ब्रह्मविष्ण्वो: अरुणाचलमन्दिरनिर्माणम्।
ब्रह्मा उवाच, “ हे देवदेव भवत: ऐश्वर्यं भाग्यवशात् प्राप्तेन भवदनुग्रहेण विना केन वेदितुं शक्येत? अकर्तृकानि वाक्यानि वेदरूपाणि तव एव अविनाशि ऐश्वर्यम् अस्ति। भवत्पुरत: कोहं विष्णुर्वा एते इन्द्रादय: दिपाला: वा स्म:? जगत: निर्माणरक्षणयो: भवानेव कर्तास्ति। हे पार्वतीनाथ वयं पशव: भवान् च पशुपति:। अत: पाशै: अस्मान् बन्धुं मोक्तुं वा भवदन्य: क: समर्थ: स्यात्?
षड्विंशतितत्त्वरूप: भवान् सर्वं व्याप्नोति। भवन्तं याथातथ्येन वर्णितुं क: ज्ञानी समर्थ: स्यात् ? भवान् षड्रिपून् संहर्तुं षड्विंशति-आगमरूपै: शुनकै: आखेटक्रीडां कुर्वन् किरात: असि। पूर्वं दक्षयज्ञे वीरभद्र: भवत: आज्ञया अस्मभ्यं प्रभूता: शिक्षा: दत्तवान्। भवता शूलेन जलन्धर: अन्तक: अन्धकश्चैते दैत्या: दीर्णा:। भवत: प्रतिवीर: क: अस्ति? यदि भवान् कण्ठे कालकूटं न अधारयिष्यत् तर्हि वयं कथं जीवधारणां कर्तुम् अशक्ष्याम? देवदारुवने पूर्वं कर्मठानां मुनीनां प्रक्षोभं जनयित्वा पुनश्च भवान् दयया तान् अनुगृहीतवान्। यदि भवान् स्वस्य चरणेन अपस्मारदैत्यं न आक्रान्तवान् स्यात् तर्हि इदं सर्वं विश्वम् तेन आक्रान्तम् अन्धकारमयं जातं स्यात्। भवता स्वस्य अर्धनारीश्वरूपं न प्रकटीकृतम् अभविष्यत् तर्हि कथमहं चराचरस्य जगत: सर्जनं कर्तुम् समर्थ: अभविष्यम्? भवता स्तम्भित: शम्बरदैत्यस्य हस्त: कियत्कालं भवत: जयस्तम्भ: इव स्थित: आसीत्!! मोहग्रस्त: हरि: भवत: शूलेन अङ्गुल्याम् आहत: सन् भवत: कपालं स्वस्य रुधिरेण अपूरयत्। भवता यदि परशुरामाय शस्त्रास्त्राणि न शिक्षितानि स्यु: तर्हि स: कथं क्षत्रियेभ्य: वैरस्य प्रतिनिर्यातनं कर्तुं प्राभविष्यत्? नृसिंहावतारे हरि: हिरण्यकशिपो: नाशानन्तरम् जगत: नाशाय प्रवृत्त: तदा शरभावतारं धृत्वा भवान् तं निगृहीतवान्। यदा विष्णु: भवन्तं सहस्रकमलै: पूजयितुम् ऐच्छत्। भवता तेषु एकं कमलं निगूहितम्। तदा विष्णुना स्वस्य नेत्रकमलमेव समर्प्य पूजा सम्पादिता। तस्य भक्त्या प्रसन्नेन भवता तस्मै सुदर्शनचक्रं दत्तम्।”
नन्दिकेश्वर: उवाच, “ एवं ब्रह्मणा कृतया स्तुत्या विष्णोश्च प्रार्थनया शिव: प्रससाद। ब्रह्मण: च सृष्टिकर्तृत्वं पुन: अनुमन्यत। चन्द्रशेखर: वात्सल्येन उभौ अब्रवीत् , “ मद्विषयकस्य ज्ञानस्य अभावात् भवन्तौ उद्धतौ जातौ। मां गुरुं स्मृत्वा सृष्टिनिर्माणं तद्रक्षा च एतयो: कार्ययो: भवन्तौ प्रवर्तेताम्। अस्मिन्प्रदेशे मया भवतो: अनुग्रह: कृत: इत्यत: एतत् पुण्यक्षेत्रं पुंसां कृते मोक्षदायकं भवेत्। एतस्मिन् क्षेत्रस्य योजनत्रयपर्यन्तं निवसन्त: मानवा: दीक्षां विनापि मत्सायुज्यं प्राप्नुयु:। पशुपक्षिणां वृक्षादिस्थावराणामपि सहजतया एव मोक्षदायिनी बुद्धि: उत्पद्येत। वेदान्तस्य ज्ञानं यत् तद् अत्यन्तम् आयासजन्यम्। तथापि अस्मिन् क्षेत्रस्य दूरत: दर्शनात् अथवा केवलस्मरणेनापि विनायासं तद् नॄणां हस्तगतं भवेत्।
मम तेजोमयी स्थावरा मूर्ति: अरुणाचलनाम्ना अत्रैव निवसेत्। युगान्तेपि तां महासागरा: न मज्जयेयु: , मरुत: न चालयेयु: वह्निश्च न दहेत्। एतद् ज्योतिर्मयं लिङ्गम् अनुल्लङ्घ्य आकाशस्थजोतिंषी तारकाश्च समन्तात् एव मार्गक्रमणं कुर्यु:। येषु अहम् अनुग्रहं कर्तुम् इच्छामि ते जीवा: अत्र जन्म प्राप्नुयु:। तदनन्तरं च वेदान्तज्ञानं विनैव ते मोक्षम् अवाप्नुयु:।
एष: अरुणाचल: दूरात् प्रणामेन, समीपतश्च प्रदक्षिणात् पापिनामपि नि:श्रेयसप्रद: भविष्यति। महात्मनां वास: अत्र नित्यमेव स्यात्। एतं क्षेत्रं त्यक्त्वा तै: न कुत्रापि गन्तव्यम्। तस्मात् भवन्तौ नित्यमेव शोणाचले निवसताम्।
एवं शिवेन उक्ते तं कामारिं प्रणम्य विधिमाधवौ व्यज्ञापयताम् , “ जगदाधारतां गत: एष: अरुणागिरि: तिष्ठतु अत्र तथापि तस्य तेज: सुदु:सहम् अस्ति। अत: एष: अरुणागिरि: सामान्यशैलवत् भवतु। प्रतिवर्षं कार्तिके मासि कृत्तिकानक्षत्रे दिनात्यये एष: स्वज्योतिं विवृणुयात्। यद्यपि एष: अद्रि: नॄणां शर्मद: भवति तथापि एतस्य महदाकारात् भक्तानां कृते नैष: अर्चितुं शक्य:। अत: अस्मत्प्रार्थनया भवान् एतस्य अरुणाद्रे: उपत्यकायां पूर्वस्यां दिशि लिङ्गरूपेण तिष्ठतु। तं अरुणलिङ्गं अभिषेक-अनुलेपादिभि: विविधोपचारै: आवाम् अर्चाव: । तव पूजार्थम् अत्र केशरा: आम्रा:,पाटला:, नागकेसरा:, अरग्वधा: , कुरबका: इत्यादय: बहव: पुष्पिण: वृक्षा: सन्ति। हे भगवन् भवता अत्रैव स्थेयं येन भवत: अर्चनात् आवां भक्तिदार्ढ्यं प्राप्नुयाव तथा च चित्तशुद्धिं सम्प्राप्य आवयो: अनादि: अविद्या नाशं गच्छेत्। हे भव, साङ्गवेदा:, धर्मशास्त्रं पुराणानि शैवागमा: च भवता एव कृत्वा आवाम् उपदिष्टा:। गुरुरूपिणा भवता भक्तानां नि:श्रेयसाय अष्टाविंशति: शैवागमा: अपि कथिता:। तेषु यथोक्तं तेन प्रकारेण भवत: पूजनोपासने कृत्वा आवाम् अज्ञानजनिताम् आर्तिं न प्राप्नवाव तद् हे शङ्कर वद।”
नन्दिकेश्वर: उवाच, “एवं विधिमाधवाभ्यां विज्ञप्ते सति महादेव: अभाषत, ‘ हे भद्रौ भवद्भ्यां यदुक्त तदेव मम मनीषितमपि। कामिकातन्त्रोक्तेन मार्गेण मम अर्चनं भवन्तौ कुरुथ: येन शैवागमज्ञानं भवतो: हृदि पुन: उद्भासेत।”
एवं विधातृगोविन्दौ उक्त्वा शङ्कर: अन्तर्धानं गत:। ततश्च तत्र एकस्य मङ्गलकरस्य लिङ्गस्य उद्भव: जात:। साश्चर्यं तच्चावलोक्य मुकुन्द: ब्रह्मा च तं लिङ्गं चिरम् अर्चयित्वा सन्तोषितवन्तौ। तौ शोणनाथस्य नानाशिल्पयुतं मन्दिरम् अपि विश्वकर्मणा कारिवन्तौ। देवस्य अभिषेकाय तौ नानातीर्थमयमेकं सर: खानितवन्तौ। तौ अरुणाख्यमेकं पुरमपि कल्पयामासतु: यं लब्ध्वा धूर्जटि: कैलासं गन्तुमपि नोत्कण्ठते। तस्यां पुर्यां ब्रह्मर्षय: देवा:, गन्धर्वा:,अप्सरस:, सिद्धा:, विद्याधरा:, यक्षाश्च पौरजना: अभवन्। सकलानि तीर्थानि गङ्गाद्या: सरितश्च कूपत्वं प्राप्ता: तत्र निवसन्ति। नन्दनादीनि वनानि गोगोष्ठरूपेण गोलोक:, नैगमा: (वेदा:) आगमरूपं धृत्वा पर्वता: गोपुराणि भूत्वा, विधिरूपेण स्मृतय: तत्र विद्यन्ते। भूता: प्रेता: पिशाचा:,वेताला:,कटपूतना: मानुषं देहं धृत्वा तत्र निवसन्ति। शिव: अपि केनापि अविज्ञात: कौपीनधारी सिद्ध: भूत्वा अरुणाख्ये पुरे वासं करोति।”
“ब्रह्माविष्णू अपि तत्र भस्मलिप्तौ चिरं स्थित्वा अरुणेशं समर्चतु:। स्वयमाचार्यौ भूत्वा वर्णानुसारं भक्तेभ्य: दीक्षादानमपि कृतवन्तौ। प्रात: स्नात्वा तौ पुष्पपत्रादीनि समाहृत्य सर्वमन्त्रेषु श्रेष्ठम् अरुणनाथस्य मन्त्रं जपन्तौ धूपप्रदीपनैवेद्यादिभि: गीतवादित्रनर्तनै: प्रदक्षिणानमस्कारमुद्राबन्धादिभि: शिवम् अर्चयामासतु:। एवं षोडशवर्षसहस्राणि शङ्करं समभ्यर्च ब्रह्मविष्णू शिवज्ञानं प्राप्तवन्तौ।”
नन्दिकेश्वर: उवाच, “ पितु: शिलादस्य मुखात् यावदहं श्रुतवानासम् तावदिदं मया भवते श्रावितम्। इतोपि कियत् भवान् श्रोतुम् इच्छति?”
शिवपार्वतीविहारवर्णनम्।
मार्कण्डेय: उवाच , “भवत: मुखात् यत् श्रोतव्यमासीत् तत् अहं श्रुतवान्। तथापि महता कुतूहलेन आक्रान्त: अहं एते मुनयश्च महादेव्या गौर्या कथं तप: तप्तं तद्विषये श्रोतुम् इच्छाम:।”
नन्दिकेश्वर: अभाषत, “हे महामते मार्कण्डेय, या अहं अवगतवान् तथा एतत्सर्वं कथयामि। भवान् जानाति एव यत् पूर्वं दक्षपुत्त्रीं दाक्षायणीं सतीनाम् अधिदेवतां सतीं शिव: परिणीतवान्। सा भर्तु: अपमानात् पितरि दक्षप्रजापतौ क्रुद्धा सती प्राणान् कथं त्यक्तवती एतत् भवता श्रुतमेव। अनन्तरं हरस्याज्ञया वीरभद्रेण दक्षाध्वरस्य विध्वंसनं कृत्वा दक्षस्य मस्तकं छिन्नम्। ब्रह्माच्युतादय: देवाश्च शिक्षिता:।”
“सा देवी सती हिमवत: गृहे पुन: जन्म लब्धवती। तस्या: नाम उमा अथवा पार्वती इति। यदा देव: स्थाणुवने समाधिमग्न: आसीत् तदा पार्वती तस्य परिचर्यां करोति स्म। तदा देवै: प्रेषित: काम: शिवस्य मनसि कामेच्छां जनयितुं शिवस्योपरि स्वबाणान् चालितवान्। तदा भग्नसमाधिना शिवेन क्रोधात् तृतीयं नेत्रमुद्घाट्य कालाग्निना कामस्य दहनमेव कृतम्। ततश्च पार्वती स्वस्य तपस: आचरणेन शिवं प्रासादयत्। शिवेन तया सह विवाह: कृत:। पार्वत्या सह स: एकान्ते रममाण: अभवत्। वैधव्यात् खिन्ना कामपत्नी रती पार्वतीं प्रार्थितवती। तदा कामपीठे तप: तप्त्वा पार्वती कामं पुन: उज्जीवितवती। मात्रा मेनया पित्रा हिमवता च सा गृहम् आनीता। तत्र सा पुन: भर्त्रा सह रममाणा अभवत्।”
“तावता शुम्भ: निशुम्भश्च द्वौ दैत्यौ तपसा ब्रह्मण: वरं लब्धवन्तौ यत् देवदानमानवेषु कोपि आवां मारयितुं समर्थ: न स्यादिति। ताभ्यां त्रासिता: देवा: विष्णुप्रमुखा: महादेवं प्रति गत्वा रहसि तं दैत्यनाशाय प्रार्थितवन्त:।”
महादेव: तेभ्य: अभयदानं दत्त्वा उक्तवान् यत् कालेन एते दानवौ यथा निषूदितौ स्यातां तथा उपाय: विधीयते। एवमुक्त्वा महेश्वर: पुनश्च अन्त:पुरे देव्या सह रममाण: अभवत्।
महेश्वरेण प्रीत्या यदा मर्मलक्ष्येण काली इति देव्या: निन्दा कृता तदा देवं प्रीणयितुं काली स्वत्वचम् त्यक्तवती। स्वेच्छया यत्र तया चर्म त्यक्तं तत्क्षेत्रं महाकाशीनाम्ना प्रख्यातम् अभवत्। तस्या: त्वगेव त्वक्कौशिकी इति नामिकायां देव्यां परिणता अभवत्। सा विन्ध्यवासिनी देवी तत्र तप: कृत्वा अनन्तरं शुम्भनिशुम्भदत्यौ अहन्। देव्या: वर्ण: तपसा गौर: अभवत्। अत: सा गौरी इति प्रख्याता अभवत्।”
“ कालक्रमेण देव्या गणेशकार्तिकेयौ द्वौ पुत्रौ जनितौ। तौ पूर्वापराधक्षालनार्थं देवीगर्भसम्भूतौ नारायणचतुर्मुखौ स्त: इति आगमविद: मन्यन्ते। पित्रो: लालनरक्षणे तौ बाललीलामग्नौ अवर्धताम्।”
.jpeg)