कोऽहम्? (Who am I?) इत्येष: आत्मविचारणा- सम्बद्ध: प्रश्नोत्तरसङ्ग्रह: अस्ति। ईसवीये १९०२ मध्ये श्री.एम्.शिवप्रकाशम्-पिल्लैमहाभाग: एतान् प्रश्नान् भगवन्तं रमणमहर्षिणं पृष्टवान्। पिल्लैमहोदय: तत्त्वज्ञानस्य पदवीधर: आसीत्। स: तदानीं अरकॉट्-जनपदस्य करसङ्कलनविभागे कार्यरत: आसीत्। कार्यवशात् एकदा १९०२ मध्ये स: तिरुवन्नमलैनगरं गत:। तत्र स: अरुणाचलपर्वते विरूपाक्षगुहायां भगवन्तं रमणमहर्षिं मिलितवान्। तदा गुरो: आध्यात्मिकं मार्गदर्शनम् अपेक्षमाणेन तेन महर्षे: सकाशात् आत्मविचारणामार्गम् अधिकृत्य केषाञ्चन प्रश्नानाम् उत्तराणि प्राप्तानि। भगवान् तदा मौनेनैव तिष्ठति स्म। अत: स: प्रश्नानाम् उत्तराणि इङ्गितेनैव दर्शयित्वा अथवा तेषाम् अर्थावगमाभावे लिखित्वा ददाति स्म।
मूलत: एते आहत्य चतुर्दश प्रश्ना: आसन्। तथापि अग्रिमसंस्करणेषु एषा सङ्ख्या अष्टाविंशतिपर्यन्तं वृद्धा। क्वचित् च प्रश्नान् अनिर्दिश्य निबन्धरूपेणापि तेषां लेखनप्रकाशने जाते स्त:।
कोऽहम्? (Who am I) तथा विचारसङ्ग्रह: (Self Enquiry) एतौ द्वौ एव साक्षात् भगवत: रमणमहर्षे: स्वीयशब्दै: निबद्धौ गद्यरूपौ उपदेशसङ्ग्रहौ स्त:। आत्मविचारणा इत्येव मुक्ते: साक्षात् (direct) मार्गोऽस्ति इति तयो: केन्द्रीभूत: उपदेश:। कोऽहम् इत्यस्मिन् ग्रन्थे सुगमतया एतस्य मार्गस्य विवेचनं कृतम् अस्ति। मन: विचाराणां समूहरूपम्। तेषु विचारेषु ‘अहम्’ इत्येष: प्रथम: विचार:। कोऽहम् इति विचारणा सातत्येन अनुष्ठिता चेत् विचारा: नाशं यान्ति । अन्ते ‘अहम्’ इति विचार: अपि नश्यति तथा च केवलम् आत्मन: अद्वैतबोध: अवशिष्यते। एवं अनात्मवस्तुभि: मन:शरीरादिभि: सह आत्मन: तादात्म्यं नश्यति; आत्मनश्च अपरोक्षज्ञानं भवति। एषा एव स्थिति: मौनशब्देन निर्दिश्यते।
कोऽहम्?
सर्वेऽपि प्राणिन: सर्वदा दु:खरहिता: आनन्दपूर्णाश्च भवितुम् इच्छन्ति। सर्वेषां आत्मनि नितरां प्रीतिश्च लक्ष्यते। तस्या: प्रीते: कारणम् आत्मन: आनन्दस्वरूपमेव। यश्च आनन्द: स्वस्य स्वरूपभूत: यश्च मनस: अनुपस्थितौ सुषुप्तावस्थायाम् अनुभूयते तस्य अवाप्तये स्वस्य आत्मा वेदितव्य:। तदर्थं ज्ञानमार्ग: कोऽहम् इति विचारणारूप: प्रधानं साधनम्।
१) कोऽहम् ?
√ अहं सप्तधातुभि: निर्मितम् इदं स्थूलं शरीरं न अस्मि। अहं श्रोत्र-त्वक्-चक्षु-रसन-घ्राणरूपाणि शब्द-स्पर्श-रूप-रस-गन्धविषयाणि ज्ञानेन्द्रियाणि न अस्मि। अहं वाक्-पाणि-पाद-उपस्थ-पायुरूपाणि भाषण-ग्रहण-गमन-मैथुन-उत्सर्जनक्रियाणि कर्मेन्द्रियाणि न अस्मि। अहं प्राणादय: पञ्चप्राणा: तेषां श्वसनादिक्रिया: च न अस्मि। अहं विचारक्रियं मन: अपि न अस्मि। यत् जगद्वस्तूनां केवलं सुप्तसंस्कारान् दधाति तथा च यस्मिन् स्थूलजगद्वस्तूनां क्रियाणां च पूर्णाभावो विद्यते तदज्ञानमपि अहं नास्मि।
२) यदि अहं एतानि सर्वाणि नास्मि तर्हि कोऽहम् ?
√ उपर्युक्तानां सर्वेषां ‘न इदम्’ ‘न इदम्’ एवं निषेधे कृते य: केवलबोध: अवशिष्यते स: एव अहम् अस्मि।
३) तस्य बोधस्य किं स्वरूपम्?
√ स: बोध: सत्-चित्-आनन्दस्वरूप: अस्ति।
४) तस्य आनन्दस्वरूपस्य आत्मन: साक्षात्कार: कदा भवेत्?
√ दृश्यमानं जगत् यदा निरस्यते तदा द्रष्टु: आत्मन: साक्षात्कारो भवेत्।
५) सत्यरूपेण प्रतीयमाने जगति स्थितेऽपि द्रष्टु: आत्मन: साक्षात्कार: भवेत् किम्?
√ न भवेत्तथा।
६) केन कारणेन?
√ द्रष्टा तथा च दृश्यम् रज्जुसर्पवत् स्त:। यावत् भासमानं सर्पविषयकं मिथ्याज्ञानं न अपगच्छति तावत् तस्य मिथ्याज्ञानस्य आधारभूता या रज्जु: तस्या: ज्ञानं नैव भवति। तथैव यावत् जगत: सत्यत्वविषयिणी अस्माकं भ्रान्ति: न अपगच्छेत् तावत् जगज्ज्ञानस्य आधारभूत: य: आत्मा तस्य साक्षात्कार: न भवेत्।
७) दृश्यमानस्य जगत: निरास: कदा भवेत्?
√ यदा सर्वेषां बोधानां क्रियाणां च कारणीभूतं मन: शान्तं भवेत् तदा समस्तं जगत् निरस्तं भवेत्।
८) मनस: किं स्वरूपम्?
√ यत् मन: इत्यभिधीयते तत् आत्मनि विद्यमाना काचित् विस्मयकारिणी शक्ति:। सा सर्वेषां विचाराणां जनयित्री। विचारान् विहाय मनोनामकं पृथक् किञ्चिद्वस्तु न अस्ति। अत: विचारा: एव मनस: स्वरूपम्। विचारान् विहाय जगन्नामकं पृथक् वस्तु स्वातन्त्र्येण न विद्यते। सुषुप्तौ विचारा: न विद्यन्ते तेन तत्र जगत: अपि अभाव: अस्ति। जाग्रत्स्वप्नयो: विचारा: उद्भवन्ति तदा एव जगत: अपि उद्भव: भवति। यथा ऊर्णनाभि: स्वस्य शरीरात् सूत्रं सृजति पुनश्च स्वशरीरे उपसंहरते तथैव मन: स्वस्मात् जगत् सृष्ट्वा पुन: स्वस्मिन्नेव उपसंहरते।
यदा मन: आत्मन: बहिरायाति तदा जगत् प्रत्यक्षीभवति अत: यदा जगत् सत्यत्वेन भासते तदा आत्मा प्रत्यक्ष: न भवति। तद्विपर्ययेण च यदा आत्मा साक्षाद्भवति तदा जगत: प्रतीति: न भवति।
यदि मनुष्य: नैरन्तर्येण मनस: स्वरूपं विचारयति तर्हि तन्मन: नाशं याति केवलम् आत्मा च अवशिष्यते। मनस: अवस्थिति: सर्वदा कस्यचित् स्थूलवस्तुन: आलम्बनम् अपेक्षते यत: मन: कैवल्येन स्वातन्त्र्येण वा स्थातुं न शक्नोति। एतत् मन: एव लिङ्गदेह: अथवा जीव: इति कथ्यते।
९) क: एष: विचारमार्ग: मनस: स्वरूपस्य अवगमनार्थम्?
√ शरीरे यत् “अहम्” इति भानम् उदेति तदेव मन:। यदि विचारयाम: अस्मिन् शरीरे कुत्र वा एष: “अहम्” प्रथमम् आविर्भवति, तर्हि “हृदये” इति उत्तरं लभ्यते। अत: हृदयम् मनस: उद्गमस्थानम्। यदि मनुष्य सातत्येन “अहम्, अहम्” इति चिन्तयेत् तर्हि स: तम् उद्गमस्थलं प्रति नीतो भवति।
मनसि उत्पद्यमानेषु सर्वेषु विचारेषु “अहम्” इति प्रथमो विचार:। तस्य उदयात् अनन्तरमेव इतरे विचारा: उद्भवन्ति। उत्तमपुरुषवाचकस्य सर्वनाम्न: पश्चादेव मध्यमप्रथमपुरुषवाचके सर्वनाम्नी प्रादुर्भवत:।
१०) तन्मन: कथं शान्तं भवेत्?
√ कोऽहम् इति विचारणया। एष: कोऽहम् इति विचार: अन्यान् सर्वान् विचारान् नाशयेत्। पुनश्च यथा ज्वलदङ्गाराणाम् उन्मथनाय उपयोजितं काष्ठम् अन्ते स्वयमेव अग्नौ भस्मसात् भवति तथा अन्ते एष: कोऽहम् इति विचार: अपि स्वयमेव नाशं याति। तदा आत्मबोधस्य उदय: भवति।
११) क: मार्ग: कोऽहम् इत्यस्य विचारणाया: नैरन्तर्येण अवलम्बनाय ?
√ यदा यदा विचारा: मनसि उद्भवन्ति तदा तदा मनुष्य: तेषाम् अनुगमनम् अकृत्वा पृच्छेत् “एते कस्य विचारा:?” इति। कियन्त: विचारा: मनसि उद्भवन्ति तन्न विचार्यम्। यदा यदा कश्चन विचार: उद्भवेत् तदा तदा यदि “कस्य एष: विचार:?” इति पृच्छा भवेत् तर्हि “मम” इति उत्तरम् उदीयात्।
पुनश्च मनुष्य: “कोऽहम्?” इति पृच्छेत् तर्हि मन: तस्य उद्गमस्थानं प्राप्नोति; स: उद्भूत: विचारश्चापि शान्त: भवति। एतस्य पौन:पुन्येन अभ्यासात् मन: स्वस्य उद्गमस्थाने एव स्थातुम् कौशलं प्राप्नुयात्।
यदा एतत् सूक्ष्मं मन: मस्तिष्कमार्गेण ज्ञानेन्द्रियाणां द्वारेण वा बहि: गच्छति, तदैव स्थूलनामरूपाणि दृग्गोचराणि भवन्ति। यदा तत् हृदयस्थाने एव तिष्ठति तदा नामरूपाणि विलीयन्ते। मनस: बहिर्गमनस्य निषेध: तथा च तस्य हृदये निरोध: एव अन्तर्मुखता। तस्मै बहिर्गमनाय अनुमतिदानमेव बहिर्मुखता।
एवं यदा मन: हृदये एव तिष्ठति तदा एष: सर्वविचाराणाम् स्रोतोरूप: “अहम्” इति विचार: अपि नश्यति , शाश्वत: आत्मा च प्रकाशितो भवति।
मनुष्य: यत्किमपि कुर्यात् नाम स: तत् एनम् अहंभावं त्यक्त्वैव कुर्यात्। यदि एतेन प्रकारेण मनुष्य: वर्तते तर्हि सर्वमेव शिवस्वरूपम् इति प्रतीति: भवति।
१२) मनस: शमनाय अन्ये केचन मार्गा: न सन्ति किम्?
√ कोऽहम् इति पृच्छाकरणं विहाय न कोऽपि अन्य: पर्याप्तमार्ग:। अन्यै: साधनै: यदि मनस: निरोधं कर्तुं प्रयत्येत तर्हि किञ्चित्कालं मन: निरुद्धम् इति भासेत तथापि तत् पुन: बहि: यायात् एव।
श्वासप्रश्वासनिरोधात् अपि मनस: शमनं भवति तथापि यावत् श्वासनिरोध: तावत्कालमेव मनस: निरोध: भवति। श्वासस्य पुनश्चलनेन मन: अपि चलनम् आरभते पूर्वसंस्कारै: प्रेरितं च सर्वत्र भ्रमणं करोति यत: मनस: श्वासस्य च एकमेव उद्गमस्थानम्।
विचार: यथार्थतया मनस: स्वरूपमेव। “अहम्” इति मनस: प्रथम: विचार:। स एव अहङ्कार: इति कथित:। अहंविचारस्य उद्भव: यस्मात् भवति तत: एव श्वास: उद्भवति। अत: यदा मन: शान्तं भवति तदा श्वासस्य अपि निरोध: भवति तद्विपर्ययेण च यदा श्वास: निरुध्यते तदा मन: अपि शान्तं भवति।
तथापि सुषुप्तावस्थायां यद्यपि मन: शमनं याति तथापि श्वास: स्थगित: न भवति। एतत् शक्यं भवति “एतत् शरीरं सुरक्षितं तिष्ठतु अन्ये च एतत् मृतम् इति मा चिन्तयेयु:” इति ईश्वरेच्छया। तथापि जाग्रदवस्थायां समाधौ च मनसि शान्ते श्वास: निरुद्ध: भवति यत: श्वास: मनस: स्थूलं रूपमेव।
आ मरणात् मन: शरीरे श्वासप्रश्वासगतिं रक्षति। यदा शरीरं मृतं भवति तदा मन: तेन सह श्वासं गृहीत्वा प्रयाति। तस्मात् श्वासस्य निरोधाय क्रियमाण: प्रयास: (प्राणायाम:) मनस: शमनस्य (मनोनिग्रहस्य) साधनम्। तथापि तेन मन: नष्टं न भवति।
प्राणायामस्य अभ्यास:, ईश्वरस्य रूपाणां ध्यानं, मन्त्रजप: आहारनियमनं एते केवलं मनस: शमनार्थं सहायका: भवन्ति।
ईश्वस्य रूपाणां ध्यानेन, मन्त्रजपेन, मन: एकाग्रं भवति। भ्रमणं मनस: प्रवृत्तिरेव। यथा गजस्य शुण्डायां काचित् भारवती लोहशृङ्खला स्थापिता चेत् स: गज: अन्यत्सर्वं परित्यज्य शुण्डया तामेव शृङ्खलां परिष्वज्य गमनं कुर्यात् तथैव मन: यदा एकेनैव नाम्ना रूपेण वा व्यापृतं भवति तदा तत्केवलं तमेव नाम वा रूपं वा गृहीत्वा तिष्ठति।
यदा मन: अगणितविचाररूपेण विस्तारं याति तदा प्रत्येकं विचार: दुर्बलायते। तथापि यदा यदा विचारा: अपगच्छन्ति तदा तदा मनस: ऐकाग्र्यं सामर्थ्यं च वृद्धिं याति। एतादृशस्य मनस: कृते आत्मविचार: सुकर: भवति।
सर्वेषु नियमेषु मितप्रमाणेन सात्विकान्नभक्षणस्य नियम: श्रेष्ठतम:। एतस्य नियमस्य अनुपालनेन मनस: सत्त्वगुण: वृद्धिं याति, येन आत्मविचार: सुकर: भवति।
१३) जगद्वस्तूनां संस्कारा: तज्जन्यविचाराश्च सामुद्रवीचिवत् सातत्येन उद्भवन्ति। तेषां नाश: कदा सम्भवेत्?
√ यदा यदा आत्मविचारणा प्रवर्धेत तदा तदा विचाराणां नाश: भवेत्।
१४) जगद्वस्तूनां संस्कारा: अनादिकालात् प्रवृत्ता:। तेषां नाश: तथा च स्वस्य केवलं आत्मत्वेन स्थानं किं यथार्थतया शक्यम्?
√ “एतत् शक्यं भवेत् किम् ?” एतादृशान् सर्वान् संशयान् परित्यज्य जन: आत्मन: विषये सातत्येन विचारणां कुर्यात्। यद्यपि कश्चन पापिभ्य: अपि पापियान् स्यात् नाम तथापि स: “ अहं तु पापिष्ठ: अस्मि।” एतादृशं विचार्य चिन्ताकुल: मा भवेत् ; प्रत्युत स: यदि आत्मविचारणां तीव्रतया करोति चेत् स: सफल: भवेत् एव।
एकस्यैव जनस्य मन: एकं सुष्टम् अपरं दुष्टं च इति द्विविधं न भवति। तत्तु एकमेव। तस्मिन् ये संस्कारा: ते पवित्रा: अपवित्रा: वा। यदा सत्संस्कारा: प्रबला: तदा तत् सुष्टम् इति कथ्यते यदा च कुसंस्काराणां प्राबल्यं तदा तदेव दुष्टम् इति।
मनसे जगद्वस्तूनि प्रति गमनार्थं अन्यजनसम्बद्धेषु विषयेषु विचरणार्थं वा न अनुमति: न दातव्या।
अन्ये जना: कियत् अपि दुष्टा: स्यु: नाम जन: तान् प्रति द्वेषं न पालयेत्। रागद्वेषौ उभावपि परिहर्तव्यौ।
यत् अन्येभ्य: दीयते तत् सर्वं स्वस्मै एव कृतं दानम्। यदि एतत्सत्यम् अवगम्येत तर्हि क: अन्यस्मै न दद्यात्?
यदा स्वस्य मनस: उदय: भवति तदा सर्वमपि उदयं याति। यदा स्वस्य मनस: शमनं भवति तदा सर्वमपि शान्तिं गच्छति।
यावत्प्रमाणेन वयं विनयेन वर्तामहे तावत्प्रमाणेन तस्य शुभपरिणाम: भवेत्।
यदि मन: शमनं यायात् तर्हि मनुष्य: कस्मिन्नपि स्थले वासं कर्तुं प्रभवेत्।