गौतममुनिकृतब्रह्मपुष्करमाहात्म्यवर्णनम्।
शिवादेशानुसारं पार्वती अरुणाचलं प्राप्ता। अन्तस्तेजोमयं शान्तं अप्सरादिभिः नृत्यगीतैः पुष्पवृष्टिभिः च पूजितं तं स्थावरलिङ्गं दृष्ट्वा सा कौतूहलसमन्विता अभवत्। अत्रि-भृगु-भरद्वाज-कश्यप-अङ्गिरा-कुत्स-गौतमादयः मुनयः, योगिनां गणाः, विद्याधराः, सिद्धाश्च वाञ्छितवरप्राप्तये तत्र तपोरताः आसन्। गङ्गाद्याः सर्वाः सरितः सर्वाणि च तीर्थान्यपि तत्रैव वासं कुर्वन्ति स्म। " एतत् अरुणाद्रिनामकं दिव्यं तेजोलिङ्गं भवत्या नन्तव्यमि" ति सुरैः उक्ते पार्वती पुनः पुनः दिव्यलिङ्गं नतवती।
सर्वैः महर्षिभिः आतिथ्यार्थे आहूता सा अवदत् यत् शिवाज्ञया मया गौतमऋषिरेव द्रष्टव्यः इति। तदा तैः गौतमाश्रमस्य स्थानं निर्दिष्टम्।
तत्र प्राप्ता गौरी शिवभक्तोत्तमस्य गौतमस्य शिष्यगणद्वारा उत्तमातिथ्येन पूजिता अभवत्। समिदाहरणाय वनान्तरं गतः गौतमः अपि शिष्यगणेन शीघ्रं गत्वा पार्वत्याः आगमनविषये ज्ञापितः। गौर्याः आगमनमात्रेणैव महर्षेः आश्रमः मणिप्रासादसङ्कुलः विमानशतशोभितः अभवत्। तद्दूरात् दृष्ट्वा मम शिवभक्तेः अपूर्वफलमिदं यत् लोकमातुः ममाश्रमे आगमनम् अभवत् इति मन्यमानः गौतमः शीघ्रम् आश्रमं प्रतिनिवृत्तः।
शिवभक्त्यां तत्परं प्राप्तशिवसारूप्यं महातेजस्विनं तं मुनिं दृष्ट्वा गौरी तं प्रणन्तुम् आरेभे। तदा 'किमेतत् !' इति साश्चर्यं सा मुनिना निवारिता। " हे जगन्मातः भक्तानुग्रहरक्षणस्य व्याजेन भवती शिवाज्ञया अत्रागता अस्ति। मम पूजां स्वीक्रियताम्" इत्युक्त्वा गौतमेन सा विधिवत्पूजिता। "कैलासे घटितः प्रसङ्गः, शिवाज्ञया कम्पातटे भवत्याः तपाचरणं, अत्रागमनार्थं शिवस्य आदेशः इत्यादिविषये अहं सर्वं जानामि। तदनुगुणं भक्ताश्रममिमं प्राप्ता भवती मां कर्तव्यम् आदिशतु " इति गौतमेन उक्तम्।
तदा कुतुकात् तं महामुनिं स्तुवन्ती अम्बा प्राह ,"एतत् भवतः महावैभवं यत् शिवभक्तेषु भवानेव द्रष्टव्यः इति शिवेनाहम् आदिष्टा। बहून् शिवागमवेदपारगान् मुनीन् अतिरिच्य शिवभक्तेषु भवानेव अधिकः शिवस्य सम्मतः अस्ति। अहं शिवादेशानुसारं तपः कर्तुमत्र आगतास्मि। भवतः मुखात् अरुणाचमहिमानं श्रोतुमिच्छामि।"
तदा सः तपोनिधिः गौतमः अरुणाचलं ध्यायन् उक्तवान् ," हे भगवति, भवती सर्वविद्यानां जन्मदात्री शैवी माया। भवत्या अज्ञातं किं विद्यते? तथापि भक्तमुखात् शिवमाहात्म्यश्रवणं भक्तानामेव शाम्भवं शिक्षणं विद्यते तच्च भवत्याः तुष्टेः कारमपि भवति। अतः शिवाशिवप्रसादात् अहमेतत् वदिष्यामि।"
" एषः अरुणाद्रिः ब्रह्मविष्णुसोमभास्करवह्न्यादिदेवैः इन्द्रादिभिश्च दिक्पालैः अष्टसिद्धिप्राप्तये पूजितः। सिद्ध-यक्ष-चारण-गन्धर्व-विद्याधर-नाग-खगैः, सिद्धयोगिभिः मुनिभिश्च एषः तत्तत्पापशमनार्थं वाञ्छितप्राप्त्यर्थं च अर्चितः। एषः केवलं दर्शनेन पापानि नाशयति। सेवितः इष्टप्रदः भवति। दूरतः कीर्त्यते चेत् अपि मोक्षदः भवति। एनं चित्ते ध्यायन्तः योगिनः शिवसायुज्यं प्राप्नुवन्ति। अरुणाचलसन्निधौ यत्किञ्चित् तप्तं, हुतं, जप्तं वा दत्तं तत्सर्वम् अक्षय्यं भवति।"
" पुरा शिवतेजांशेन उद्भूतौ ब्रह्मविष्णू परस्परम् अयुध्यताम्। तयोः अहङ्कारं नाशयितुं आदिमध्यान्तरहितेन तेजःस्तम्भस्य रूपेण शिवः तन्मध्ये प्रादुरभवत्। तस्य स्तम्भस्य आद्यन्तान्वेषणाय प्रवृत्तौ हंसवराहरूपधरौ तौ यदा तत्कार्ये असफलौ अभवताम् तदा भगवान् शम्भुः तेजोलिङ्गात् प्रादुर्भूय तौ समाश्वासयत् तौ इष्टवरान् च प्रादात्। तयोः विज्ञप्त्या सः अत्र लोकानुग्रहार्थं अरुणाचलनाम्ना स्थावरलिङ्गरूपेण तिष्ठति। तस्य माहात्म्यं यथार्थतया कथयितुं न कोटिशः वक्त्राण्यपि पर्याप्तानि।"
" पुरा सृष्टिचक्रे षण्णवतेः ब्रह्मणां कालः यदा अतीतः तदा विष्णुनाभेः समुत्पन्नः नवब्रह्मा पुनः जगतः सर्जनं कृतवान्। कामेन योगिनां तपोभङ्गं साधयितुं इन्द्रः तं एकस्याः अप्सरसः निर्माणं प्रार्थयत। तां लावण्यगुणयुतां स्वनिर्मितां तिलोत्तमानाम्नीं कन्यां दृष्ट्वा ब्रह्मा स्वयमेव कामविह्वलः अभवत्। तं कामेन स्प्रष्टुकामं ब्रह्माणं दृष्ट्वा सा अप्सराः तं नमस्कृत्य पुनश्च प्रदक्षिणव्याजेन तस्य दृष्टेः परं गन्तुकामा यदा ब्रह्मणः प्रदक्षिणाम् आरेभे तदा तां द्रष्टुं चतसृषु दिक्षु ब्रह्मणः चत्वारि मुखानि समुद्भूतानि।"
" तदा सा खगरूपं धृत्वा आकाशे उड्डयितवती। स्वयमपि खगस्य रूपं धृत्वा पश्चात् आयान्तं ब्रह्माणं दृष्ट्वा तया अरुणाचलस्य आश्रयः कृतः। तया रक्षणार्थं प्रार्थितः अरुणाचलः महातेजस्विनमेकं निषादम् उदसृजत्। तेन निषादेन यदा ब्रह्मणः व्यापादनार्थं धनुः सज्जीकृतं तदा ब्रह्मणः मोहः तत्क्षणमेव नाशं गतः। नष्टमोहः ब्रह्मा स्वापराधप्रायश्चित्तार्थं अरुणाद्रिं आत्मनः नाशमेव प्रार्थयत। तदा करुणामूर्तिः अरुणाचलः उक्तवान् , " प्रभुत्वमापन्नस्य सर्वस्यापि रागादयः दोषाः भवन्ति। यः आयुषः कालः मया तुभ्यं दत्तः सः न निवर्त्यते। भवान् दूरं स्थित्वापि सर्वदोषनाशनम् अरुणाद्रिरूपम् एतल्लिङ्गं भजताम्। एतस्य स्मरणार्चनदर्शनकीर्तनप्रदक्षिणनमस्कारैः सर्वं कायिकं वाचिकं मानसिकं च क्षणादेव विलीयते।"
" पूर्वं मदंशसम्भवः ब्रह्मा स्वयमत्र निर्मिते ब्रह्मपुष्करे तीर्थे स्नानं कृत्वा मोहमुक्तः अभवत्। भवानपि तत्र स्नानं कृत्वा मासम् यावत् मामभ्यर्च्य कल्मषमुक्तः भवतु।"
" तथेत्युक्त्वा अरुणाचले पुष्करे तीर्थे स्नानं कृत्वा अरुणाचलं सम्पूज्य ब्रह्मा अपापः भूत्वा पुनश्च जगतः आधिपत्यं प्राप्तवान्।"
