अरुणाचलमाहात्म्यम् (पूर्वार्ध:)--६

 


अरुणाचलस्थितविविधतीर्थमाहात्म्यम्।


गौतमः उवाच, “अरुणाद्रेः उत्तरस्यां दिशि सुगन्धिकमलाकुलः कुबेरसरोवरः विद्यते। ईशानकोणे ऐशान्यतीर्थम् अस्ति। कमलाप्रियः विष्णुः तस्य पश्चिमभागे स्नात्वा विष्णुत्वं प्राप्तवान्। तत्रैव नवग्रहाः स्नात्वा ग्रहपदं प्राप्तवन्तः। तत्र स्नानं कुर्वाणः नवग्रहप्रसादं विन्दति। दुर्गा , विनायकः, स्कन्दः, क्षेत्रपालः, सरस्वती एताः देवताः ब्राह्मतीर्थं परितः वसन्तः तत्तीर्थं रक्षन्ति। गङ्गा, यमुना, गोदावरी, सरस्वती, नर्मदा, सिन्धुः ,कावेरी, शोणनदः, शोणनदी च एताः सर्वाः नद्याः अदृश्यरूपेण अरुणाचलं परितः वहन्ति।”

“दक्षिणस्यां दिशि विद्यमाने अगस्त्यतीर्थे स्नात्वा मनुजः विविधभाषाज्ञानं प्राप्नोति। भाद्रपदमासे स्वयम् अगस्त्यः अन्यमुनिभिः सह तस्मिन् तीर्थे स्नानं कृत्वा अरुणाद्रिं पूजयति। वासिष्ठतीर्थम् अरुणाद्रेः उत्तरदिग्भागे वर्तते। तत्र स्नानं कुर्वन् वेदार्थं ज्ञातुं समर्थो भवति। आश्विनमासे वशिष्ठः मेरुपर्वतात् आगत्य अस्मिन् तीर्थे स्नात्वा अरुणाचलं ध्यायति। कार्तिकमासे गङ्गाद्याः पवित्रनद्यः अत्रागत्य अरुणम् अर्चयन्ति। ब्राह्मतीर्थे स्नानं कृत्वा मनुष्यः ब्रह्महत्यादिघोरपातकात् मुच्यते। मार्गशीर्षे स्वयं ब्रह्मा अत्रागत्य स्नानं कृत्वा अरुणाद्रिं पूजयति। पौषमासे देवैः सह इन्द्रः आगत्य ब्राह्मतीर्थे स्नात्वा अरुणेशं पूजयति।”

“अरुणाचलस्य पुरतः शैवनामकम् एकं तीर्थं विद्यते। ब्रह्मकपालधारी रुद्रः तस्मिन् स्नाति। माघमासे सगणः शम्भुः तत्र वासं कृत्वा जनानां पापानि नाशयति। अग्निः आग्नेयायां विद्यमाने अग्नितीर्थे स्नानं कृत्वा स्वाहानामिकां पत्नीं प्राप्तवान्। फाल्गुनमासे कामदेवः तत्र स्नात्वा अरुणाद्रिं सम्पूज्य सर्वसुखाधिपः अभवत्। आग्नेये एव कोणे विष्णुनिर्मिते वैष्णवतीर्थसमीपे ब्रह्मर्षयः नित्यमेव वसन्ति। चैत्रे मासि विष्णुः तस्मिन् स्नानं कृत्वा अरुणाद्रिम् अध्यायत् जगतां स्वामित्वं च प्राप्नोत्। उत्तरदिशि वर्तमाने सौरतीर्थे स्नात्वा मानवः सर्वरोगेभ्यः मुच्यते। वैशाखमासे सूर्यः तस्मिन् स्नानं कृत्वा अरुणेशम् अर्चयति। ईशान्यदिशि आश्विनतीर्थे स्नात्वा शोणशैलं अर्चित्वा अश्विनौ शङ्करं पूजितवन्तः। दक्षिणदिशि अरुणाचलसमीपे शुभं कामदं मोक्षदं च पाण्डवतीर्थं विद्यते। पाण्डवाः तत्र स्नात्वा अरुणाचलं सम्पूज्य क्षितीशाः अभवन्। ज्येष्ठे मासि पृथ्वीदेवता तस्मिन् स्नानं कृत्वा अरुणेशं अर्चयति। वायव्यकोणे वैश्वदेवं महातीर्थं विद्यते। विश्वेदेवाःमहाबलाः सन्तः अपि स्वस्य यज्ञभागं प्राप्तुम् असमर्थाः आसन्। आषाढे मासि ते अस्मिन् तीर्थे स्नात्वा अरुणेशं ध्यात्वा यज्ञभागं विश्वाधिपत्यं च प्राप्तवन्तः।” 

“पूर्वस्यां दिशि वर्तमाने इन्द्रतीर्थे स्नात्वा लक्ष्मीः विष्णुं पतिरूपेण प्राप्तवती। उत्तरस्यां दिशि वर्तमानायां स्कन्दनद्यां स्नात्वा स्कन्दः विपुलं बलं प्राप्तवान्। पश्चिमदिशि कुम्भतीर्थे अगस्त्यः, कुम्भः कुम्भकश्च नित्यं वसन्ति। गङ्गा चरणे स्थित्वा अरुणेशं सेवते यमुना गगनस्थिता नर्मदा च शिरोभागे। एवम् अरुणाद्रिं परितः सहस्रशः तीर्थानि विद्यन्ते। तान् वेत्तुं मुनीश्वरः मार्कण्डेयः अपि न प्राभवत्। अतः सः अरुणाद्रिं प्रार्थितवान् ," भगवन् एतानि सर्वाणि तीर्थानि ज्ञातुं सामान्यजनः न प्रभवेत्। तानि सर्वाणि एकस्मिन्नेव स्थले आगत्य वसेयुः इत्यर्थं भवान् स्वस्य तेजः अन्तः सङ्गृह्य शोणाचलरूपेण भुवि प्रकटितः भवतु।"

“अहमपि तपसा शम्भुम् अर्चयित्वा सर्वलोकोपकाराय शम्भोः सूक्ष्मलिङ्गम् अपूजयम्। विश्वकर्मा अत्र स्वर्गीयभवनानां सर्वेषां नित्यभोगानां च निर्माणं कृतवान्। अत्रैव मुनिवराः धर्मशास्त्राणि लब्धवन्तः भक्त्या शिवसपर्यां च कृतवन्तः। अहम् अग्नौ आहुतिं दत्त्वा सप्तकन्यकानां निर्माणं कृतवान्। ताः च शिवपूजनकार्यार्थं नियुक्तवान्।’

“अरुणाद्रिनामकम् एतत् शिवलिङ्गं निर्मलं दुरितहरं च विद्यते। केवलं तस्य स्मरणेनैव तत् पापं नाशयति। अमितपुण्यराशेः कारणात् एव एतस्य भजनं सम्भवति। भवती अपि एतस्य अरुणेश्वरस्य ध्यानं कृत्वा तं समभ्यर्च्य स्वस्य अभिलषितं प्राप्नोतु।”

पार्वती उवाच, “शिवस्य अग्निमयं एतत् लिङ्गं सर्वेषां प्राणिनां कृते अभिगम्यं कथम् अभवत्? तत् कथम् उपशान्तम् अभवत्? एतस्मात् अरुणपर्वतात् तीर्थानाम् उद्भवः कथं भूतः?”

गौतमः उवाच, “कृतयुगे एतल्लिङ्गम् अग्निमयं वर्तते। त्रेतायामेतत् रत्नमणिपर्वतरूपेण तिष्ठति। द्वापरे एषः सुवर्णपर्वतः ततश्च कलियुगे मरकतपर्वतः भूत्वा तिष्ठति। कृतयुगे बहुयोजनपर्यन्तम् एषः वह्निमयः आसीत्। अग्निरूपम् एनं आसादयितुं देवाः अक्षमाः आसन्।तदा सर्वलोकानां रक्षणार्थम् एषः देवैः एवं प्रार्थितः-- ‘असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः’ एवं वेदाः यस्य विग्रहं स्तुवन्ति तस्मै वेदवेद्याय उमासहिताय सुखस्वरूपिणे शिवाय नमः। भवान् हि सर्वदेवानां निधानम्। सकलं चराचरं जगत् भवतः एव स्वरूपम्। युगस्य समाप्तौ निर्झराणां मेघानां च जलस्य उपसंहारं भवान् करोति तद्युक्तमेव। सृष्टिकाले त्वत्तः अग्निरूपपरमात्मनः एव आपः सम्भवन्ति अनन्तरं याभ्यः सर्वस्याः सृष्टेः विस्तारो जायते। अतः हे अरुणेश, अग्निरूपः भवान् संशान्तः भूत्वा महीतले प्रकाशितः भवतु।”

“एवं देवैः प्रार्थिते अरुणाचलः शान्तः अभवत्। तेन अरुणाचलात् निर्झराः नद्यश्च पुनः प्रादुरभवन्। मेघानां जलमपि सः महता प्रमाणेन नागृह्णात्। महर्षीणां देवानां च प्रार्थनया अरुणाद्रिं परितः विविधतीर्थानां जन्म अभवत्।”

“तेषु ऐन्द्रं तीर्थं पूर्वस्यां दिशि वर्तते पुरा यत्र स्नात्वा इन्द्रः ब्रह्महत्यायाः पापत् मुक्तः अभवत्। आग्नेयकोणे ब्रह्मतीर्थस्य उद्भवः अभवत्। अत्र स्नात्वा अग्निः परस्त्रीसङ्गजनितात् पापात् मुक्तिं प्राप्तवान्। दक्षिणदिशि यमतीर्थम् उत्पन्नम्। तत्र स्नात्वा यमः ब्रह्मास्त्रभयात् मुक्तः अभवत्। नैऋत्ये निर्ऋतितीर्थे स्नात्वा ऋषयः भूतवेतालान् विजितवन्तः। पश्चिमायां वरुणतीर्थं विद्यते। तत्र स्नात्वा वरुणः अक्षय्यं तूणीरं प्राप्तवान्। वायव्यदिशि वर्तमाने वायव्यतीर्थे स्नात्वा वायुः जगत्प्राणत्वं प्राप्तवान्। उत्तरस्यां सोमतीर्थे स्नात्वा सोमः यक्ष्मरोगात् मुक्तः अभवत्। ईशान्यभागे ऐशान्यतीर्थं यत्र स्नात्वा विष्णुः लक्ष्मीसाहचर्यं प्राप्तवान्।”

पुरा मार्कण्डेयः ऋषिः शिवं नमस्कृत्य उक्तवान्, ‘हे भगवन् सर्वतीर्थानाम् एकत्रोपस्थितिः कथं भवेत् येन जनाः एकस्मिन्नेव काले सर्वेषां तीर्थानां लाभं प्राप्तुं शक्नुयुः?’ तदा प्रसन्नमनाः भगवान् उवाच," हे मार्कण्डेय, मम पूजायाः अवसानसमये नैवेद्यसमर्पणकाले मयि सर्वाणि तीर्थानि अदृश्यरूपेण तिष्ठन्ति। तस्मिन्काले मयि जनैः सर्वतीर्थसमागमः प्राप्तव्यः।" 

पार्वती उवाच, “त्वयोक्तं अद्भुततीर्थजालविषये श्रुत्वा अहं कृतार्था जाता। हे तपसां वरिष्ठ गौतम, वह्निरूपस्य तथापि इदानीं प्रशान्तस्य अरुणाद्रेः परमेशस्य पूजनं कथं करणीयं तन्मे ब्रूहि।”