अरुणाचलस्य स्थानमाहात्म्यवर्णनम्।
मार्कण्डेयः उवाच–भगवन् मम वञ्चनं मास्तु यतः अहं भवतः एकनिष्ठः शिष्यः अस्मि। मम सदृशः भवतः अन्यः शिष्यः अस्ति किम्? भवतः मयि या कृपा वर्तते सा एव मम योग्यत्वस्य साक्ष्यं कथयति। पूर्वं भवता यानि शिवस्थानानि कथितानि तेषु प्रत्येकं क्षेत्रस्य फलं पृथक् पृथक् वर्तते। तथापि यत्र मनुष्यः सर्वाणि फलानि एकत्र एव प्राप्नुयात् तस्य स्थानस्य विषये एव अहं ज्ञातुकामः अस्मि।
हे गुरो, जानताम् अजानताम् अपि चराचराणां भूतानां यस्य केवलेन स्मरणेन मुक्तिं भवेत् तत्क्षेत्रं भवान् मां वदतु। हे भगवन् पश्यतु–मयैकेनैव भवान् एतद्विषये न प्रार्थ्यते प्रत्युत सर्वेऽपि मुनिसङ्घाः एतद्विषये ज्ञातुम् उत्सुकाः सन्ति। पुलस्त्यः, पुलहः, वसिष्ठः, मरीचिः,अगस्त्यः, दधीचिः, नक्रुः, भृगुः, अत्रिः, जाबालिः, जैमिनिः, धौम्यः,जमदग्निः,उपयाजः, याजः, भरतः,अर्वरिवत् ,पिप्पलाद, कण्ठः,कुमुदः, उपमन्युः,कुमुदाक्षः, कुत्सः,वत्सः, वरतन्तुः,विभाण्डकः, व्यासः, कण्वरीषः, कण्डुः, माण्डव्यः, मतङ्गः, कुक्षिः, माण्डकर्णिः, चण्डकौशिकः, शाण्डिल्यः,शाकटायनः, शातातपः, मधुच्छन्दः,गर्गः, सौभरिः, रोमशः,आपस्तम्बः, पृथुस्तम्बः,भार्गवः, उदङ्कः, पर्वतः,भारद्वाजः, दाल्भ्यः, दान्तः, श्वेतकेतुः,कौण्डिन्यः, पुण्डरीकः,रैभ्यः, तृणबिन्दुः,वाल्मीकिः, नारदः,वह्निः, दृढमन्युः,बोधायनः, सुबोधः,हारितः, मृकण्डुः,अतितीक्ष्णः दुर्वासाः, जालपादः, शक्तिः,काङ्क्वर्यः, नदन्तः,देवदत्तः, न्यङ्कुः,सुश्रुतः, अग्निवेश्यः,गालवः, मरुत्वान्,लोकाक्षिः,विश्रवाः, सुमन्तुः, सैन्धवः,शिशुपायनः, मौद्गल्यः,पथ्यः, चावनः, मातुरः,ऋष्यशृङ्गः, एकपात्, क्रौञ्चः, दृढः, गोमुखः, देवलः,अङ्गिराः, वामदेवः, और्वः, पतञ्जलिः, कपिञ्जलः, सनत्कुमारः, सनकः, सनन्दनः, सनातनः,हिरण्यनाभः, सत्याख्यः,वाताशनः, सुहोता, मैत्रेयः , पुष्पजित्,सत्यातपः, शालीष्यः,शैशिरः,निदाघः, उतथ्यः,संवर्तकः,शौल्कायनिः, पराशरः,वैशम्पायनः,कौशल्यः, शारद्वतः, कपिध्वजः,कुशः, स्वार्चिकः,कैवल्यः, याज्ञवल्क्यः,आश्वलायनः,कृष्णतपोत्तमः,अनन्तकरुणः, आमलकप्रियः,चरकः, पवित्रः, कपिलः, कणादः, नरः नारायणः, अन्ये च दिव्यमहर्षयः मत्प्रश्नस्य उत्तरं भवन्मुखात् श्रोतुकामाः सन्ति। भवान् महेश्वराणाम् अग्रगण्यः, सर्वागमपाङ्गतः, सर्वव्यापी अस्ति। वेदागमपुराणानां ज्ञानं परमेश्वरस्य दर्शनं वा पार्वती, स्कन्दः, स्वयं शिवः अथवा भवतः उपदेशादेव शक्यम्। अतः यदि भवति अस्माकं भक्तिः स्यात् भवतः च अस्मासु दयाभावः स्यात् तर्हि इदं रहस्यं भवान् अस्मान् कथयतु।
नन्दिकेश्वरः उवाच—
हे मुने, भवतः मनःपरीक्षार्थमेव मयैवं सुदीर्घकथनं कृतम्। एतद्रहस्यं त्वां नाभाधास्यामि चेत् कम् अन्यं कथयिष्ये? त्वत्सदृशः लोके शिवधर्मपरायणः अन्यः कोऽपि अस्ति किं यः स्वल्पायुः सन्नपि शिवप्रसादात् चिरजीवित्वं प्राप्तवान्, यस्य कृते स्वयं शिवः स्वस्य आज्ञाकारिणं यममपि स्वस्य पादाङ्गुष्ठेन पीडतवान्? त्वयि मम नितरां प्रीतिः वर्तते अतः तस्य गुप्तक्षेत्रस्य विषये अहं भवन्तम् अभिधास्यामि यत्क्षेत्रं कैवल्यकाङ्क्षिभिः भक्त्या अवधारणीयम्।
हे तपोधन, दक्षिणदिग्विभागे द्रविडदेशे चन्द्रशेखरस्य शिवस्य अरुणाख्यं योजनत्रयविस्तीर्णं महाक्षेत्रम् अस्ति। शिवयोगिभिः तत् सर्वदा उपास्यं यतः तत् भूमेः हृदयभूतं शिवस्य अत्यन्तप्रियं चास्ति। तत्र स्वयं शम्भुः पर्वताकारं धृत्वा अरुणाचलनाम्ना लोकहितार्थं तिष्ठति।
तत्र सिद्धाः, महर्षयः, देवाः, गन्धर्वाः, विद्याधराः, अप्सरसः अपि निवासं कुर्वन्ति। एषः पर्वतः स्वयं परमेश्वरस्वरूपः अस्ति अतः सुमेरुकैलासमन्दारादिपर्वतेभ्यः अपि महर्षिणाम् एषः बहुमान्यः अस्ति। स्वर्गवासिनः देवाः अपि स्वर्गं परित्यज्य तत्रत्यजीवाः भूत्वा तत्र वासं कर्तुम् इच्छन्ति यतः यत्नैः विनैव तत् क्षेत्रं मुक्तिं ददाति। तत्रत्याः वृक्षाः स्वस्य पत्रपुष्पफलैः गिरिरूपं हरम् अर्चयन्ति अतः ते कल्पवृक्षादीन् देवतरून् अपि अतिशेरते। हिंसैकरुचयः व्याधाः अपि मृगयाव्याजे गिरिप्रदक्षिणां कुर्वन्तः अनन्तफलं प्राप्नुवन्ति। यस्य शिखराणि आश्लेषयन्तः मेघाः गङ्गायुतात् हिमाचलादपि स्वात्मानं अधिकं भाग्यशालिनं मन्यन्ते। तत्र कलरवं कुर्वाणाः खगाः, ध्वनिं कुर्वन्तः वंशाः अपि यक्षकिन्नरगन्धर्वाणामपि दुर्लभं पदं लभन्ते। तत्र कृष्णपक्षस्य रात्रिषु प्रकाशं ददानाः खद्योताः अपि हरारात्रिकर्तृभिः लभ्यमानं देवपदम् अधिगच्छन्ति। अरुणाचलस्य आलिङ्गनं विनाप्रत्यूहं कर्तुं समर्थाः पर्णवन्तः वृक्षाः स्वभाग्यगर्वात् अपर्णां (पार्वतीम्) अपि अवमन्वते। अरुणाचलस्य उत्तुङ्गशिखराणां सान्निध्यं प्राप्य तारकाः स्वात्मानं शिवमस्तके विराजमानेन चन्द्रेण तुल्यं मन्यन्ते। तत्र सानुषु चरन्तः मृगाः शिवेन करे धृतात् मृगात् अपि स्वं बहु मन्यन्ते। तस्मिन् पर्वते चरन्तः शबराः कुम्भनिकुम्भाख्यशिवगणसादृश्यं विनाप्रयासं लभन्ते। अरुणाचलस्य अङ्गे आरूढाः तरवः, पशवः शबराः अपि गणेशकुमाराभ्याम् अभ्यसूयन्ते। तत्र मरणकाले कलेवरं त्यजन्तः सिंहव्याघ्रद्विपादयः अपि शम्भुना बहु मान्यन्ते।
तस्य पूर्वस्यां दिशि भास्करनामा अद्रिः भूत्वा इन्द्रः अरुणाचलस्य सेवां करोति। प्रतीच्यां दण्डाद्रिनामा पर्वतः। तत्र स्थित्वा वरुणः अरुणपर्वतम् उपास्ते। दक्षिणस्यां दिशि कालः अमराचलपर्वतः भूत्वा अरुणेशं सेवते। उत्तरस्यां त्रिशूलाद्रिनामा पर्वतः भूत्वा कुबेरः शोणाचलम् अर्चयति।
अरुणाद्रिं परितः स्थितेषु अन्येषु पर्वतेषु स्थित्वा अपरे दिक्पालाः अग्निनिर्ऋत्यादयः अरुणेशं पर्युपासते। अरुणाद्रिणा सततं धारिताः वृक्षाः केवलं एतेनैव धारणेन अन्यप्रकारकात् आराधनात् अधिकं वैभवरूपफलम् अधिगच्छन्ति। मेना तथा च हिमालयः एनं गिरिरूपं जामातरं दृष्ट्वा आवयोः जामाता अपि पर्वतरूपः एव अतः अस्माभिः समानकुले सम्बन्धः लब्धः इति मत्वा अधिकमेव प्रमुदितौ भवतः। तत्रत्यवृक्षाणां तरुणपल्लवाः महेशस्य जटाः इव लक्ष्यन्ते। एषः पर्वतः स्थावरः शम्भुः एव। तस्य ज्योतिष्मतः शृङ्गस्य द्वयोः पार्श्वयोः चन्द्रसूर्यौ तिष्ठतः तेन एषः पर्वतः स्वस्य त्रिनेत्रतां लोकेभ्यः दर्शयति। वर्षर्तौ तस्य शिखरस्य अधःस्तात् शिवेन कण्ठे धृतस्य कालकूटस्य सदृशः नीलमेघः दृश्यते।
वेदे सहस्राक्षः सहस्रपात् इति शब्दाभ्याम् कृतं परमेशस्य वर्णनं अत्र साक्षात् दृग्गोचरं भवति। अस्य शिखरात् प्रवहन्तः निर्झराः महेशस्य जटाजूटे लीनाम् अमरसरितं लक्षयन्ति। शारदमेघैः कटिप्रदेशे वृतः अयं पर्वतः वृषस्कन्धम् आरुढः शिवः इव भाति। स्वस्य अचलत्वेन सः 'स्थाणुः' इति गहनत्वेन 'भीमः' इति सुदुर्गमत्वेन 'उग्रः' इति एवं स्वनामानि यथार्थानि करोति। जतस्य मध्यभागे कृतनिवासाः कीटसर्पादयः तक्षकानन्तादिश्रेष्ठभुजगैःसह स्पर्धन्ते। अष्टसु कोणेषु अष्टाभिः लिङ्गरूपविभूतिभिः आविर्भूय एषः स्वस्य अष्टमूर्तित्वं प्रकटयति। ज्योतिःस्तम्भस्वरूपस्य अस्य पर्वतस्य मूलं तथा च अग्रं द्रष्टुकामौ ब्रह्मविष्णू पुरा हंसशूकररूपधरौ अभवताम्। ताभ्यां प्रार्थितः शम्भुः तस्मिन् ज्योतिःस्तम्भे सन्निहितः अभवत्।
गौतमः अरुणाद्रौ सहस्रवर्षाणि यावत् तपः आचरितवान्। हिमवतःकन्या पार्वती अपि पुरा तत्र तपः कृत्वा शिवदेहार्धं प्राप्तवती। तत्र गौर्य्या प्रतिष्ठितं प्रवालाद्रीशनामकं लिङ्गं पुंसां कृते सर्वभोगप्रदं कैवल्यप्रदं च वर्तते। तत्र गौर्याः निर्देशानुसारं स्थित्वा महिषासुरघातिनी दुर्गा सज्जनानां कृते साक्षाद्भूय विघ्नरहितां मन्त्रसिद्धिं ददाति। तत्रैव दुर्गया निर्मिते खड्गतीर्थे सकृदेव निमज्जन् मनुष्य पञ्चपातकान् नाशयति। दुर्गया स्थापितं पापनाशननामकलिङ्गं सकृत् प्रणम्यापि जनः स्वस्य पापात् मुच्यते।
वज्राङ्गदो नाम राजा पुरा विपरीताचरणेन शक्तिहीनः अभवत्। सः अरुणाचलभक्त्या पुनः शिवसायुज्यं प्राप्तवान्। अरुणाचलं प्रदक्षिणीकृत्य कान्तिशालिः कलाधरश्च इत्येतौ द्वौ विद्याधरौ दुर्वासर्षेः शापात्.मुक्तिं प्राप्तवन्तौ।
शोणाद्रितः अधिकं पुण्यम् अपरं क्षेत्रं नास्ति। पञ्चाक्षरात् उत्तमतरः मन्त्रः नास्ति माहेश्वरधर्मात् श्रेष्ठः धर्मः महेश्वरात् वा श्रेष्ठो देवः नास्ति। शिवज्ञानात् अपरं ज्ञानं न विद्यते शतरुद्रीयात् परा श्रुतिः विष्णोः परः शैवाग्रणीः, विभूतितः अधिका रक्षा, शिवभक्तितः परः सदाचारः, गुरोः परः रक्षणकर्त्ता, रुद्राक्षात् अधिकं भूषणं, शिवागमात् श्रेष्ठं शास्त्रम्, बिल्वदलात् अधिकं पत्त्रं, सुवर्णपुष्पात् श्रेष्ठं पुष्पं, वैराग्यात् परं सौख्यं, मुक्तेः परं पदं न विद्यते। कैलासमेरू अपि अरुणाद्रेः श्रेष्ठौ न भवतः यतः कैलासश्च मेरुश्च शिवस्य निवासस्थाने तथापि अरुणाद्रिः स्वयं शिवः एव अस्ति।
एवं शिलादपुत्रेण नन्दीश्वरेण उक्ते मार्कण्डेयः हर्षितेन मनसा तं पुनः पुनः प्राणमत्।
