काञ्चीक्षेत्रे पार्वत्याः तपश्चरणम्।
सनकः उवाच--हे भगवन् जगद्गुरो , शिवप्रसादेन तव च दयया मया इदम् अद्भुतं पापविनाशकम् अरुणाद्रिमाहात्म्यं श्रुतम्। एषः अरुणाचलः भवतोः ब्रह्मविष्ण्वोः तपसा जगते वरदानाय अत्र संस्थितः अस्ति। यः सकृतदेव अरुणाचलस्य नाम कीर्तयति तस्मै अरुणाचलः सर्वान् कामान् मुक्तिं च ददाति। सः शोणशैलः पुनः केन केन आराधितः अभवत् ? एवं सनकेन पृष्टे सति--
ब्रह्मोवाच--पूर्वं पार्वत्या अरुणाद्रिम् आश्रित्य आचरितस्य तपसः विषये भवते कथयामि। एकदा शिवेन सह नृत्यगीतेषु रममाणा पार्वती क्रीडया स्वकरकमलाभ्यां शिवस्य त्रीणि नेत्राणि सूर्यचन्द्राग्निरूपाणि पिहितवती। तेन निमिषार्धे एव त्रैलोक्यं प्रलयतमसा आवृतम् अभवत् ततश्च तत्क्षयं प्राप्नुवत्। भगवतः निमिषार्धे जीवानां कोट्यवधिवर्षाणि अतीतानि। एतज्जगतः अकालनाशं दृष्ट्वा तपःपूताः बुद्धिमन्तः भक्ताः शिवमेत्य ऊचुः ," हे भगवन् विनोदेन पार्वत्या कृतेन भवतः नेत्राणां पिधानेन सम्पूणं त्रैलोक्यं प्रलयं गतम्। अतः एतस्मात् क्रीडनात् विरमतु।"
तेषां वचः श्रुत्वा महादेवः पार्वतीं "मुञ्चतु मे अक्षीणि' इति उक्तवान्। पार्वत्या तथा कृते त्रैलोक्यं पुनः स्थापितं समाश्वसितं च अभवत्। तदा भगवान् शम्भुः विहसन् धर्मसङ्ग्रहार्थं स्वप्रियाम् आह," देवि यदा प्रलयकालः आयाति तदा अहमपि लोकसङ्क्षयं सम्पादयामि। तथापि भवत्या अविचार्यैव कृतेन वर्तनेन जगतः अकाले एव सङ्क्षयः प्रवृत्तः। त्वयेदं सद्भिः गर्हितम् आचरितम्।" तदा धर्मलोपस्य भयेन आकुला पार्वती पृष्टवती ," एतस्य पापस्य शमनार्थमहं किं कुर्याम् ? "
तस्याः अनुतापेन प्रसन्नतां गतः शिवः अवदत्, " भवती मयि अविनाभावेन तिष्ठन्ती जगत्कारणभूता आद्याशक्तिः अतः भवत्याः कृते किं प्रायश्चित्तं स्यात्? तथापि श्रुतिस्मृत्योक्तः धर्मः यदि स्वामिभिः एव नानुपाल्यते तर्हि तस्यानुजीविनः अपि धर्मपालनात् विरताः भवेयुः। अतः भवती भूलोकं प्राप्य तपश्चरणं करोतु येन सर्वं जीवजातं धर्मे दृढमति भूत्वा तपःसु मनः निवेशयेत्।"
" भुवनतले काञ्ची नाम्नी स्वर्गसदृशी नगरी वर्तते यत्र क्लृप्तं किञ्चिदपि तपः अनन्तफलं ददाति। अतः देवाः मुनयश्च तत्र सततं वासं कर्तुम् इच्छन्ति। तत्र कम्पानाम्न्याः महापातकनाशिन्याः नद्याः तीरे एकः नित्यपल्लवः आम्रतरुः विद्यते। तस्याधः कृतानि तपः, जपः, होमश्च अनन्तफलदायीनि भवन्ति। तत्र डाकिन्यः योगिन्यः विष्णुमुख्याः शिवगणाश्च भवत्याः परितः वासं करिष्यन्ति। तत्र मम विरहेन भवती आकुला मा भवतु। अहं निष्कलो भूत्वा तव मानसपङ्कजे वासं करिष्यामि।
शिवानुरोधानुगुणं पार्वती काञ्चीं प्राप्य कम्पानद्याः तीरे वर्तमानस्य आम्रतरोः अधः निवासं कृतवती। पुरारेः विरहात् आकुला सा तस्याः सख्या विजयया समाश्वासिता। तत्र सिकताभिः निर्मितेन लिङ्गेन तया शिवार्चना आरब्धा। रुद्राक्षान् धृत्वा सा पञ्चाक्षरमन्त्रजपं कृतवती।
एकदा शिवमायया कम्पायाः प्रवाहो वर्धितः। तदा तया निर्मितं सैकतलिङ्गं पूजासमये कम्पायाः महता प्रवाहेण वेष्टितम्। लिङ्गस्य नाशम् असहमाना सा लिङ्गनाशे सति भक्तैरपि प्राणाः त्यक्तव्याः इति धर्मादेशं स्मृत्वा पूरम् अविगणय्य हस्ताभ्यां तं लिङ्गम् आलिङ्गितवती।
तदैव अशरीरी शिववाणी तया श्रुता-- " हे बाले भवती एतल्लिङ्गं मुञ्चतु। एतत्त्वया अर्चितं सैकतलिङ्गं अत्रैव स्थायी भविष्यति। तच्च देवपूजितं सर्वेभ्यः वरदं च भविष्यति। एतं नमस्कृत्य मानवाः कृतार्थाः भवेयुः।"
" ब्रह्मविष्ण्वोः मोहम् अपाकर्तुं पुरा मया तेजोलिङ्गरूपं धृत्वा लीला प्रदर्शिता ताभ्यां सृष्टिनिर्माणपालनस्य कौशलं च प्रदत्तम्। तयोः अनुरोधेनैव अरुणाचलसंज्ञया स्थावरलिङ्गतां सम्प्राप्य अहं भूतले वासं कृतवान्। सिद्धाः गन्धर्वाः महात्मानः च कैलासमेर्वादीन् विहाय एनम् अरुणाचलशैलं अर्चयन्ति। अरुणाचलरूपेण अहं तेषां पापनाशनं करोमि। *यस्मिन् दृष्टे सति जनानां पूर्वसञ्चितं कर्मऋणं न विद्यते सोहं पर्वतः अ-रुण(ऋण)-अचलः।"*
" तत्र गत्वा भवती गौतममुनिसकाशात् मम महिमानं पूजनं च अवगच्छतु। तत्र अहं मम पापनिवृत्त्यर्थं लोकानुग्रहार्थं च मम तैजसं रूपं भवत्यै दर्शयिष्यामि।"
एवं अशरीरीं शिववाणीं श्रुत्वा पार्वती 'तथा' इत्युक्त्वा अरुणाचलं प्रस्थितवती। अनुगामिनः देवान् ऋषींश्च तया उक्तम्--" भवन्तः सर्वे अत्रैव स्थित्वा एतस्य सैकतलिङ्गस्य आराधनं कुर्वताम्। मत्कृतधर्मपालनात् तपश्चचरणात् च एतल्लिङ्गं सर्वाभीष्टदं अष्टसिद्धिदं च भविष्यति।
सर्वकामप्रदानेन अहमपि 'कामाक्षी' इति नाम्ना अस्मिन्क्षेत्रे प्रसिद्धा भविष्यामि। इदानीमहं शोणेश्वरादेशेन अरुणाचलं गत्वा तपः करिष्यामि।"
एवमुक्त्वा सहचरान् सा देवी अरुणाचले गौतममुनेः आश्रमं प्राप्तुं प्रस्थानं कृतवती।
