वार्ध:)--१

 


आमुखम्।


दक्षिणदेशे तमिळ्नाडुराज्ये एकं प्रख्यातं तीर्थक्षेत्रं वर्तते ‘तिरुवण्णमलै’ नामकम्। तत्र श्रीमान् अरुणाचलपर्वत: राजते। एतत् क्षेत्रं शैवमार्गस्य मुख्यं केन्द्रम्। शिवस्य पञ्चभूतलिङ्गानि प्रसिद्धानि। काञ्चिपुरस्थित: एकाम्रेश्वर: पृथिवीलिङ्गम्। तिरुवनैक्कवल् इत्यत्र जम्बूकेश्वर: जललिङ्गम्। तिरुवण्णमलैस्थित: अरुणाचलेश्वर: अग्निलिङ्गम्। आन्ध्रप्रदेशे कालहस्ती इत्यत्र कालहस्तीश्वर: वायुलिङ्गम्। चिदम्बरम् इत्यत्र च नटराज: आकाशलिङ्गम्।


एतेषु अरुणाचलेश्वर: आदिलिङ्गम् इति ख्याति:। ब्रह्मविष्णू अहङ्काराक्रान्तौ स्वस्य श्रेष्ठत्वं ख्यापयितुम् उद्यतौ अभवताम्। तयो: अहङ्कारं नाशयितुं शिव: अग्निस्तम्भरूपेण तयो: विवदतो: मध्ये प्रकटीभूत:। ब्रह्मविष्ण्वो: अहङ्कारं नाशयित्वा तयो: अनुरोधानुसारं पुन: स: पर्वतरूपेण परिणत: अभवत्। एष: पर्वत: थिरुवण्णमलैस्थित: अरुणाचल:। काशीकैलासादीनि स्थलानि शिवस्य वासस्थलानि तथापि अरुणाचल: स्वयं शिवरूपम् आदिलिङ्गं इति उच्यते। 


स्कन्दपुराणस्य माहेश्वरनामके प्रथमे खण्डे केदारखण्ड:, कौमारिकाखण्ड: तथा अरुणाचलखण्ड: एते त्रय: उपखण्डा: सन्ति। तस्मिन् तृतीये उपखण्डे अरुणाचलाख्ये ‘अरुणाचलमाहात्म्यम्’ वर्णितम्। एतत् स्थलपुराणम्। स्थलपुराणेषु विशिष्टतीर्थानां माहात्म्यं वर्णितं भवति। अरुणाचलमाहात्म्यस्य पूर्वार्ध: उत्तरार्धश्चैतौ द्वौ भागौ विद्येते। पूर्वार्धे अरुणाचलस्य माहात्म्यं ज्ञातुम् उत्सुकै: ऋषिभि: पृष्ट: सूत: सनक-ब्रह्मसंवादद्वारा त्रयोदशसु अध्यायेषु एतन्माहात्म्यं प्रस्तौति। उत्तरार्धे पुन: मार्कण्डेयनन्दिसंवादद्वारा चतुर्विंशतौ अध्यायेषु अरुणाचलमहिमा वर्णित: अस्ति। 


भगवता रमणमहर्षिणा अरुणाचलस्य महिमा स्वजीवने स्वयम् अनुभूत: आसीत्। तेन धर्मग्रन्थेभ्य: सहस्रश: अरुणाचलमाहात्म्यपरा: श्लोका: सङ्गृहीता: आसन्। 


अस्मिन् क्रमिकलेखे स्कन्दपुराणान्तर्गतस्य  अरुणाचलमाहात्म्यस्य सरलसंस्कृतेन अनुवाद: क्रमश: प्रस्तूयते। पूर्वार्ध-उत्तरार्धयो: केचन विषया: पुनरावृत्ता:। तथापि अरुणाचलस्य माहात्म्यं प्रकटीकर्तुं तेषाम् आभीक्ष्ण्यम् इष्टमेव इति मन्यामहे।


अयं सदाशिव: साक्षादरुणाचलरूपत:।

दृश्यते परमं तेज: सर्गस्थित्यन्तकारणम्।।

एतत्तु तैजसं लिङ्गं सर्वदेवनमस्कृतम्।

दृश्यते कर्मभूरेषा तेन धर्माधिका मता।।


लिङ्गप्रादुर्भाववर्णनम्।


यस्य ललाटे कस्तूरीतिलकसहितं त्रिपुण्ड्र: राजते, य: गले तेजस्विनीं मालां कट्यां कौपीनं गले दुर्धर्षं भुजङ्गं ,शिरसि च शशिकलां धरते स: सर्वेषां प्रदीप: अरुणागिरियोगी विजयते।


व्यासः उवाच--एकदा नैमिषारण्यवासिनः मुनयः सूतम् उवाच यत् वयम् अरुणाचलमाहात्म्यं श्रोतुकामाः स्मः, भवान तद्वदतु इति। 


सूतः उवाच--सनकः एतदर्थम् एव पुरा सत्यलोके स्थितं स्वपितरं ब्रह्माणं पृष्टवान् आसीत्। तदेव पापनाशनम् अरुणाचलमाहात्म्यं भवतः श्रावयामि। भवन्तः अवहितचित्ताः श्रुण्वन्तु।


सनकः उवाच--भुवनाधार! देवेश! वेदैः ज्ञातुं योग्य चतुर्मुख, भवतः प्रसादात् मया सकलं ज्ञानं प्राप्तम्। भवद्भक्त्याः प्रभावेण मम चित्तं तथा दर्पणवत् विमलं जातं येन सकृत् उपदेशेनैव तत्र सकलं ज्ञानं बिम्बवत् उदीयात्। ततश्च भवतः कृपाकटाक्षैः मम चित्ते वेदानां सारभूतस्य शुद्धस्य शिवज्ञानस्य उदयः अभवत्।


हे प्रभो,सुरनायक,दयानिधे, पृथिव्यां यानि दिव्यानि, मानुषानि,सैद्धानि अथवा भौतिकानि शिवलिङ्गानि सन्ति, तेषु  यस्य केवलं स्मरणमात्रेण पापस्य नाशः भवेत् तथा च शिवसारूप्यस्य प्राप्तिः भवेत्  तादृशं शत्रुनाशकं, दिव्यं,विमलं, तेजःस्वरूपं स्वयम्भुलिङ्गं जम्बुद्वीपे क्वास्ति तद्वद। यल्लिङ्गं अनादि, जगतः आधारस्वरूपं, शिवस्य अव्ययं तेजः अस्ति यस्य च दर्शनेन मनुष्यः कृतार्थः भवेत् तद्विषये भवता अहम् उपदेश्यः।


एवं भक्तिमतः तस्य सनकस्य कौतूहलयुक्तं वचः श्रुत्वा भगवान् ब्रह्मा प्रसन्नः अभवत्। ततश्च पङ्कजासनस्थितेन तेन अन्तरङ्गस्थे सुखस्य समुद्रे  चित्तं निमज्ज्य शिवध्यानं कृतम्। 


तदा पुरा तेन दृष्टं तेजःस्तम्भस्वरूपं सकलजगताधारं शिवं दृष्ट्वा तस्य जगद्बोधः नष्टः अभवत्।पुनः शिवाज्ञया एव तेन शिवयोगात् स्वस्य चित्तं निर्वर्त्य आनतस्य स्वसुतस्य सनकस्य स्मरणं कृतम्।


 शिवदर्शनेन यस्य गात्रेषु रोमाञ्चोद्भवः जातः आसीत् तथा च नेत्राणि आनन्दाश्रुभिः पूर्णानि जातान्यासन् सः ब्रह्मा गद्दगद्स्वरेण अभाषत-- 


ब्रह्मा उवाच--येषां सदाशिवे सार्वकालिका भक्तिः वर्तते ते स्वस्य विमलचरितैः सर्व्वं जगत् पावयन्ति। शिवभक्तैः सह सहवासः, क्रीडा, सम्भाषणं तेषां स्मरणं दर्शनम् चापि पापनाशकं भवति। इदानीं  निर्हैतुक-करुणापूर्णं एतत् अद्भुतं अरुणाद्रिनामकं  तेजोलिङ्गं यथा प्रादुर्भूतं  तच्छ्रुणोतु भवान्--


यस्य महिमा विश्वातीतः तादृशेन सदाशिवेन यदा "एकोहं बहु स्याम्" इति सङ्कल्पः कृतः तदा सदाशिवात् नारायणः अहं च उभौ उत्पन्नौ अभवताम्। 


तथापि तदनन्तरं  'अहं जगत्स्रष्टा' 'अहं जगत्पालकः' 'श्रेष्ठोस्मी' ति अहंङ्कारात् आवाम् उभौ स्वस्य श्रेष्ठत्वख्यापनार्थं परस्परं भीषणं युद्धम् आरब्धवन्तौ। 


'विश्वम् अतीत्य वर्तमानस्य मम वेदोक्तं महिमानं श्रुत्वा अपि तदजानतोः एतयोः अहङ्कारमूढयोः ब्रह्मविष्ण्वोः भीषणेन युद्धेन जगत्क्षयः भवेदि'ति  विचिन्त्य 'अहं कुत्रापि भुवने स्वात्मानं प्रकाशयिष्यामि येन मम यथार्थां मितिं प्रभावं च एतौ जानीयाताम्' इति निश्चयं कृत्वा च सदाशिवः आवयोः मध्ये सर्वलोकान् अतीत्य तिष्ठतः अग्निस्तम्भस्य रूपेण प्रादुरभवत्।


तं ज्वलन्तं अनाद्यन्तं तेजःस्तम्भम् आलोक्य शिथिलीभूतचित्तयोः आवयोः पुरतः एका अशरीरी वाणी समुद्भूता --" बालकौ, मौढ्यात् भवद्भ्यां किमर्थं युद्धं क्रियते? यदि भवन्तौ इदं अनाद्यन्तं अग्निस्तम्भमयं शम्भोः स्वरूपं यथार्थतया द्रष्टुं शक्नुयाताम् तर्हि भवतोः बलवैषम्यं स्वयं शिवः एव निश्चेष्यति" इति। 


तां वाणीं श्रुत्वा युद्धनिरतौ भूत्वा आवां तस्य अग्निस्तम्भस्य आद्यन्तं निश्चेतुं व्यवसायं कृतवन्तौ। 


विष्णुः महाकायशूकरस्य रूपं धृत्वा अग्निस्तम्भस्य मूलं ज्ञातुं दंष्ट्राभिः भूमेः विदारणम् आरब्धवान् । अहं च हंसरूपं धृत्वा आकाशम् अतीत्य गच्छन्तं तस्य अग्निस्तम्भस्य ऊर्ध्वभागं द्रष्टुं उड्डयनं कृतवान्। 


अनेककोटिवर्षाणि यावत् विचिन्वन् अपि विष्णुः अग्निस्तम्भस्य मूलं द्रष्टुं नापारयत्। तस्य दंष्ट्राः भग्नाः अभवन् शरीरसन्धयश्च शिथिलाः। श्रमातुरः तृषाक्रान्तः सः स्वस्य वाराहं रूपमपि त्यक्तुम् अपि अक्षमः अभवत्। 


तदा श्रान्तेन तेन शिवस्य आश्रयः कृतः। सः अचिन्तयत् "धिक् अहङ्कारसमुद्भवमिदं मम मौढ्यं येन अहं स्वस्यात्मानं शिवं न ज्ञातवान्।

अस्मादेव आद्यन्तरहितात् अहम् उद्भूतः अस्मि। सः शम्भुः यं पातुमिच्छति तस्य अहङ्कारबोधरहितं आत्मज्ञानं सद्यः उत्पद्यते। एतस्य शम्भोः पूजां कर्तुम् अहं न क्षमः इत्यतः अहं तमेव शरणं यामि। एवं स्तुतिं कुर्वन् विष्णुः शिवं ध्यातवान्। भूतपतेः महादेवस्य सत्प्रसादात् सः पुनः पृथ्वीलोकं प्राप्तवान्।


अहमपि नैकान् संवत्सरान् गगने भ्रमन् श्रान्तः शिथिलपक्षः चाभवम्। मम नयने घूर्णितुम् आरब्धवती। यावदहम् उपरि उपरि गतवान् तावत् तज्ज्वलल्लिङ्गम् अधिकमेव आकाशे विस्तरत् दृष्टम्। 


तदा तस्मात् शैवतेजात् समुत्पन्नाः सिद्धाः ऊचुः, "नित्यस्य अनन्तस्य च शम्भोः परां कोटिं दिदृक्षोः अस्य इदं सत्यमेव मौढ्यम्। विशीर्णपक्षः , विभ्रान्तलोचनः आसन्नदेहपातः अपि एषः अद्यापि अहङ्कारं न मुञ्चति। आत्मयोगेन यदि शिवः ध्यायते तर्हि तत्प्रसादादेव अहंनाशः शक्यः।" 


एवं सिद्धानां सदयं वचः श्रुत्वा विशीर्णाहङ्कारः अहम् अचिन्तयम् ," शिवानुग्रहात् ऋते वेदराशेः विज्ञानात् , तपसः, तीर्थान्वेषणात् वा अन्यस्मात् कस्मादपि साधनात् शिवज्ञानं न सञ्जायते। मम पक्षयुगलं शीर्णं भूत्वा अङ्गे सीदति तथाप्येषः अहङ्कारः मां न मुञ्चति। अतः अहं विश्वविलक्षणं तमेव शिवं शरणं यामि।


अयमेव शिवः सर्ववेदानां देवानां सर्वेषां जगतां च मूलभूतः। अतः तस्य मूलं कथं भवेत्? अहङ्कारम् उपाश्रित्य परस्परम् युद्धं कुर्वतोः आवयोः अहङ्कारं शिवः एवं स्वमाहात्म्यप्रकाशनेन अपाहरत्।


एवं सुरैरपि आनतं स्तम्भमयं ईश्वरं सदाशिवरूपं यः अभिपूजयेत् सः नौरिव संसारसागरस्य पारं यायात् इत्यत्र नास्ति संशयः।